साऽपि स्त्री स्वे वक्षसि धारयन्ती सहस्त्रसूर्यप्रतिमं विशालम् । तस्याधरस्त्रिर्विकारस्त्रिवर्ण- स्तं राजानं पश्य परिभ्रमन्तम् ।। ५१.
तूष्णींभूता मृतकल्पा इवासन् नृपोऽप्यसौ तद्वनं संविवेश । तस्मिन् प्रविष्टे सर्व एते विविशु- र्भयादैक्यं गतवन्तः क्षणेन ।। ५१.
तैः सर्पैः स नृपो दुर्विनीतैः संवेष्टितो दस्युभिश्चिन्तयानः । कथं चैतेन भविष्यन्ति येन कथं चैते संसृताः संभवेयुः ।। ५१.
एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः । श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ।। ५१.
स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि । एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ।। ५१.
तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् । एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ।। ५१.
मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् । संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ।। ५१.
ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् । संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ।। ५१.
रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः । मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ।। ५१.
तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् । अन्येषामपि पापानां कोटिः साग्राभवन्नृप ।। ५१.
गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः । सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ।। ५१.
एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता । एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ।। ५१.
तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे । त्रिवर्णः पुरुषो राजन्नब्रवीद् राजसत्तमम् ।। ५१.
त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते । अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ।। ५१.
यदि नाम कृताः सर्वे वयं देव पराजिताः । एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ।। ५१.
मर्य्येके तव पुत्रत्वं गते सर्वेषु संभवः । एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ।। ५१.
पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम । युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ।। ५१.
एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् । तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ।। ५१.
अगस्त्य उवाच । स त्रिवर्णो नृपोत्सृष्टः स्वतन्त्रत्वाच्च पार्थिव । अहं नामानमसृजत् पुत्रं पुत्रस्त्रिवर्णकम् ।। ५२.
तस्यापि चाभवत् कन्या अवबोधस्वरूपिणी । सा तु विज्ञानदं पुत्रं मनोह्वं विससर्ज ।। ५२.
तस्यापि सर्वरूपाः स्युस्तनयाः पञ्चभोगिनः । यथासंख्येन पुत्रास्तु तेषामक्षाभिधानकाः ।। ५२.
एते पूर्वं दस्यवः स्युस्ततो राज्ञा वशीकृताः । अमूर्त्ता इव ते सर्वे चक्रुरायतनं शुभम् ।। ५२.
नवद्बारं पुरं तस्य त्वेकस्तम्भं चतुष्पथम् । नदीसहस्त्रसंकीर्ण जलकृत्य समास्थितम् ।। ५२.
तत्पुरं ते प्रविविशुरेकीभूतास्ततो नव । पुरुषो मूर्त्तिमान् राजा पशुपालोऽभवत् क्षणात् ।। ५२.
ततस्तत्पुरसंस्थस्तु पशुपालो महानृपः । संसूच्य वाचकाञ्छब्दान् वेदान् सस्मार तत्पुरे ।। ५२.
आत्मस्वरूपिणो नित्यास्तदुक्तानि व्रतानि च । नियमान् क्रतवश्चैव सर्वान् राजा चकार ह ।। ५२.
स कदाचिन्नृपः खिन्नः कर्मकाण्डं प्ररोचयन् । सर्वज्ञो योगनिद्रायां स्थित्वा पुत्रं ससर्ज ह ।। ५२.
चतुर्वक्त्रं चतुर्बाहुं चतुर्वेदं चतुष्पथम् । तस्मादारभ्य नृपतेर्वशे पश्वादयः स्थिताः ।। ५२.
तस्मिन् समुद्रे स नृपो वने तस्मिंस्तथैव च । तृणादिषु नृपस्सैव हस्त्यादिषु तथैव च । समोभवत् कर्मकाण्डादनुज्ञाय महामते ।। ५२.
भद्राश्व उवाच । मत्प्रश्नविषये ब्रह्मन् कथेयं कथिता त्वया । तस्या विभूतिरभवत् कस्य केन कृतेन ह ।। ५३.