एतद् व्रतं पुरा चीर्णं नलेन नृपसत्तम । ऋतुपर्णस्य विषये वसता व्रतचर्यया ।। ६१.
तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः । पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ।। ६१.
अगस्त्य उवाच । अथापरं महाराज व्रतमारोग्यसंज्ञितम् । कथयामि परं पुण्यं सर्वपापप्रणाशनम् ।। ६२.
तस्यैव माघमासस्य सप्तम्यां समुपोषितः । पूजयेद् भास्करं देवं विष्णुरूपं सनातनम् ।। ६२.
आदित्य भास्कर रवे भानो सूर्य दिवाकर । प्रभाकरेति संपूज्य एवं संपूज्यते रविः ।। ६२.
षष्ठ्यां चैव कृताहारः सप्तम्यां भानुमर्चयेत् । अष्टम्यां चैव भुञ्जीत एष एव विधिक्रमः ।। ६२.
अनेन वत्सरं पूर्णं विधिना योऽर्चयेद् रविम् । तस्यारोग्यं धनं धान्यमिह जन्ममि जायते । परत्र च शुभं स्थानं यद् गत्वा न निवर्तते ।। ६२.
सार्वभौमः पुरा राजा अनरण्यो महाबलः । तेनायमर्चितो देवो व्रतेनानेन पार्थिव । तस्य तुष्टो वरं देवः प्रादादारोग्यमुत्तमम् ।। ६२.
भद्राश्व उवाच । किमसौ रोगवान् राजा येनारोग्यमवाप्तवान् । सार्वभौमस्य च कथं ब्रह्मन् रोगस्य संभवः ।। ६२.
अगस्त्य उवाच । स राजा सार्वभौमोऽभूद् यशस्वी च सुरूपवान् । स कदाचिन्नृपश्रेष्ठो नृपश्रेष्ठ महाबलः ।।६२.
गतवान् मानसं दिव्यं सरो देवगणान्वितम् । तत्रापश्यद् बृहद् पद्मं सरोमध्यगतं सितम् ।। ६२.
तत्र चाङ्गुष्ठमात्रं तु स्थितं पुरुषसत्तमम् । रक्तवासोभिराछन्नं द्विभुजं तिग्मतेजसम् ।। ६२.
तं दृष्ट्वा सारथिं प्राह पद्ममेतत् समानय । इदं तु शिरसा बिभ्रत् सर्वलोकस्य सन्निधौ । श्लाघनीयो भविष्यामि तस्मादाहर माचिरम् ।। ६२.
एवमुक्तस्तदा तेन सारथिः प्रविवेश ह । ग्रहीतुमुपचक्राम तं पद्मं नृपसत्तम ।। ६२.
स्पृष्टमात्रे ततः पद्मे हुङ्कारः समजायत । तेन शब्देन स त्रस्तः पपात च ममार च ।। ६२.
राजा च तत्क्षणात् तेन शब्देन समपद्यत । कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ।। ६२.
तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः । तस्थौ तत्रैव शोकार्त्तः किमेतदिति चिन्तयन् ।। ६२.
तस्य चिन्तयतो धीमानाजगाम महातपाः । वसिष्ठो ब्रह्मपुत्रोऽथ तं स पप्रच्छ पार्थिवम् ।। ६२.
कथं ते राजशार्दूल तव देहस्य शासनम् । इदानीमेव किं कार्यं तन्ममाचक्ष्व पृच्छतः ।। ६२.
एवमुक्तस्ततो राजा वसिष्ठेन महात्मना । सर्वं पद्मस्य वृत्तान्तं कथयामास स प्रभुः ।। ६२.
तं श्रुत्वा स मुनिस्तत्र साधु राजन्नथाब्रवीत् । असाधुरथ वा तिष्ठ तस्मात् कुष्ठित्वमागतः ।। ६२.
एवमुक्तस्तदा राजा वेपमानः कृताञ्जलिः । पप्रच्छ साध्वहं विप्र कथं वाऽसाध्वहं मुने । कथं च कुष्ठं मे जातमेतन्मे वक्तुमर्हसि ।। ६२.
वसिष्ठ उवाच । एतद् ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् । दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः । एतस्मिन् दृश्यते चैतत् षण्मासं क्वापि पार्थिव ।। ६२.
एतस्मिन् दृष्टमात्रे तु यो जलं विशते नरः । सर्वपापविनिर्मुक्तः परं निर्वाणमर्हति ।। ६२.
ब्रह्मणः प्रागवस्थाया मूर्तिरप्सु व्यवस्थिता । एतां दृष्ट्वा जले मग्नः संसाराद् विप्रमुच्यते ।। ६२.
इमं च दृष्ट्वा ते सूतो जले मग्नो नरोत्तम । प्रविष्टश्च पुनरिमं हर्तुमिच्छन्नराधिप । प्राप्तवानसि दुर्बुद्धे कुष्ठित्वं पापपूरुष ।। ६२.
दृष्टमेतत् त्वया यस्मात् त्वं साध्विति ततः प्रभो । मयोक्तो मोहमापन्नस्तेनासाधुरितीरितः ।। ६२.
ब्रह्मपुत्रो ह्यहं चेमं पश्यामि परमेश्वरम् । अहन्यहनि चागच्छंस्तं पुनर्दृष्टवानसि ।। ६२.
देवा अपि वदन्त्येते पद्मं काञ्चनमुत्तमम् । मानसे ब्रह्मपद्मं तु दृष्ट्वा चात्र गतं हरिम् । प्राप्स्यामस्तत् परं ब्रह्म यद् गत्वा न पुनर्भवेत् ।। ६२.
इदं च कारणं चान्यत् कुष्ठस्य श्रृणु पार्थिव । आदित्यः पद्मगर्भेऽस्मिन् स्वयमेव व्यवस्थितः ।। ६२.