रुद्रो जनानां मर्त्यानां काव्यं शास्त्रं न तद्भवेत् । विष्णुं रुद्रकृतं ब्रूयात् श्रीर्गौरी न तु पार्थिव । तन्नास्तिकानां मर्त्यानां काव्यं ज्ञेयं विचक्षणैः ।। ५८.
एवं ज्ञात्वा सलक्ष्मीकं हरिं संपूज्य भक्तितः । मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ।। ५८.
गम्भीरायेति पादौ तु सुभगायेति वै कटिम् । उदरं देवदेवेति त्रिनेत्रायेति वै मुखम् । वाचस्पतये च शिरो रुद्रायेति च सर्वतः ।। ५८.
एवमभ्यर्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् । हरं वा गौरिसंयुक्तं गन्धपुष्पादिभिः क्रमात् ।। ५८.
ततस्तस्याग्रतो होमं कारयेन्मधुसर्पिषा । तिलैः सह महाराज सौभाग्यपतयेति च ।। ५८.
ततस्त्वक्षारविरसं निस्नेहं धरणीतले । गोधूमान्नं तु भुञ्जीत कृष्णेप्येवं विधिः स्मृतः । आषाढादिद्वितीयां तु पारणं तत्र भोजनम् ।। ५८.
यवान्नं तु ततः पश्चात् कार्त्तिकादिषु पार्थिव । श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः शुचिः ।। ५८.
ततो माघसिते पक्षे तृतीयायां नराधिप । सौवर्णां कारयेद् गौरीं रुद्रं चैकत्र बुद्धिमान् ।। ५८.
सलक्ष्मीकं हरिं चापि यथाशक्त्या प्रसन्नधीः । ततस्तं ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ।। ५८.
अन्नेन हीने वेदानां पारगे साधुवर्तिनि । सदाचारेति वा दद्यादल्पवित्ते विशेषतः ।। ५८.
षड्भिः पात्रैरुपेतं तु ब्राह्मणाय निवेदयेत् । एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ।। ५८.
तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् । पञ्चमं लवणैः पूर्णं षष्ठं गोक्षीरसंयुतम् ।। ५८.
एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् । सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ।। ५८.
अगस्त्य उवाच । अथाविघ्नकरं राजन् कथयामि श्रृणुष्व मे । येन सम्यक् कृतेनापि न विघ्नमुपजायते ।। ५९.
चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् । नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् । तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद् भवेत् ।। ५९.
चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा । सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ।। ५९.
पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा । एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ।। ५९.
हयमेधस्य विघ्ने तु संजाते सगरः पुरा । एतदेव चरित्वा तु हयमेधं समाप्तवान् ।। ५९.
तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा । एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् । मया समुद्रं पिबता एतदेव कृतं व्रतम् ।। ५९.
अन्यैरपि महीपालैरेतदेव कृतं पुरा । तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परंतप ।। ५९.
शूराय धीराय गजाननाय लम्बोदरायैकदंष्ट्राय चैव । एवं पूज्यस्तद्दिने तत् पुनश्च होमं कुर्याद् विघ्नविनाशहेतोः ।। ५९.
अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते । विनायकस्य कृपया कृतकृत्यो नरो भवेत् ।। ५९.
अगस्त्य उवाच । शान्तिव्रतं प्रवक्ष्यामि तव राजन् श्रृणुष्व तत् । येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ।। ६०.
पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत । आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ।। ६०.
नक्तं देवं तु संपूज्य हरिं शेषोपरि स्थितम् । अनन्तायेति पादौ तु वासुकायेति वै कटिम् ।। ६०.
तक्षकायेति जठरमुरः कर्कोटकाय च । पद्माय कण्ठं संपूज्य महापद्माय दोर्युगम् ।। ६०.
शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः । एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ।। ६०.
क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः । तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ।। ६०.
एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् । नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत् ।। ६०.
एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः । तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ।। ६०.