सुभीमदंष्ट्रं शशिसूर्यनेत्रं संवत्सरे चायनयुग्मकुक्षम् । दर्भाङ्गरोमाणमथेध्मशक्तिं सनातनं यज्ञनरं नमामि ।। ५.
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं शरीरेण दिशश्च सर्वाः । तमीड्यमीशं जगतां प्रसूतिं जनार्दनं तं प्रणतोऽस्मि नित्यम् ।। ५.
सुरासुराणां च जयाजयाय युगे युगे यः स्वशरीरमाद्यम् । सृजत्यनादिः परमेश्वरो य- स्तं यज्ञमूर्तिं प्रणतोऽस्मि नाथम् ।। ५.
दधार मायामयमुग्रतेजा जयाय चक्रं त्वमलांशुशुभ्रम् । गदासिशार्ङ्गादिचतुर्भुजोऽयं तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ।। ५.
क्वचित् सहस्त्रं शिरसां दधार क्वचिन्महापर्वततुल्यकायम् । क्वचित् स एव त्रसरेणुतुल्यो यस्तं सदा यज्ञनरं नमामि ।। ५.
चतुर्मुखो यः सृजते समग्रं रथाङ्गपाणिः प्रतिपालनाय । क्षयाय कालानलसन्निभो य- स्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ।। ५.
संसारचक्रक्रमणक्रियायै य इज्यते सर्वगतः पुराणः । यो योगिभिर्ध्यायते चाप्रमेयस् तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ।। ५.
सम्यङ्मनस्यर्पितवानहं ते यदा सुदृश्यं स्वतनौ नु तत्त्वम् । न चान्यदस्तोति मतिः स्थिरा मे यतस्ततो मावतु शुद्धभावम् ।। ५.
इतीरितस्तस्य हुताशनार्चिः - प्रख्यं तु तेजः पुरतो बभूव । तस्मिन् स राजा प्रविवेश बुद्धिं कृत्वा लयं प्राप्तवान् यज्ञमूर्तौ ।। ५.
धरण्युवाच । स वसुः संशयच्छेदं प्राप्य रैभ्यश्च सत्तमः । उभौ किं चक्रतुर्देव श्रुत्वा चाङ्गिरसं वचः ।। ६.
श्रीवराह उवाच । स वसुः सर्वधर्मज्ञः स्वराज्यं प्रतिपालयन् । अयजद् बहुभिर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ।। ६.
कर्मकाण्डेन देवेशं हरिं नारायणं प्रभुम् । तोषयामास राजेन्द्रस्तमभेदेन चिन्तयन् ।। ६.
ततः कालेन महता तस्य राज्ञो मतिः किल । निवृत्तराज्यभोगस्य द्न्द्वस्यान्तमुपेयुषी ।। ६.
ततः पुत्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य ह । अभिषिच्य स्वके राज्ये तपोवनमुपागमत् ।। ६.
पुष्करं नाम तीर्थानां प्रवरं यत्र केशवः । पुण्डरीकाक्षनामा तु पूज्यते तत्परायणैः ।। ६.
तत्र गत्वा स राजर्षिः काश्मीराधिपतिर्वसुः । अतितीव्रेण तपसा स्वशरीरमशोषयत् ।। ६.
पुण्डरीकाक्षपारं तु स्तवं भक्त्या जपन् बुधः । आरिराधयिषुर्देवं नारायणमकल्मषम् । स्तोत्रान्ते तल्लयं प्राप्तः स राजा राजसत्तमः ।। ६.
धरण्युवाच । पुण्डरीकाक्षपारं तु स्तोत्रं देव कथं स्मृतम् । कीदृशं तन्ममाचक्ष्व परमेश्वर तत्त्वतः ।। ६.
श्रीवराह उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन । नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ।। ६.
विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् । नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ।। ६.
आदिदेवं महादेवं वेदवेदाङ्गपारगम् । गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ।। ६.
विश्वमूर्तिं महामूर्तिं विद्यामूर्तिं त्रिमूर्तिकम् । कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ।। ६.
सहस्त्रशीर्षिणं देवं सहस्त्राक्षं महाभुजम् । जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ।। ६.
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् । नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ।। ६.
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् । भावाभावविनिर्मुक्तं मस्ये सर्वगं हरिम् ।। ६.
नान्यत् किंचित् प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत । त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ।। ६.
एवं तु वदतस्तस्य मूर्त्तिमान् पुरुषः किल । निर्गत्य देहान्नीलाभो घनचण्डो भयंकरः ।। ६.
रक्ताक्षो ह्रस्वकायस्तु दग्धस्थूणासमप्रभः । उवाच प्राञ्जलिर्भूत्वा किं करोमि नराधिप ।। ६.
राजोवाच । कोऽसि किं कार्यमिह ते कस्मादागतवानसि । एतन्मे कथय व्याध एतदिच्छामि वेदितुम् ।। ६.
व्याध उवाच । पूर्वं कलियुगे राजन् राजा त्वं दक्षिणापथे । पूर्णधर्मोद्भवः श्रीमाञ्जनस्थाने विचक्षणः ।। ६.