षड्भिः पात्रैरुपेतं तु ब्राह्मणाय निवेदयेत् । एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ।। ५८.
तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् । पञ्चमं लवणैः पूर्णं षष्ठं गोक्षीरसंयुतम् ।। ५८.
एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् । सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ।। ५८.
अगस्त्य उवाच । अथाविघ्नकरं राजन् कथयामि श्रृणुष्व मे । येन सम्यक् कृतेनापि न विघ्नमुपजायते ।। ५९.
चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् । नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् । तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद् भवेत् ।। ५९.
चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा । सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ।। ५९.
पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा । एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ।। ५९.
हयमेधस्य विघ्ने तु संजाते सगरः पुरा । एतदेव चरित्वा तु हयमेधं समाप्तवान् ।। ५९.
तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा । एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् । मया समुद्रं पिबता एतदेव कृतं व्रतम् ।। ५९.
अन्यैरपि महीपालैरेतदेव कृतं पुरा । तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परंतप ।। ५९.
शूराय धीराय गजाननाय लम्बोदरायैकदंष्ट्राय चैव । एवं पूज्यस्तद्दिने तत् पुनश्च होमं कुर्याद् विघ्नविनाशहेतोः ।। ५९.
अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते । विनायकस्य कृपया कृतकृत्यो नरो भवेत् ।। ५९.
अगस्त्य उवाच । शान्तिव्रतं प्रवक्ष्यामि तव राजन् श्रृणुष्व तत् । येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ।। ६०.
पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत । आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ।। ६०.
नक्तं देवं तु संपूज्य हरिं शेषोपरि स्थितम् । अनन्तायेति पादौ तु वासुकायेति वै कटिम् ।। ६०.
तक्षकायेति जठरमुरः कर्कोटकाय च । पद्माय कण्ठं संपूज्य महापद्माय दोर्युगम् ।। ६०.
शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः । एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ।। ६०.
क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः । तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ।। ६०.
एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् । नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत् ।। ६०.
एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः । तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ।। ६०.
अगस्त्य उवाच । कामव्रतं महाराज श्रृणु मे गदतोऽधुना । येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ।। ६१.
षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् । पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ।। ६१.
षष्ठ्यां तु पारयेद् धीमान् प्रथमं तु फलं नृप । ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ।। ६१.
ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः । तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ।। ६१.
अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् । पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ।। ६१.
षड्वक्त्र कार्त्तिक गुह सेनानी कृत्तिकासुत । कुमार स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ।। ६१.
समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् । षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ।। ६१.
सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक । त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र माचिरम् ।। ६१.
अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् । ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ।। ६१.
अपुत्रो लभते पुत्रमधनो लभते धनम् । भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ।। ६१.