कृतं त्रेता द्वापरं च युगानि त्रीणि नारद । सत्त्वस्थां मां समेष्यन्ति कलौ रजस्तमोऽधिकाः ।। ६६.
अन्यच्च ते वरं दद्मि श्रृणु नारद साम्प्रतम् । यदिदं पञ्चरात्रं मे शास्त्रं परमदुर्लभम् । तद्भवान् वेत्स्यते सर्वं मत्प्रसादान्न संशयः ।। ६६.
वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज । प्राप्योऽहं नान्यथा वत्स वर्षकोट्यायुतैरपि ।। ६६.
एवमुक्त्वा स भगवान् नारदं परमेश्वरः । जगामादर्शनं सद्यो नारदोऽपि ययौ दिवम् ।। ६६.
भद्राश्व उवाच । भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् । स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ।। ६७.
कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् । कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ।। ६७.
दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् । कस्मादेतज्जगदिदं विततं द्विजसत्तम ।। ६७.
अगस्त्य उवाच । सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते । सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ।। ६७.
यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर । स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ।। ६७.
योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः । संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते । ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ।। ६७.
दम्पत्यं तदहोरात्रं सूर्याचन्द्रमसौ ततः । ततो जगत् समुत्तस्थौ देवस्यास्य नृपोत्तम ।। ६७.
स विष्णुः परमो देवो विज्ञेयो नृपसत्तम । न च वेदक्रियाहीनः पश्यते परमेश्वरम् ।। ६७.
भद्राश्व उवाच । योऽसौ परापरो देवो विष्णुः सर्वगतो मुने । चतुर्युगे त्वसौ कीदृग् विज्ञेयः परमेश्वरः ।। ६८.
युगे युगे क आचारो वर्णानां भविता मुने । कथं च शुद्धिर्विप्राणामन्यस्त्रीसंकरैर्मुने ।। ६८.
अगस्त्य उवाच । कृते युगे मही देवैर्भुज्यते वेदकर्मणा । यजद्भिरसुरैस्त्रेतां तद्वद् देवैश्च सत्तम ।। ६८.
द्वापरे सत्त्वरजसी बहुले नृपसत्तम । यावद् धर्मसुतो राजा भविष्यति महामते ।। ६८.
ततस्तमः प्रभविता कलिरूपो नरेश्वर । तस्मिन् कलौ वर्त्तमाने स्वमार्गाच्च्यवते द्विजः ।। ६८.
राजानो वैश्यशूद्राश्च प्रायशो हीनजातयः । भविष्यन्ति नृपश्रेष्ठ सत्यशौचविवर्जिताः ।। ६८.
अगम्यागमनं तत्र करिष्यन्ति द्विजातयः । अनृतं च वदिष्यन्ति वेदमार्गबहिष्कृताः । विवाहांश्च करिष्यन्ति सगोत्रानसमांस्तथा ।। ६८.
राजानो ब्राह्मणान् हिंस्युर्वित्तलोभान्विताः शठाः । अन्त्यजा अपि वैश्यत्वं करिष्यन्ति पणे रताः । अभिमानिनो भविष्यन्ति शूद्रजातिषु गर्विताः ।। ६८.
सर्वाशिनो भविष्यन्ति ब्राह्मणाः शौचवर्जिताः । सुरा पेयमिति प्राहुः सत्यशौचविवर्जिताः ।। ६८.
ततो विनश्यते लोको वर्णधर्मश्च नश्यते ।। ६८.
भद्राश्व उवाच । अगम्यागमनं कृत्वा ब्राह्मणः क्षत्रियोऽपि वा । शूद्रोऽपि शुद्ध्यते केन किं वाऽगम्यं तु शंस मे ।। ६८.
अगस्त्य उवाच । चातुर्गामी भवेद् विप्रस् त्रिगामी क्षत्रियो भवेत् । द्विगामी तु भवेद् वैश्यः शूद्र एकगमः स्मृतः ।। ६८.
अगम्यां ब्राह्मणीं प्राहुः क्षत्रियस्य नरेश्वर । क्षत्राणीं चैव वैश्यस्य वैश्यां शूद्रस्य पार्थिव । अधमस्योत्तमा नारी अगम्या मनुरब्रवीत् ।। ६८.
माता मातृष्वसा श्वश्रूर्भातृपत्नी च पार्थिव । स्नुषा च दुहिता चैव मित्रपत्नी स्वगोत्रजा ।। ६८.
राजजायाऽऽत्मजा चैव अगम्या मुख्यतः स्त्रियः । रजकादिषु चान्याश्च स्त्रियोऽगम्याः प्रकीर्तिताः । अगम्यागमनं चैतत् कृतं पापाय जायते ।। ६८.
वियोनिगमनायाशु ब्राह्मणाय भवत्यलम् । शेषस्य शुद्धिरेषैव प्राणायामशतं भवेत् ।। ६८.
बहुनाऽपि हि कालेन यत् पापं समुपार्जितम् । वर्णसंकरसंगत्या ब्राह्मणेन नरर्षभ ।। ६८.
दशप्रणवगायत्रीं प्राणायामशतैस्त्रिभिः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ।। ६८.