एवं कृते शरीरं तु ददर्श स पुनः प्रभुः । स्वकीयमेवाकस्यान्तः पितरं नृपसत्तम ।। ५३.
त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु । समं दृष्ट्वा परं हर्षं उभे विसस्वरार्त्तवित् ।। ५३.
एवंविधोऽसौ पुरुषः स्वरनामा महातपाः । मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ।। ५३.
एतस्मादेव तस्याशु कथया राजसत्तम । संभूतिरभवद् राजन् विवृत्तेस्त्वेष एव तु ।। ५३.
एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् । य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ।। ५३.
भद्राश्व उवाच । विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज । कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ।। ५४.
अगस्त्य उवाच । विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः । तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ।। ५४.
रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा । नारायणः परो देवस्तं प्रणम्य न सीदति ।। ५४.
श्रूयते च पुरा राजन् नारदेन महात्मना । कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ।। ५४.
नारदस्तु पुरा कल्पे गतवान् मानसं सरः । स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ।। ५४.
तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् । अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ।। ५४.
देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् । ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ।। ५४.
अप्सरस ऊचुः । भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज । नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ।। ५४.
नारद उवाच । प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः । स च मे न कृतो गर्वाद् युष्माभिर्यौवनस्मयात् ।। ५४.
तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् । भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः । तन्नामोच्चारणादेव कृतं सर्वं न संशयः ।। ५४.
इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् । वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ।। ५४.
नारद उवाच । वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा । तस्यामुपोष्य विधिवन् निशायां हरिमर्च्चयेत् ।। ५४.
पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् । तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ।। ५४.
तस्योपरि ततः पुष्पैर्मण्डपं कारयेद् बुधः । नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ।। ५४.
मनोभवायेति शिर अनङ्गायेति वै कटिम् । कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ।। ५४.
मन्मथायेति पादौ तु हरयेति च सर्वतः । पुष्पैः संपूज्य देवेशं मल्लिकाजातिभिस्तथा ।। ५४.
पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् । चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ।। ५४.
एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै । वेदवेदाङ्गयुक्ताय संपूर्णाङ्गाय धीमते ।। ५४.
ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् । एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ।। ५४.
अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः । अवमानस्य तस्यायं विपाको वो भविष्यति ।। ५४.
एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः । तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ।। ५४.
व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः । अवमानेऽपहरणं गोपालैर्वो भविष्यति । पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ।। ५४.
अगस्त्य उवाच । एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् । ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ।। ५४.
अगस्त्य उवाच । श्रृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् । येन संप्राप्यते विष्णुः शुभेनैव न संशयः ।। ५५.
मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् । एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ।। ५५.