अगस्त्य उवाच । कामव्रतं महाराज श्रृणु मे गदतोऽधुना । येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ।। ६१.
षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् । पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ।। ६१.
षष्ठ्यां तु पारयेद् धीमान् प्रथमं तु फलं नृप । ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ।। ६१.
ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः । तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ।। ६१.
अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् । पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ।। ६१.
षड्वक्त्र कार्त्तिक गुह सेनानी कृत्तिकासुत । कुमार स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ।। ६१.
समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् । षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ।। ६१.
सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक । त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र माचिरम् ।। ६१.
अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् । ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ।। ६१.
अपुत्रो लभते पुत्रमधनो लभते धनम् । भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ।। ६१.
एतद् व्रतं पुरा चीर्णं नलेन नृपसत्तम । ऋतुपर्णस्य विषये वसता व्रतचर्यया ।। ६१.
तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः । पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ।। ६१.
अगस्त्य उवाच । अथापरं महाराज व्रतमारोग्यसंज्ञितम् । कथयामि परं पुण्यं सर्वपापप्रणाशनम् ।। ६२.
तस्यैव माघमासस्य सप्तम्यां समुपोषितः । पूजयेद् भास्करं देवं विष्णुरूपं सनातनम् ।। ६२.
आदित्य भास्कर रवे भानो सूर्य दिवाकर । प्रभाकरेति संपूज्य एवं संपूज्यते रविः ।। ६२.
षष्ठ्यां चैव कृताहारः सप्तम्यां भानुमर्चयेत् । अष्टम्यां चैव भुञ्जीत एष एव विधिक्रमः ।। ६२.
अनेन वत्सरं पूर्णं विधिना योऽर्चयेद् रविम् । तस्यारोग्यं धनं धान्यमिह जन्ममि जायते । परत्र च शुभं स्थानं यद् गत्वा न निवर्तते ।। ६२.
सार्वभौमः पुरा राजा अनरण्यो महाबलः । तेनायमर्चितो देवो व्रतेनानेन पार्थिव । तस्य तुष्टो वरं देवः प्रादादारोग्यमुत्तमम् ।। ६२.
भद्राश्व उवाच । किमसौ रोगवान् राजा येनारोग्यमवाप्तवान् । सार्वभौमस्य च कथं ब्रह्मन् रोगस्य संभवः ।। ६२.
अगस्त्य उवाच । स राजा सार्वभौमोऽभूद् यशस्वी च सुरूपवान् । स कदाचिन्नृपश्रेष्ठो नृपश्रेष्ठ महाबलः ।।६२.
गतवान् मानसं दिव्यं सरो देवगणान्वितम् । तत्रापश्यद् बृहद् पद्मं सरोमध्यगतं सितम् ।। ६२.
तत्र चाङ्गुष्ठमात्रं तु स्थितं पुरुषसत्तमम् । रक्तवासोभिराछन्नं द्विभुजं तिग्मतेजसम् ।। ६२.
तं दृष्ट्वा सारथिं प्राह पद्ममेतत् समानय । इदं तु शिरसा बिभ्रत् सर्वलोकस्य सन्निधौ । श्लाघनीयो भविष्यामि तस्मादाहर माचिरम् ।। ६२.
एवमुक्तस्तदा तेन सारथिः प्रविवेश ह । ग्रहीतुमुपचक्राम तं पद्मं नृपसत्तम ।। ६२.
स्पृष्टमात्रे ततः पद्मे हुङ्कारः समजायत । तेन शब्देन स त्रस्तः पपात च ममार च ।। ६२.
राजा च तत्क्षणात् तेन शब्देन समपद्यत । कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ।। ६२.
तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः । तस्थौ तत्रैव शोकार्त्तः किमेतदिति चिन्तयन् ।। ६२.
तस्य चिन्तयतो धीमानाजगाम महातपाः । वसिष्ठो ब्रह्मपुत्रोऽथ तं स पप्रच्छ पार्थिवम् ।। ६२.
कथं ते राजशार्दूल तव देहस्य शासनम् । इदानीमेव किं कार्यं तन्ममाचक्ष्व पृच्छतः ।। ६२.
एवमुक्तस्ततो राजा वसिष्ठेन महात्मना । सर्वं पद्मस्य वृत्तान्तं कथयामास स प्रभुः ।। ६२.