चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः । श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ।। ५६.
समाप्ते तु व्रते वह्निं काञ्चनं कारयेद् बुधः । रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ।। ५६.
कुङ्कुमेन तथा लिप्य ब्राह्मणं देवदेव च । सर्वावयवसंपूर्णं ब्राह्मणं प्रियदर्शनम् ।। ५६.
पूजयित्वा विधानेन रक्तवस्त्रयुगेन च । पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ।। ५६.
धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् । धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ।। ५६.
एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः । सद्यो धन्यत्वमाप्नोति योऽपि स्याद् भाग्यवर्जितः ।। ५६.
इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् । अनेन कृतमात्रेण जायते नात्र संशयः ।। ५६.
प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह । दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ।। ५६.
योऽपीदं श्रृणुयान्नित्यं यश्च भक्त्या पठेद् द्विजः । उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ।। ५६.
श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना । धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ।। ५६.
अगस्त्य उवाच । अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् । यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ।। ५७.
यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः । एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ।। ५७.
द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने । नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ।। ५७.
बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् । एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ।। ५७.
परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् । तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः ।। ५७.
नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च । यज्ञलोकाधिपतये सोमाय परमात्मने ।। ५७.
अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः । रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ।। ५७.
फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः । शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ।। ५७.
आषाढादिचतुष्के तु तिलहोमं तु कारयेत् । तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ।। ५७.
ततः संवत्सरे पूर्णे शशिनं कृतराजतम् । सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् । एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ।। ५७.
कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः । त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते ।। ५७.
अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः । दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः ।। ५७.
आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप । तस्य व्रतान्ते संतुष्टः स्वयमेव जनार्दनः । यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ ।। ५७.
तां कलां सोमराजाऽसौ तपसा लब्धवानिति । सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ ।। ५७.
द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप । तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः ।। ५७.
न विष्णोर्व्यतिरिक्तं स्याद् दैवतं नृपसत्तम । नामभेदेन सर्वत्र संस्थितः परमेश्वरः ।। ५७.
अगस्त्य उवाच । अतः परं महाराज सौभाग्यकरणं व्रतम् । श्रृणु येनाशु सौभाग्यं स्त्रीपुंसामुपजायते ।। ५८.
फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षतः । उपासितव्या नक्तेन शुचिना सत्यवादिना ।। ५८.
सश्रीकं च हरिं पूज्य रुद्रं वा चोमया सह । या श्रीः सा गिरिजा प्रोक्ता यो हरिः स त्रिलोचनः ।। ५८.
एवं सर्वेषु शास्त्रेषु पुराणेषु च पठ्यते । एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ।। ५८.