पुष्पभद्रा नदी यत्र शिला चित्रशिला तथा । वटो भद्रवटो यत्र तत्र तस्याश्रमो बभौ । तत्रोपरि महत् तस्य चरितं संभविष्यति ।। ५१.
धरण्युवाच । बहुकल्पसहस्त्राणि व्रतस्यास्य सनातन । मया कृतस्य तपसस्तन्मया विस्मृतं प्रभो ।। ५१.
इदानीं त्वत्प्रसादेन स्मरणं प्राक्तनं मम । जातं जातिस्मरा चास्मि विशोका परमेश्वर ।। ५१.
यदि नाम परं देव कौतुकं हृदि वर्तते । अगस्त्यः पुनरागत्य भद्राश्वस्य निवेशनम् । यच्चकार स राजा च तन्ममाचक्ष्व भूधर ।। ५१.
श्रीवराह उवाच । प्रत्यागतमृषिं दृष्ट्वा भद्राश्वः श्वेतवाहनः । वरासनगतं दृष्ट्वा कृत्वा पूजां विशेषतः । अपृच्छन्मोक्षधर्माख्यं प्रश्नं सकलधारिणि ।। ५१.
भद्राश्व उवाच । भगवन् कर्मणा केन छिद्यते भवसंसृतिः । किं वा कृत्वा न शोचन्ति मूर्त्तामूर्त्तोपपत्तिषु ।। ५१.
अगस्त्य उवाच । श्रृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् । दृश्यादृश्यविभागोत्थां समाहितमना नृप ।। ५१.
नाहो न रात्रिर्न दिशोऽदिशश्च न द्यौर्न देवा न दिनं न सूर्यः । तस्मिन् काले पशुपालेति राजा स पालयामास पशूननेकान् ।। ५१.
तान् पालयन् स कदाचिद् दिदृक्षुः पूर्वं समुद्रं च जगाम तूर्णम् । अनन्तपारस्य महोदधेस्तु तीरे वनं तत्र वसन्ति सर्पाः ।। ५१.
अष्टौ द्रुमाः कामवहा नदी च तुर्यक् चोद्र्ध्वं बभ्रमुस्तत्र चान्ये । पञ्च प्रधानाः पुरुषास्तथैकां स्त्रियं बिभ्रते तेजसा दीप्यमानाम् ।। ५१.
साऽपि स्त्री स्वे वक्षसि धारयन्ती सहस्त्रसूर्यप्रतिमं विशालम् । तस्याधरस्त्रिर्विकारस्त्रिवर्ण- स्तं राजानं पश्य परिभ्रमन्तम् ।। ५१.
तूष्णींभूता मृतकल्पा इवासन् नृपोऽप्यसौ तद्वनं संविवेश । तस्मिन् प्रविष्टे सर्व एते विविशु- र्भयादैक्यं गतवन्तः क्षणेन ।। ५१.
तैः सर्पैः स नृपो दुर्विनीतैः संवेष्टितो दस्युभिश्चिन्तयानः । कथं चैतेन भविष्यन्ति येन कथं चैते संसृताः संभवेयुः ।। ५१.
एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः । श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ।। ५१.
स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि । एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ।। ५१.
तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् । एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ।। ५१.
मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् । संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ।। ५१.
ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् । संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ।। ५१.
रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः । मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ।। ५१.
तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् । अन्येषामपि पापानां कोटिः साग्राभवन्नृप ।। ५१.
गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः । सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ।। ५१.
एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता । एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ।। ५१.
तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे । त्रिवर्णः पुरुषो राजन्नब्रवीद् राजसत्तमम् ।। ५१.
त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते । अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ।। ५१.
यदि नाम कृताः सर्वे वयं देव पराजिताः । एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ।। ५१.
मर्य्येके तव पुत्रत्वं गते सर्वेषु संभवः । एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ।। ५१.
पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम । युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ।। ५१.
एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् । तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ।। ५१.
अगस्त्य उवाच । स त्रिवर्णो नृपोत्सृष्टः स्वतन्त्रत्वाच्च पार्थिव । अहं नामानमसृजत् पुत्रं पुत्रस्त्रिवर्णकम् ।। ५२.
तस्यापि चाभवत् कन्या अवबोधस्वरूपिणी । सा तु विज्ञानदं पुत्रं मनोह्वं विससर्ज ।। ५२.