श्रूयते च द्विजश्रेष्ठ संवादो विप्रलुब्धयोः । आत्रेयो ब्राह्मणः कश्चिद् वेदाभ्यासरतो मुनिः ।। ५.
वसत्यविरतं प्रातःस्नायी त्रिषवणे रतः । नाम्ना संयमनः पूर्वमेकस्मिन् दिवसे नदीम् । धर्मारण्ये गतः स्नातुं धन्यां भागीरथीं शुभाम् ।। ५.
तत्रासीनं महायूथं हरिणानां विचक्षणः । लुब्धो निष्ठुरको नाम धनुःपाणिः कृतान्तवत् । आययौ तं जिघांसुः स धनुष्यायोज्य सायकम् ।। ५.
ततः संयमनो विप्रो दृष्ट्वा तं मृगयारतम् । वारयामास मा भद्र जीवघातमिमं कुरु ।। ५.
एतच्छ्रुत्वा वचो व्याधः स्मितपूर्वमिदं वचः । उवाच नाहं हिंसामि पृथग्जीवं द्विजोत्तम ।। ५.
परमात्मा त्वयं भूतैः क्रीडते भगवान् स्वयम् । कृता मृदा बलीवर्द्दास्तद्वदेतन्न संशयः ।। ५.
अहे भावः सदा ब्रह्मन्नविद्येयं मुमुक्षुणाम् । यात्राप्राणरतं सर्वं जगदेतद् विचेष्टितम् । तत्राहमिति यः शब्दः स साधुत्वं न गच्छति ।। ५.
इत्याकर्ण्य स विप्रेन्द्रो द्विजः संयमनस्तदा । विस्मयेनाब्रवीद् वाक्यं लुब्धं निष्ठुरकं द्विजः ।। ५.
किमेतदुच्यते भद्र प्रत्यक्षं हेतुमद्वचः । ततः श्रुत्वा मुनेर्विप्रं लुब्धकः प्राह धर्मवित् । कुत्वा लोहमयं जालं तस्याधो ज्वलनं ददौ ।। ५.
दत्त्वा वह्निं द्विजं प्राह ज्वाल्यतां काष्ठसचयः । ततो विप्रो मुखेनाग्निं प्रज्वाल्य विरराम ह ।। ५.
ज्वलिते तु पुनर्वह्नौ तं जालं लोहसंभवम् । पृथक्पृथक् सहस्त्राणि निन्येऽन्तर्जालकैर्द्विज । एकस्थानगतस्यापि वह्नेरायसजालकैः ।। ५.
ततो लुब्धोऽब्रवीद्विप्रमेकां ज्वालां महामुने । गृहाण येन शेषाणां करिष्यामीह नाशनम् ।। ५.
एवमुक्त्वा हुताशे तु तोयपूर्णं घटं द्रुतम् । चिक्षेप सहसा वह्निः प्रशशामाशु पूर्ववत् ।। ५.
ततोऽब्रवील्लुब्धकस्तु ब्राह्मणं तं तपोधनम् । भगवन् या त्वया ज्वाला गृहोतासीद्धुताशनात् । प्रयच्छ येन मार्गाणि मांसान्यानाय्य भक्षये ।। ५.
एवमुक्तस्तदा विप्रो यावदायसजालकम् । पश्यत्येव न तत्राग्निर्मूलनाशे गतः क्षयम् ।। ५.
ततो विलक्षभावेन ब्राह्मणः शंसितव्रतः । तूष्णींभूतस्थितस्तावल्लुब्धको वाक्यमब्रवीत् ।। ५.
एतस्मिञ्ज्वलितो वह्निर्बहुशाखश्च सत्तम । मूलनाशे भवेन्नाशस्तद्वदेतदपि द्विज ।। ५.
आत्मा स प्रकृतिस्थश्च भूतानां संश्रयो भवेत् । भूय एषा जगत्सृष्टिस्तत्रैव जगतो भवेत् ।। ५.
पिण्डग्रहणधर्मेण यदस्य विहितं व्रतम् । तत्तदात्मनि संयोज्य कुर्वाणो नावसीदति ।। ५.
एवमुक्ते तु व्याधेन ब्राह्मणे राजसत्तम । पुष्पवृष्टिरथाकाशात् तस्योपरि पपात ह ।। ५.
विमानानि च दिव्यानि कामगानि महान्ति च । बहुरत्नानि मुख्यानि ददृशे ब्राह्मणोत्तमः ।। ५.
तेषु निष्ठुरकं लुब्धं सर्वेषु समवस्थितम् । ददृशे ब्राह्मणस्तत्र कामरूपिणमुत्तमम् ।। ५.
अद्वैतवासनासिद्धं योगाद् बहुशरीरकम् । दृष्ट्वा विप्रो मुदा युक्तः प्रययौ निजमाश्रमम् ।। ५.
एवं ज्ञानवतः कर्म्म कुर्वतोऽपि स्वजातिकम् । भवेन्मुक्तिर्द्विजश्रेष्ठ रैभ्य राजन् वसो ध्रुवम् ।। ५.
एवं तौ संशयच्छेदं प्राप्तौ रैभ्यवसू नृप । बृहस्पतेस्ततो धिष्ण्याज्जग्मतुर्निजमाश्रमम् ।। ५.
तस्मात् त्वमपि राजेन्द्र देवं नारायणं प्रभुम् । अभेदेन स्वदेहस्थं पश्यन्नाराधय प्रभुम् ।। ५.
कपिलस्य वचः श्रुत्वा स राजाऽश्वशिरा विभुः । ज्येष्ठं पुत्रं समाहूय धन्यं स्थूलशिराह्वयम् । अभिषिच्य निजे राज्ये स राजा प्रययौ वनम् ।। ५.
नैमिषाख्यं वरारोहे तत्र यज्ञतनुं गुरुम् । तपसाराधयामास यज्ञमूर्तिं स्तवेन च ।। ५.
धरण्युवाच । कथं यज्ञतनोः स्तोत्रं राज्ञा नारायणस्य ह । स्तुतिः कृता महाभाग पुनरेतच्च शंस मे ।। ५.
श्रीवराह उवाच । नमामि याज्यं त्रिदशाधिपस्य भवस्य सूर्यस्य हुताशनस्य । सोमस्य राज्ञो मरुतामनेक- रूपं हरिं यज्ञनरं नमस्ये ।। ५.