शुक्लपक्षे फाल्गुनस्य तथारभ्य विचक्षणः । रौद्रं व्रतं चतुर्दश्यां कृष्णपक्षे विशेषतः । माघमासादथारभ्य पूर्णं संवत्सरं नृप ।। ६५.
इन्दुव्रतं पञ्चदश्यां शुक्लायां नक्तभोजनम् । पितृव्रतममावास्यामिति राजन तथेरितम् ।। ६५.
दश पञ्च च वर्षाणि य एवं कुरुते नृप । तिथिव्रतानि कस्तस्य फलं व्रतप्रमाणतः ।। ६५.
अश्वमेधसहस्त्राणि राजसूयशतानि च । यष्टानि तेन राजेन्द्र कल्पोक्ताः क्रतवस्तथा ।। ६५.
एकमेव कृतं हन्ति व्रतं पापानि नित्यशः । यः पुनः सर्वमेतद्धि कुर्यान्नरवरात्मज । स शुद्धो विरजो लोकानाप्नोति सकलं नृप ।। ६५.
भद्राश्व उवाच । आश्चर्यं यदि ते किंचिद् विदितं दृष्टमेव वा । तन्मे कथय धर्मज्ञ मम कौतूहलंमहत् ।। ६६.
अगस्त्य उवाच । आश्चर्यभूतो भगवानेष एव जनार्दनः । तस्याश्चर्याणि दृष्टानि बहूनि विविधानि वै ।। ६६.
श्वेतद्वीपं गतः पूर्वं नारदः किल पार्थिव । सोऽपश्यच्छङ्खचक्राब्जान् पुरुषांस्तिग्मतेजसः ।। ६६.
अयं विष्णुरयं विष्णुरेष विष्णुः सनातनः । चिन्ताऽभूत्तस्यतान्दृष्ट्वा कोऽस्मिन्विष्णुरिति प्रभुः ।। ६६.
एवं चिन्तयतस्तस्य चिन्ता कृष्णं प्रति प्रभो । आराधयामि च कथं शङ्खचक्रगदाधरम् ।। ६६.
येन वेद्मि परं तेषां देवो नारायणः प्रभुः । एवं संचिन्त्य दध्यौ स तं देवं परमेश्वरम् ।। ६६.
दिव्यं वर्षसहस्त्रं तु साग्रं ब्रह्मसुतस्तदा । ध्यायतस्तस्य देवोऽसौ परितोषं जगाम ह ।। ६६.
उवाच च प्रसन्नात्मा प्रत्यक्षत्वं गतः प्रभुः । वरं ब्रह्मसुत ब्रूहि किं ते दद्मि महामुने ।। ६६.
नारद उवाच । सहस्त्रमेकं वर्षाणां ध्यातस्त्वं भुवनेश्वर । त्वत्प्राप्तिर्येन तद् ब्रूहि यदि तुष्टोऽसि मेऽच्युत ।। ६६.
देवदेव उवाच । पौरुषं सूक्तमास्थाय ये यजन्ति द्विजास्तु माम् । संहितामाद्यमास्थाय ते मां प्राप्स्यन्ति नारद ।। ६६.
अलाभे वेदशास्त्राणां पञ्चरात्रोदितेन ह । मार्गेण मां प्रपश्यन्ते ते मां प्राप्स्यन्ति मानवाः ।। ६६.
ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते । शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ।। ६६.
एवं मयोक्तं विप्रेन्द्र पुराकल्पे पुरातनम् । पञ्चरात्रं सहस्त्राणां यदि कश्चिद् ग्रहीष्यति ।। ६६.
कर्मक्षये च मां कश्चिद् यदि भक्तो भविष्यति । तस्य चेदं पञ्चरात्रं नित्यं हृदि वसिष्यति ।। ६६.
इतरे राजसैर्भावैस्तामसैश्च समावृताः । भविष्यन्ति द्विजश्रेष्ठ मच्छासनपराङ्मुखाः ।। ६६.
कृतं त्रेता द्वापरं च युगानि त्रीणि नारद । सत्त्वस्थां मां समेष्यन्ति कलौ रजस्तमोऽधिकाः ।। ६६.
अन्यच्च ते वरं दद्मि श्रृणु नारद साम्प्रतम् । यदिदं पञ्चरात्रं मे शास्त्रं परमदुर्लभम् । तद्भवान् वेत्स्यते सर्वं मत्प्रसादान्न संशयः ।। ६६.
वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज । प्राप्योऽहं नान्यथा वत्स वर्षकोट्यायुतैरपि ।। ६६.
एवमुक्त्वा स भगवान् नारदं परमेश्वरः । जगामादर्शनं सद्यो नारदोऽपि ययौ दिवम् ।। ६६.
भद्राश्व उवाच । भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् । स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ।। ६७.
कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् । कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ।। ६७.
दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् । कस्मादेतज्जगदिदं विततं द्विजसत्तम ।। ६७.
अगस्त्य उवाच । सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते । सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ।। ६७.
यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर । स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ।। ६७.
योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः । संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते । ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ।। ६७.