मन्मथायेति पादौ तु हरयेति च सर्वतः । पुष्पैः संपूज्य देवेशं मल्लिकाजातिभिस्तथा ।। ५४.
पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् । चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ।। ५४.
एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै । वेदवेदाङ्गयुक्ताय संपूर्णाङ्गाय धीमते ।। ५४.
ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् । एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ।। ५४.
अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः । अवमानस्य तस्यायं विपाको वो भविष्यति ।। ५४.
एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः । तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ।। ५४.
व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः । अवमानेऽपहरणं गोपालैर्वो भविष्यति । पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ।। ५४.
अगस्त्य उवाच । एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् । ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ।। ५४.
अगस्त्य उवाच । श्रृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् । येन संप्राप्यते विष्णुः शुभेनैव न संशयः ।। ५५.
मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् । एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ।। ५५.
ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च । भक्त्या संकल्पयेत् प्राग्वद् द्वादशीं पक्षतो नृप ।। ५५.
तामप्येवमुषित्वा च यवान् विप्राय दापयेत् । कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ।। ५५.
चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम । चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः । सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ।। ५५.
श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् । त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ।। ५५.
तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः । अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ।। ५५.
संकल्पं पूर्ववद् भक्त्या द्वादश्यां संयतेन्द्रियः । एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ।। ५५.
काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् । भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ।। ५५.
सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् । संपूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ।। ५५.
जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् । आमन्त्र्यं संख्यया राजंश्चतुर्विंशति यावतः ।। ५५.
तेषां एकैकशो गां च अनड्वाहं च दापयेत् । एकैकं वस्त्रयुग्मं च अङ्गुलीयकमेव च ।। ५५.
कटकानि च सौवर्णकर्णाभरणकानि च । एकैकं ग्राममेतेषां राजा राजन् प्रदापयेत् ।। ५५.
तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् । स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ।। ५५.
यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा । वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ।। ५५.
गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् । एवं कृते तथा कृष्णशुक्लद्वादश्यमेव च ।। ५५.
रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः । दापयेद् ब्राह्मणानां तु तथा तेषां च भोजनम् । उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ।। ५५.
एतान् दत्त्वा वदेदेवं कृष्णो दामोदरो मम । प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ।। ५५.
दाने च भोजने चैव कृत्वा यत् फलमाप्यते । तन्न शक्यं सहस्त्रेण वर्षाणामपि कीर्तितुम् ।। ५५.
तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ । व्रतस्यास्य पुरा वृत्तं शुभान्यस्य श्रृणुष्व तत् ।। ५५.
आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः । स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् । तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ।। ५५.
तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ । तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ।। ५५.