अहं तमेव मुक्त्वाऽन्यं न पश्यामि महीतले । तेन साधो अगस्त्येति मया चात्मा प्रशंसितः । हर्षेण महता राजन् व्याक्षिप्तेन मयेरितम् ।। ४९.
सा स्त्री धन्या स शूद्रस्तु तथा धन्यतरो मतः । भर्तुः सुश्रूषणं कृत्वा तत्परोक्षे हरेरिति ।। ४९.
सा स्त्री धन्या तथा शूद्रो द्विजसुश्रूषणे रतः । तदनुज्ञया हरेर्भक्तिः स्त्री शूद्रो तेन साध्विति ।। ४९.
आसुरं भावमास्थाय प्रह्लादः पुरुषोत्तमम् । मुक्त्वा चान्यं न जानाति तेनासौ साधुरुच्यते ।। ४९.
प्रजापतिकुले भूत्वा बाल एव वनं गतः । आराध्य विष्णुं प्राप्तं तत् स्थानं परमशोभनम् । तेन साधो ध्रुवेत्येवं मयोक्तं राजसत्तम ।। ४९.
इति राजा वचः श्रुत्वा अगस्त्यस्य महात्मनः । अल्पोपदेशराजाऽसौ पप्रच्छ मुनिपुंगवम् ।। ४९.
अगस्त्यश्च महाभागः कार्तिक्यां पुष्करं व्रजन् । गतेऽगस्त्ये प्रगच्छन् वै भद्राश्वस्य निवेशनम् ।। ४९.
पृष्टश्च राज्ञा तामेव द्वादशीं मुनिसत्तमः । दुर्वासा उवाच । इदमेव मया तुभ्यं कथितं ते तपोधन ।। ४९.
कथयित्वा पुनर्वाक्यमगस्त्यो नृपसत्तमम् । उवाच पुष्करं यामि पुनरेष्यामि ते गृहम् । एवमुक्त्वा जगामाशु सद्योऽदर्शनतां मुनिः ।। ४९.
राजाऽपि तेन विधिना पद्मनाभस्य द्वादशीम् ।. उपोष्य परमं काममिह जन्मनि चाप्तवान् ।। ४९.
सपत्नीको नृपवरो द्वादशीं समुपोष्य च । इह जन्मनि राजाऽसौ पुत्रपौत्रांस्तथाऽऽप्तवान् ।। ४९.
दुर्वासा उवाच । गत्वा तु पुष्करं तीर्थमगस्त्यो मुनिपुंगवः । कार्तिक्यामाजगामाशु पुनर्भद्राश्वमन्दिरम् ।। ५०.
तमागतं मुनिं प्रेक्ष्य राजा परमधार्मिकः । अर्घपाद्यादिभिः पूज्य कृतासनपरिग्रहम् । उवाच हर्षितो राजा तमृषिं संशितव्रतम् ।। ५०.
राजोवाच । भगवन् कथितं पूर्वं त्वया ऋषिवरोत्तम । द्वादश्याश्वयुजे मासि विधानं तत् कृतं मया । इदानीं कार्तिके मासि यत् स्यात् पुण्यं वदस्व मे ।। ५०.
अगस्त्य उवाच । श्रृणु राजन् महाबाहो कार्तिके मासि द्वादशीम् । उपोष्य विधिना येन यच्चास्याः प्राप्यते फलम् ।। ५०.
प्राग्विधानेन संकल्प्य तद्वत् स्नानं तु कारयेत् । विभुमेवार्चयेद् देवं नारायणमकल्मषम् ।। ५०.
नमः सहस्त्रशिरसे शिरः संपूजयेद्धरेः । पुरुषायेति च भुजौ कण्ठं वै विश्वरूपिणे । ज्ञानास्त्रायेति चास्त्राणि श्रीवत्साय तथा उरः ।। ५०.
जगद्ग्रसिष्णवे पूज्य उदरं दिव्यमूर्त्तये । कटिं सहस्त्रपादाय पादौ देवस्य पूजयेत् ।। ५०.
अनुलोमेन देवेशं पूजयित्वा विचक्षणः । नमो दामोदरायेति सर्वाङ्गं पूजयेद्धरेः ।। ५०.
एवं संपूज्य विधिना तस्याग्रे चतुरो घटान् । स्थापयेद् रत्नगर्भांस्तु सितचन्दनचर्चितान् ।। ५०.
स्त्रग्दामबद्धग्रीवांस्तु सितवस्त्रावगुण्ठितान् । स्थापितान् ताम्रपात्रैस्तु तिलपूर्णैः सकाञ्चनैः ।। ५०.
चत्वारः सागराश्चैव कल्पिता राजसत्तम । तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद्धरिम् । योगीश्वरं योगनिद्रां चरन्तं पीतवाससम् ।। ५०.
तमप्येवं तु संपूज्य जागरं तत्र कारयेत् । कुर्याच्च वैष्णवं यज्ञं यजेद् योगीश्वरं हरिम् ।। ५०.
षोडशारे तथा चक्रे राजभिर्बहुभिः कृते । एवं कृत्वा प्रभाते तु ब्राह्मर्णाय च दापयेत् ।। ५०.
चत्वारः सागरा देयाश्चतुर्णां पञ्चमस्य ह । योगीश्वरं तु संपूर्णं दापयेत् प्रयतः शुचिः ।। ५०.
वेदाढ्ये तु समं दत्तं द्विगुणं तद्विदे तथा । आचार्ये पञ्चरात्राणां सहस्त्रगुणितं भवेत् ।। ५०.
यस्त्विमं सरहस्यं तु समन्त्रं चोपपादयेत् । विधानं तस्य वै दत्तं कोटिकोटिगुणोत्तरम् ।। ५०.
गुरवे सति यस्त्वन्यमाश्रयेत् पूजयेत् कुधीः । स दुर्गतिमवाप्नोति दत्तमस्य च निष्फलम् । प्रयत्नेन गुरौ पूर्वं पश्चादन्यस्य दापयेत् ।। ५०.
अविद्यो वा सविद्यो वा गुरुरेव जनार्दनः । मार्गस्थो वाप्यमार्गस्थो गुरुरेव परा गतिः ।। ५०.
प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते । स जन्मकोटि नरके पच्यते पुरुषाधमः ।। ५०.