सपत्नीको नृपवरो द्वादशीं समुपोष्य च । इह जन्मनि राजाऽसौ पुत्रपौत्रांस्तथाऽऽप्तवान् ।। ४९.
दुर्वासा उवाच । गत्वा तु पुष्करं तीर्थमगस्त्यो मुनिपुंगवः । कार्तिक्यामाजगामाशु पुनर्भद्राश्वमन्दिरम् ।। ५०.
तमागतं मुनिं प्रेक्ष्य राजा परमधार्मिकः । अर्घपाद्यादिभिः पूज्य कृतासनपरिग्रहम् । उवाच हर्षितो राजा तमृषिं संशितव्रतम् ।। ५०.
राजोवाच । भगवन् कथितं पूर्वं त्वया ऋषिवरोत्तम । द्वादश्याश्वयुजे मासि विधानं तत् कृतं मया । इदानीं कार्तिके मासि यत् स्यात् पुण्यं वदस्व मे ।। ५०.
अगस्त्य उवाच । श्रृणु राजन् महाबाहो कार्तिके मासि द्वादशीम् । उपोष्य विधिना येन यच्चास्याः प्राप्यते फलम् ।। ५०.
प्राग्विधानेन संकल्प्य तद्वत् स्नानं तु कारयेत् । विभुमेवार्चयेद् देवं नारायणमकल्मषम् ।। ५०.
नमः सहस्त्रशिरसे शिरः संपूजयेद्धरेः । पुरुषायेति च भुजौ कण्ठं वै विश्वरूपिणे । ज्ञानास्त्रायेति चास्त्राणि श्रीवत्साय तथा उरः ।। ५०.
जगद्ग्रसिष्णवे पूज्य उदरं दिव्यमूर्त्तये । कटिं सहस्त्रपादाय पादौ देवस्य पूजयेत् ।। ५०.
अनुलोमेन देवेशं पूजयित्वा विचक्षणः । नमो दामोदरायेति सर्वाङ्गं पूजयेद्धरेः ।। ५०.
एवं संपूज्य विधिना तस्याग्रे चतुरो घटान् । स्थापयेद् रत्नगर्भांस्तु सितचन्दनचर्चितान् ।। ५०.
स्त्रग्दामबद्धग्रीवांस्तु सितवस्त्रावगुण्ठितान् । स्थापितान् ताम्रपात्रैस्तु तिलपूर्णैः सकाञ्चनैः ।। ५०.
चत्वारः सागराश्चैव कल्पिता राजसत्तम । तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद्धरिम् । योगीश्वरं योगनिद्रां चरन्तं पीतवाससम् ।। ५०.
तमप्येवं तु संपूज्य जागरं तत्र कारयेत् । कुर्याच्च वैष्णवं यज्ञं यजेद् योगीश्वरं हरिम् ।। ५०.
षोडशारे तथा चक्रे राजभिर्बहुभिः कृते । एवं कृत्वा प्रभाते तु ब्राह्मर्णाय च दापयेत् ।। ५०.
चत्वारः सागरा देयाश्चतुर्णां पञ्चमस्य ह । योगीश्वरं तु संपूर्णं दापयेत् प्रयतः शुचिः ।। ५०.
वेदाढ्ये तु समं दत्तं द्विगुणं तद्विदे तथा । आचार्ये पञ्चरात्राणां सहस्त्रगुणितं भवेत् ।। ५०.
यस्त्विमं सरहस्यं तु समन्त्रं चोपपादयेत् । विधानं तस्य वै दत्तं कोटिकोटिगुणोत्तरम् ।। ५०.
गुरवे सति यस्त्वन्यमाश्रयेत् पूजयेत् कुधीः । स दुर्गतिमवाप्नोति दत्तमस्य च निष्फलम् । प्रयत्नेन गुरौ पूर्वं पश्चादन्यस्य दापयेत् ।। ५०.
अविद्यो वा सविद्यो वा गुरुरेव जनार्दनः । मार्गस्थो वाप्यमार्गस्थो गुरुरेव परा गतिः ।। ५०.
प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते । स जन्मकोटि नरके पच्यते पुरुषाधमः ।। ५०.
एवं दत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च । विप्राणां भोजनं कुर्याद् यथाशक्त्या सदक्षिणम् ।। ५०.
धरणीव्रतमेतद्धि पुरा कृत्वा प्रजापतिः । प्रजापत्यं तथा लेभे मुक्तिं ब्रह्म च शाश्वतम् ।। ५०.
युवनाश्वोऽपि राजर्षिरनेन विधिना पुरा । मान्धातारं सुतं लेभे परं ब्रह्म च शाश्वतम् ।। ५०.
तथा च हैहयो राजा कृतवीर्यो नराधिपः । कार्त्तवीर्यं सुतं लेभे परं ब्रह्म च शाश्वतम् ।। ५०.
शकुन्तलाऽप्येवमेव तपश्चीर्त्वा महामुने । लेभे शाकुन्तलं पुत्रं दौष्यन्तिं चक्रवर्तिनम् ।। ५०.
तथा पौराणराजानो वेदोक्ताश्चक्रवर्त्तिनः । अनेन विधिना प्राप्ताश्चक्रवर्तित्वमुत्तमम् ।। ५०.
धरण्या अपि पाताले मग्नया चरितं पुरा । व्रतमेतत् ततो नाम्ना धरणीव्रतमुत्तमम् ।। ५०.
समाप्तेऽस्मिन् धरा देवी हरिणा क्रोडरूपिणा । उद्धृताऽद्यापि तुष्टेन स्थापिता नौरिवाम्भसि ।। ५०.
धरणीव्रतमेतद्धि कीर्तितं ते मया मुने । य इदं श्रृणुयाद् भक्त्या यश्च कुर्यान्नरोत्तमः । सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ।। ५०.
श्रीवराह उवाच । श्रुत्वा दुर्वाससो वाक्यं धरणीव्रतमुत्तमम् । ययौ सत्यतपाः सद्यो हिमवत्पार्श्वमुत्तमम् ।। ५१.