भूमौ स्थितं तु मां दृष्ट्वा हुङ्कारमकरोद् द्विजः । तद्धुङ्कारात् तु पातालं भित्त्वा पञ्च हि कन्यकाः ।। ६९.
निर्ययुः काञ्चनं पीठमेका तासां प्रगृह्य वै । सा मां प्रादात् तदाऽन्याऽदात् सलिलं करसंस्थितम् ।। ६९.
गृहीत्वाऽन्या तु मे पादौ क्षालितुं चोपचक्रमे । अन्ये द्वे व्यजने गृह्य मत्पक्षाभ्यां व्यवस्थिते ।। ६९.
ततो हुङ्कारमकरोत् पुनरेव महातपाः । तच्छब्दादन्तरं हैमद्रोणीं योजनविस्तृताम् । गृह्याजगाम मकरोत्प्लवं सरसि पार्थिव ।। ६९.
तस्यां तु कन्याः शतशो हेमकुम्भकराः शुभाः । आययुस्तमथो दृष्ट्वा स मुनिः प्राह मां नृप ।। ६९.
स्नानार्थं कल्पितं ब्रह्मन्निदं ते सर्वमेव तु । द्रोणीं प्रविश्य चेमां त्वं स्नातुमर्हसि सत्तम ।। ६९.
ततोऽहं तस्य वचनात् तस्यां द्रोण्यां नराधिप । विशामि तावत् सरसि सा द्रोणी प्रत्यमज्जत ।। ६९.
द्रोण्यां जले निमग्नोऽहम् इति मत्वा नरेश्वर । उन्मग्नोऽहं ततो लोकमपूर्वं दृष्टवांस्ततः ।। ६९.
सुहर्म्यकक्ष्यायतनं विशालं रथ्यापथं शुद्धजनानुकीर्णम् । नीत्युत्तमैः सेवितमात्मविद्भि - र्नृभिः पुराणैर्नयमार्गसंस्थैः ।। ६९.
संसारचर्यापरिघाभिरुग्रं गम्भीरपातालतलस्थमाद्यम् । सितैर्नृभिः पाशवराग्रहस्तैः द्विपाश्वसंघैर्विविधैरुपेतम् ।। ६९.
विचित्रपद्मोत्पलसंवृतानि सरांसि नानाविहगाकुलानि । अम्भोजपत्रस्थितभृङ्गनादै- रुद्गीतवन्तीव लयैरनैकैः । कैलासश्रृङ्गप्रतिमानि तीरे - ष्वनेकरत्नोत्पलसंचितानि । गृहाणि धन्याध्युषितानि नीचै - रुपासितानि द्विजदेवविप्रैः ।। ६९.
कैलासश्रृङ्गप्रतिमानि तीरे - ष्वनेकरत्नोत्पलसंचितानि । गृहाणि धन्याध्युषितानि नीचै - रुपासितानि द्विजदेवविप्रैः ।। ६९.
पद्मानि भृङ्गावनतानि चेलु - स्तेषां पुनर्गुरुभारादजस्त्रम् । जलेषु येषां सुस्वरास्यो द्विजाति- र्वेदोदितानाह विचित्रमन्त्रान् ।। ६९.
सिताब्जमालार्चितगात्रवन्ति वासोत्तरीयाणि खगप्रवारैः । सरांस्यनेकानि तथा द्विजास्तु पठन्ति यज्ञार्थविधिं पुराणम् ।। ६९.
भ्रमन्नहं तेषु सरःस्वपश्यं वृन्दान्यनेकानि सुराङ्गनानाम् । विद्याधराणां च तथैव कन्याः स्नानाय तं देशमुपागताश्च ।। ६९.
ततः कदाचिद् भ्रमता नृपोत्तम प्रदृष्टमन्यत्सुसरः सुतोयम् । प्राग् दृष्टमेकं तु तथैव तीरे कुटीं प्रपश्यामि यथा पुराऽहम् ।। ६९.
यावत् कुटीं तां प्रविशामि राजन् तपस्विनं तं स्थितमेकदेशे । दृष्ट्वाभिगम्याभिवदामि यावत् स्मयन्नुवाचाप्रतिमप्रभावः ।। ६९.
तापस उवाच । किं मां विप्र न जानीषे प्राग्दृष्टमपि सत्तम । येन त्वं मूढवल्लोकमिममप्यनुपश्यसि ।। ६९.
दृष्टं मत्कमिदं देवैर्भुवनं यन्न दृश्यते । त्वत्प्रियार्थं मया लोको दर्शितः स द्विजोत्तम ।। ६९.
संपदं पश्य लोकस्य मदीयस्य महामुने । दधिक्षीरवहा नद्यस्तथा सर्पिर्मयान् ह्रदान् ।। ६९.
गृहाणां हेमरत्नानां स्तम्भान् हेममयान् गृहे । रत्नोत्पलचितां भूमिं पद्मरागसमप्रभाम् । पारिजातप्रसूनाढ्यां सेवितां यक्षकिन्नरैः ।। ६९.
एवमुक्तस्तदा तेन तापसेन नराधिप । विस्मयापन्नहृदयस्तमेवाहं तु पृष्टवान् ।। ६९.
भगवंस्तव लोकोऽयं सर्वलोकवरोत्तमः । सर्वलोका मया दृष्टा ब्रह्मशक्रादिसंस्थिताः ।। ६९.
अयं त्वपूर्वो लोको मे प्रतिभाति तपोधन । संपदैश्वर्यतेजोभिर्हर्म्यरत्नचयैस्तथा ।। ६९.
सरोभिः सूदकैः पुण्यैर्जलजैश्च विशेषतः । अत्यद्भुतमिदं लोकं दृष्टवानस्मि ते मुने ।। ६९.
इत्थंभूतं कथं लोको भवांश्चेत्थं व्यवस्थितः । कथयस्वैतस्य हेतुं मे कश्च त्वं मुनिपुंगव ।। ६९.
कथमिलावृते वर्षे सरस्तीरे महामुने । दृष्टवानस्मि सोऽहं त्वं सरस्तत् सा कुटी मुने । हेमहर्म्याकुले लोके किं वा स्थानं तु ते कुटिः ।। ६९.
एवमुक्तः स भगवात् मयाऽसौ मुनिपुंगवः । प्राह मह्यं यथावृत्तं यत् तु राजेन्द्र तच्छृणु ।। ६९.
तापस उवाच । अहं नारायणो देवो जलरूपी सनातनः । येन व्याप्तमिदं विश्वं त्रैलोक्यं सचराचरम् ।। ६९.
या सा त्वाप्याकृतिस्तस्य देवस्य परमेष्ठिनः । सोऽहं वरुण इत्युक्तः स्वयं नारायणः परः ।। ६९.