एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः । पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ।। ५५.
तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज । येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ।। ५५.
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः । पठेद् यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ।। ५५.
शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर । स सर्वसम्पदं चेह भुक्त्वेते तल्लयं व्रजेत् ।। ५५.
अगस्त्य उवाच । अतः परं प्रवक्ष्यामि धन्यव्रतमनुत्तमम् । येन सद्यो भवेद् धन्य अधन्योऽपि हि यो भवेत् ।। ५६.
मार्गशीर्षे सिते पक्षे प्रतिपद् या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत विष्णुमग्निं प्रपूजयेत् ।। ५६.
वैश्वानराय पादौ तु अग्नयेत्युदरं तथा । हविर्भुंजाय च उरो द्रविणोदेति वै भुजो ।। ५६.
संवर्त्तायेति च शिरो ज्वलनायेति सर्वतः । अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ।। ५६.
तस्यैव पुरतः कुण्डं कारयित्वा विघानतः । होमं तत्र प्रकुर्वीत एभिर्मन्त्रैर्विचक्षणः ।। ५६.
ततः संयावकं चान्नं भुञ्जीयाद् घृतसंयुतम् । कृष्णपक्षेऽप्येवमेव चातुर्मास्यं तु यावतः ।। ५६.
चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः । श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ।। ५६.
समाप्ते तु व्रते वह्निं काञ्चनं कारयेद् बुधः । रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ।। ५६.
कुङ्कुमेन तथा लिप्य ब्राह्मणं देवदेव च । सर्वावयवसंपूर्णं ब्राह्मणं प्रियदर्शनम् ।। ५६.
पूजयित्वा विधानेन रक्तवस्त्रयुगेन च । पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ।। ५६.
धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् । धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ।। ५६.
एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः । सद्यो धन्यत्वमाप्नोति योऽपि स्याद् भाग्यवर्जितः ।। ५६.
इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् । अनेन कृतमात्रेण जायते नात्र संशयः ।। ५६.
प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह । दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ।। ५६.
योऽपीदं श्रृणुयान्नित्यं यश्च भक्त्या पठेद् द्विजः । उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ।। ५६.
श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना । धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ।। ५६.
अगस्त्य उवाच । अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् । यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ।। ५७.
यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः । एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ।। ५७.
द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने । नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ।। ५७.
बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् । एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ।। ५७.
परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् । तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः ।। ५७.
नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च । यज्ञलोकाधिपतये सोमाय परमात्मने ।। ५७.
अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः । रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ।। ५७.
फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः । शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ।। ५७.
आषाढादिचतुष्के तु तिलहोमं तु कारयेत् । तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ।। ५७.
ततः संवत्सरे पूर्णे शशिनं कृतराजतम् । सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् । एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ।। ५७.