राजोवाच । पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् । याजकं यजनासक्तं कीर्त्या युक्तं चिरायुषम् । असंख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ।। ५५.
एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् । ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर । यत्तन्मुनिपदं नाम यत्र गत्वा न शोचति ।। ५५.
एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः । तस्यापि राज्ञः पुत्रोऽभूद् वत्सप्रीर्नाम नामतः ।। ५५.
वेदवेदाङ्गसंपन्नो यज्ञयाजी बहुश्रुतः । तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ।। ५५.
राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् । जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ।। ५५.
आराधयामास हरिं निराहारो जितेन्द्रियः । हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ।। ५५.
भद्राश्व उवाच । कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः । किं च तस्याभवद् देवं स्तुवतः पुरुषोत्तमम् ।। ५५.
दुर्वासा उवाच । हिमवन्तं समाश्रित्य राजा तद्गतमानसः । स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ।। ५५.
राजोवाच । क्षराक्षरं क्षीरसमुद्रशायिनं क्षितीधरं मूर्तिमतां परं पदम् । अतीन्द्रियं विश्वभुजां पुरः कृतं निराकृतं स्तौमि जनार्दनं प्रभुम् ।। ५५.
त्वमादिदेवः परमार्थरूपी विभुः पुराणः पुरुषोत्तमश्च । अतीन्द्रियो वेदविदां प्रधानः प्रपाहि मां शङ्खगदास्त्रपाणे ।। ५५.
कृतं त्वया देव सुरासुराणां संकीर्त्यतेऽसौ च अनन्तमूर्ते । सृष्ट्यर्थमेतत् तव देव विष्णो न चेष्टितं कूटगतस्य तत्स्यात् ।। ५५.
तथैव कूर्मत्वमृगत्वमुच्चै - स्त्वया कृतं रूपमनेकरूप । सर्वज्ञभावादसकृच्च जन्म संकीर्त्त्यते तेऽच्युत नैतदस्ति ।। ५५.
नृसिंह नमो वामन जमदग्निनाम दशास्यगोत्रान्तक वासुदेव । नमोऽस्तु ते बुद्ध कल्किन् खगेश शंभो नमस्ते विबुधारिनाशन ।। ५५.
नमोऽस्तु नारायण पद्मनाभ नमो नमस्ते पुरुषोत्तमाय । नमः समस्तामरसङ्घपूज्य नमोऽस्तु ते सर्वविदां प्रधान ।। ५५.
नमः करालास्य नृसिंहमूर्त्ते नमो विशालाद्रिसमान कूर्म । नमः समुद्रप्रतिमान मत्स्य नमामि त्वां क्रोडरूपिननन्त ।। ५५.
सृष्ट्यर्थमेतत् तव देव चेष्टितं न मुख्यपक्षे तव मूर्त्तिता विभो । अजानता ध्यानमिदं प्रकाशितं नैभिर्विना लक्ष्यसे त्वं पुराण ।। ५५.
आद्यो मखस्त्वं स्वयमेव विष्णो मखाङ्गभूतोऽसि हविस्त्वमेव । पशुर्भवान् ऋत्विगिज्यं त्वमेव त्वां देवसङ्घा मुनयो यजन्ति ।। ५५.
यदेतस्मिन् जगध्रुवं चलाचलं सुरादिकालानलसंस्थमुत्तमम् । न त्वं विभक्तोऽसि जनार्दनेश प्रयच्छ सिद्धिं हृदयेप्सितां मे ।। ५५.
नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे । शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ।। ५५.
एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना । विशालाम्रतलस्थेन तुतोष परमेश्वरः ।। ५५.
कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् । तस्मिन्नागतमात्रे तु सीप्याम्रः कुब्जकोऽभवत् ।। ५५.
तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः । विशालस्य कथं कौब्ज्यमिति चिन्तापरोभवत् ।। ५५.
तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति । अनेनागतमात्रेण कृतमेतन्न संशयः ।। ५५.
तस्मादेषैव भविता भगवान् पुरुषोत्तमः । एवमुक्त्वा नमश्चक्रे तस्य विप्रस्य स नृपः ।। ५५.
अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः । आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ।। ५५.
एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः । बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ।। ५५.
वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते । मयि प्रसन्ने त्रैलोक्य तिलमात्रमिदं नृप ।। ५५.
एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः । मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किंचन ।। ५५.
एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह । मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः । यस्मात् तस्मात् तीर्थमिदं कुब्जकाम्रं भविष्यति ।। ५५.
तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणान्ता यदि स्वकम् । कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च । विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ।। ५५.