तं दृष्ट्वा तत्त्वतो भावः परमात्मैष शाश्वतः । धारयामि शिरस्येनं लोकमध्ये विभूषणम् ।। ६२.
एवं ते जल्पता पापमिदं देवेन दर्शितम् । इदानीमिममेव त्वमाराधय महामते ।। ६२.
अगस्त्य उवाच । एवमुक्त्वा वसिष्ठस्तु इममेव व्रतं तदा । आदित्याराधनं दिव्यमारोग्याख्यं जगाद ह ।। ६२.
सोऽपि राजाऽकरोच्चेमं व्रतं भक्तिसमन्वितः । सिद्धिं च परमां प्राप्तो विरोगश्चाभवत् क्षणात् ।। ६२.
अगस्त्य उवाच । अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् । कथयामि समासेन तन्मे निगदतः श्रृणु ।। ६३.
मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर । अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ।। ६३.
षष्ठ्यां चैव तु संकल्प्य सप्तम्यामर्चयेद् हरिम् । देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ।। ६३.
प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् । प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ।। ६३.
ततो यवैः कृष्णतिलैः सघृतैर्होमयेद् दधि । ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या सदक्षिणान् ।। ६३.
ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् । पश्चाद् यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ।। ६३.
प्रतिमासमनेनैव विधिनोपोष्य मानवः । कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ।। ६३.
श्रूयते च पुरा राजा शूरसेनः प्रतापवान् । स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ।। ६३.
तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह । सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ।। ६३.
वसुदेवं महाभागमनेकक्रतुयाजिनम् । तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ।। ६३.
एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता । संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ।। ६३.
एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् । एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ।। ६३.
अगस्त्य उवाच । अथापरं प्रवक्ष्यामि शौर्यव्रतमनुत्तमम् । येन भीरोरपि महच्छौर्यं भवति तत्क्षणात् ।। ६४.
मासि चाश्वयुजे शुद्धां नवमीं समुपोषयेत् । सप्तम्यां कृतसंकल्पः स्थित्वाऽष्टम्यां निरोदनः ।। ६४.
नवम्यां पारयेत् पिष्टं प्रथमं भक्तितो नृप । ब्राह्मणान् भोजयेद् भक्त्या देवीं चैव तु पूजयेत् । दुर्गां देवीं महाभागां महामायां महाप्रभाम् ।। ६४.
एवं संवत्सरं यावदुपोष्येति विधानतः । व्रतान्ते भोजयेद् धीमान् यथाशक्त्या कुमारिकाः ।। ६४.
हेमवस्त्रादिभिस्तास्तु भूषयित्वा तु शक्तितः । पश्चात् क्षमापयेत् तास्तु देवी मे प्रीयतामिति ।। ६४.
एवं कृते भ्रष्टराज्यो लभेद् राज्यं न संशयः । अविद्यो लभते विद्यां भीतः शौर्यं च विदन्ति ।। ६४.
अगस्त्य उवाच । सार्वभौमव्रतं चान्यत् कथयामि समासतः । येन सम्यक्कृतेनाशु सार्वभौमो नृपो भवेत् ।। ६५.
कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका । तस्यां नक्ताशनो नित्यं दिक्षु शुद्धबलिं हरेत् ।। ६५.
विचित्रैः कुसुमैर्भक्त्या पूजयित्वा द्विजोत्तमान् । दिशां तु प्रार्थनां कुर्यान् मन्त्रेणानेन सुव्रतः । सर्वा भवन्त्यः सिद्ध्यन्तु मम जन्मनि जन्मनि ।। ६५.
एवमुक्त्वा बलिं तासु दत्त्वा शुद्धेन चेतसा । ततो रात्रौ तु भुञ्जीत दध्यन्नं तु सुसंस्कृतम् ।। ६५.
पूर्वं पश्चाद् यथेष्टं तु एवं संवत्सरं नृप । यः करोति नरो नित्यं तस्य दिग्विजयो भवेत् ।। ६५.
एकादश्यां तु यत्नेन नरः कुर्याद् यथाविधि । मार्गशीर्षे शुक्लपक्षादारभ्याब्दं विचक्षणः । तद् व्रत धनदस्येष्टं कृतं वित्तं प्रयच्छति ।। ६५.
एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने । शुक्ले वाऽप्यथवा कृष्णे तद् व्रतं वैष्णवं महत् ।। ६५.
एवं चीर्ण सुघोराणि हन्ति पापानि रपार्थिव । त्रयोदश्यां तु नक्तेन धर्मव्रतमथोच्यते ।। ६५.