सर्वाशिनो भविष्यन्ति ब्राह्मणाः शौचवर्जिताः । सुरा पेयमिति प्राहुः सत्यशौचविवर्जिताः ।। ६८.
ततो विनश्यते लोको वर्णधर्मश्च नश्यते ।। ६८.
भद्राश्व उवाच । अगम्यागमनं कृत्वा ब्राह्मणः क्षत्रियोऽपि वा । शूद्रोऽपि शुद्ध्यते केन किं वाऽगम्यं तु शंस मे ।। ६८.
अगस्त्य उवाच । चातुर्गामी भवेद् विप्रस् त्रिगामी क्षत्रियो भवेत् । द्विगामी तु भवेद् वैश्यः शूद्र एकगमः स्मृतः ।। ६८.
अगम्यां ब्राह्मणीं प्राहुः क्षत्रियस्य नरेश्वर । क्षत्राणीं चैव वैश्यस्य वैश्यां शूद्रस्य पार्थिव । अधमस्योत्तमा नारी अगम्या मनुरब्रवीत् ।। ६८.
माता मातृष्वसा श्वश्रूर्भातृपत्नी च पार्थिव । स्नुषा च दुहिता चैव मित्रपत्नी स्वगोत्रजा ।। ६८.
राजजायाऽऽत्मजा चैव अगम्या मुख्यतः स्त्रियः । रजकादिषु चान्याश्च स्त्रियोऽगम्याः प्रकीर्तिताः । अगम्यागमनं चैतत् कृतं पापाय जायते ।। ६८.
वियोनिगमनायाशु ब्राह्मणाय भवत्यलम् । शेषस्य शुद्धिरेषैव प्राणायामशतं भवेत् ।। ६८.
बहुनाऽपि हि कालेन यत् पापं समुपार्जितम् । वर्णसंकरसंगत्या ब्राह्मणेन नरर्षभ ।। ६८.
दशप्रणवगायत्रीं प्राणायामशतैस्त्रिभिः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ।। ६८.
अथवा पररूपं यो वेद ब्राह्मणपुंगवः । वेदाध्यायी पापशतैः कृतैरपि न लिप्यते ।। ६८.
स्मरन् विष्णुं पठन् वेदं ददद् दानं यजन् हरिम् । ब्राह्मणः शुद्ध एवास्ते विरुद्धमपि तारयेत् ।। ६८.
एतत् ते सर्वमाख्यातं यत् पृष्टोऽहं त्वया नृप । मन्वादिर्भिर्विस्तरशः कथ्यते येन पार्थिव । समासतस्तेन मया कथितं ते नृपोत्तम ।। ६८.
भद्राश्व उवाच । भगवन् त्वच्छरीरे तु यद् वृत्तं द्विजसत्तम । चिरजीवी भवांस्तन्मे वक्तुमर्हसि सत्तम ।। ६९.
अगस्त्य उवाच । मच्छरीरमिदं राजन् बहुकौतूहलान्वितम् । अनेककल्पसंस्थायि वेदविद्याविशोधितम् ।। ६९.
अटन् महीमहं सर्वां गतवानस्मि पार्थिव । इलावृतं महावर्षं मेरोः पार्श्वे व्यवस्थितम् ।। ६९.
तत्र रम्यं सरो दृष्टं तस्य तीरे महाकुटी । तत्रोपवासशिथिलं दृष्टवानस्मि तापसम् । अस्थिचर्मावशेषं तु चीरवल्कलधारिणम् ।। ६९.
तं दृष्टृवाऽहं नृपश्रेष्ठ क एष नृपसत्तम । विश्वास्य प्रतिपत्त्यर्थं विधेयं मे नरोत्तम ।। ६९.
एवं चित्तयतो मह्यं स मां प्राह महामुनिः । स्थीयतां स्थीयतां ब्रह्मन्नातिथ्यं करवाणि ते ।। ६९.
एतच्छ्रुत्वा वचस्तस्य प्रविष्टोऽहं कुटीं तु ताम् । तावत् पश्याम्यहं विप्रं ज्वलन्तमिव तेजसा ।। ६९.
भूमौ स्थितं तु मां दृष्ट्वा हुङ्कारमकरोद् द्विजः । तद्धुङ्कारात् तु पातालं भित्त्वा पञ्च हि कन्यकाः ।। ६९.
निर्ययुः काञ्चनं पीठमेका तासां प्रगृह्य वै । सा मां प्रादात् तदाऽन्याऽदात् सलिलं करसंस्थितम् ।। ६९.
गृहीत्वाऽन्या तु मे पादौ क्षालितुं चोपचक्रमे । अन्ये द्वे व्यजने गृह्य मत्पक्षाभ्यां व्यवस्थिते ।। ६९.
ततो हुङ्कारमकरोत् पुनरेव महातपाः । तच्छब्दादन्तरं हैमद्रोणीं योजनविस्तृताम् । गृह्याजगाम मकरोत्प्लवं सरसि पार्थिव ।। ६९.
तस्यां तु कन्याः शतशो हेमकुम्भकराः शुभाः । आययुस्तमथो दृष्ट्वा स मुनिः प्राह मां नृप ।। ६९.
स्नानार्थं कल्पितं ब्रह्मन्निदं ते सर्वमेव तु । द्रोणीं प्रविश्य चेमां त्वं स्नातुमर्हसि सत्तम ।। ६९.
ततोऽहं तस्य वचनात् तस्यां द्रोण्यां नराधिप । विशामि तावत् सरसि सा द्रोणी प्रत्यमज्जत ।। ६९.
द्रोण्यां जले निमग्नोऽहम् इति मत्वा नरेश्वर । उन्मग्नोऽहं ततो लोकमपूर्वं दृष्टवांस्ततः ।। ६९.
सुहर्म्यकक्ष्यायतनं विशालं रथ्यापथं शुद्धजनानुकीर्णम् । नीत्युत्तमैः सेवितमात्मविद्भि - र्नृभिः पुराणैर्नयमार्गसंस्थैः ।। ६९.
संसारचर्यापरिघाभिरुग्रं गम्भीरपातालतलस्थमाद्यम् । सितैर्नृभिः पाशवराग्रहस्तैः द्विपाश्वसंघैर्विविधैरुपेतम् ।। ६९.