अगस्त्य उवाच । आगतेयं कथा चित्रा सर्वस्य विषये स्थिता । त्वद्देहे मम देहे च सर्वजन्तुषु सा समा ।। ५३.
तस्यां संभूतिमिच्छन् यस्तस्योपायं स्वयं परम् । पशुपालात् समुत्पन्नो यश्चतुष्पाच्चतुर्मुखः ।। ५३.
स गुरुः स कथायास्तु तस्याश्चैव प्रवर्त्तकः । तस्य पुत्रः स्वरो नाम सप्तमूर्तिंरसौ स्मृतः ।। ५३.
तेन प्रोक्तं तु यत्किंचित् चतुर्णां साधनं नृप । ऋगर्थानां चतुर्भिस्ते तद्भक्त्याराध्यतां ययुः ।। ५३.
चतुर्णां प्रथमो यस्तु चतुःश्रृङ्गसमास्थितः । वृषद्वितीयस्तत्प्रोक्तमार्गेणैव तृतीयकः । चतुर्थस्तत्प्रणीतस्तां पूज्य भक्त्या सुतं व्रजेत् ।। ५३.
सप्तमूर्त्तेस्तु चरितं शुश्रुंवुः प्रथमं नृप । ब्रह्मचर्येण वर्त्तेत द्वितीयोऽस्य सनातनः ।। ५३.
ततो भृत्यादिभरणं वृषभारोहणं त्रिषु । वनवासश्च निर्द्दिष्ट आत्मस्थे वृषभे सति ।। ५३.
अहमस्मि वदत्यन्यश्चतुर्द्धा एकधा द्विधा । भेदभिन्नसहोत्पन्नास्तस्यापत्यानि जज्ञिरे ।। ५३.
नित्यानित्यस्वरूपाणि दृष्ट्वा पूर्वं चतुर्मुखः । चिन्तयामास जनकं कथं पश्याम्यहं नृप ।। ५३.
मदीयस्य पितुर्ये हि गुणा आसन् महात्मनः । न ते सम्प्रति दृश्यन्ते स्वरापत्येषु केषुचित् ।। ५३.
पितुः पुत्रस्य यः पुत्रः स पितामहनामवान् । एवं श्रुतिः स्थिता चेयं स्वरापत्येषु नान्यथा ।। ५३.
क्वापि संपत्स्यते भावो द्रष्टव्यश्चापि ते पिता । एवं नीतेऽपि किं कार्यमिति चिन्तापरोऽभवत् ।। ५३.
तस्य चिन्तयतः शस्त्रं पितृकं पुरतो बभौ । तेन शस्त्रेण तं रोषान्ममन्थ स्वरमन्तिके ।। ५३.
तस्मिन् मथितमात्रे तु शिरस्तस्यापि दुर्ग्रहम् । नालिकेरफलाकारं चतुर्वक्त्रोऽन्वपश्यत ।। ५३.
तच्चावृतं प्रधानेन दशधा संवृतो बभौ । चतुष्पादेन शस्त्रेण चिच्छेद तिलकाण्डवत् ।। ५३.
प्रकामं तिलसंच्छिन्ने तदमूलौ न मे बभौ । अहं त्वहं वदन् भूतं तमप्येवमथाच्छिनत् ।। ५३.
तस्मिन् छिन्ने तदस्यांसे ह्रस्वमन्यमवेक्षत । अहं भूतादि वः पञ्च वदन्तं भूतिमन्तिकात् ।। ५३.
तमप्येवमथो छित्त्वा पञ्चाशून्यममीक्षत । कृत्वावकाशं ते सर्वे जल्पन्त इदमन्तिकात् ।। ५३.
तमप्यसङ्गशस्त्रेण चिच्छेद तिलकाण्डवत् । तस्मिंच्छिन्ने दशांशेन ह्रस्वमन्यमपश्यत ।। ५३.
पुरुषं रूपशस्त्रेण तं छित्त्वाऽन्यमपश्यत । तद्वद् ह्रस्वं सितं सौम्यं तमप्येवं तदाऽकरोत् ।। ५३.
एवं कृते शरीरं तु ददर्श स पुनः प्रभुः । स्वकीयमेवाकस्यान्तः पितरं नृपसत्तम ।। ५३.
त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु । समं दृष्ट्वा परं हर्षं उभे विसस्वरार्त्तवित् ।। ५३.
एवंविधोऽसौ पुरुषः स्वरनामा महातपाः । मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ।। ५३.
एतस्मादेव तस्याशु कथया राजसत्तम । संभूतिरभवद् राजन् विवृत्तेस्त्वेष एव तु ।। ५३.
एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् । य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ।। ५३.
भद्राश्व उवाच । विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज । कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ।। ५४.
अगस्त्य उवाच । विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः । तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ।। ५४.
रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा । नारायणः परो देवस्तं प्रणम्य न सीदति ।। ५४.
श्रूयते च पुरा राजन् नारदेन महात्मना । कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ।। ५४.
नारदस्तु पुरा कल्पे गतवान् मानसं सरः । स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ।। ५४.