स वैश्योऽश्वयुजे मासि द्वादश्यां नियतः स्थितः । स्वयं विष्ण्वालयं गत्वा पुष्पधूपादिभिर्हरिम् ।। ४९.
अभ्यर्च्य स्वगृहं प्रायाद् भवन्तौ रक्षपालकौ । स्थाप्य द्वावपि दीपानां ज्वलनार्थं महामते ।। ४९.
गते वैश्ये भवन्तौथ दीपान् प्रज्वाल्य संस्थितौ । यावत् प्रभाता रजनी निशामेकां नरोत्तम ।। ४९.
ततः काले मृतौ तौ तु उभौ द्वावपि दम्पती । तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ।। ४९.
इयं तु पत्नी ते जाता पुरा वैश्यस्य दासिका । पारक्यस्यापि दीपस्य ज्वालितस्य हरेर्गृहे ।। ४९.
यः पुनः स्वेन वित्तेन विष्णोरग्रे प्रदीपकम् । ज्वालयेत् तस्य यत् पुण्यं तत् संख्यातुं न शक्यते । तेन साधो हरे साधु इत्युक्तं वचनं मया ।। ४९.
कृते संवत्सरे भक्तिं हरेः कृत्वा विचक्षणः । संवत्सरार्धं त्रेतायां सममेतन्न संशयः ।। ४९.
त्रिमासे द्वापरे भक्त्या पूजयँल्लभते फलम् । नमो नारायणायेत्युक्त्वा कलौ तु लभते फलम् । तेन मुष्टं जगद् विष्णोर्भक्तिमात्रं मयेरितम् ।। ४९.
पारक्यदीपस्योत्कर्षाद् वै देवाग्रे फलमीदृशम् । प्राप्तं फलं त्वया राजन् फलमेतन् मयेरितम् । अहो मूढा न जानन्ति हरेर्दीपक्रियाफलम् ।। ४९.
एवं विधं द्विजा ये च राजानो ये च भक्तितः । यजन्ते विविधैर्यज्ञैस्तेन ते साधवः स्मृताः ।। ४९.
अहं तमेव मुक्त्वाऽन्यं न पश्यामि महीतले । तेन साधो अगस्त्येति मया चात्मा प्रशंसितः । हर्षेण महता राजन् व्याक्षिप्तेन मयेरितम् ।। ४९.
सा स्त्री धन्या स शूद्रस्तु तथा धन्यतरो मतः । भर्तुः सुश्रूषणं कृत्वा तत्परोक्षे हरेरिति ।। ४९.
सा स्त्री धन्या तथा शूद्रो द्विजसुश्रूषणे रतः । तदनुज्ञया हरेर्भक्तिः स्त्री शूद्रो तेन साध्विति ।। ४९.
आसुरं भावमास्थाय प्रह्लादः पुरुषोत्तमम् । मुक्त्वा चान्यं न जानाति तेनासौ साधुरुच्यते ।। ४९.
प्रजापतिकुले भूत्वा बाल एव वनं गतः । आराध्य विष्णुं प्राप्तं तत् स्थानं परमशोभनम् । तेन साधो ध्रुवेत्येवं मयोक्तं राजसत्तम ।। ४९.
इति राजा वचः श्रुत्वा अगस्त्यस्य महात्मनः । अल्पोपदेशराजाऽसौ पप्रच्छ मुनिपुंगवम् ।। ४९.
अगस्त्यश्च महाभागः कार्तिक्यां पुष्करं व्रजन् । गतेऽगस्त्ये प्रगच्छन् वै भद्राश्वस्य निवेशनम् ।। ४९.
पृष्टश्च राज्ञा तामेव द्वादशीं मुनिसत्तमः । दुर्वासा उवाच । इदमेव मया तुभ्यं कथितं ते तपोधन ।। ४९.
कथयित्वा पुनर्वाक्यमगस्त्यो नृपसत्तमम् । उवाच पुष्करं यामि पुनरेष्यामि ते गृहम् । एवमुक्त्वा जगामाशु सद्योऽदर्शनतां मुनिः ।। ४९.
राजाऽपि तेन विधिना पद्मनाभस्य द्वादशीम् ।. उपोष्य परमं काममिह जन्मनि चाप्तवान् ।। ४९.
सपत्नीको नृपवरो द्वादशीं समुपोष्य च । इह जन्मनि राजाऽसौ पुत्रपौत्रांस्तथाऽऽप्तवान् ।। ४९.
दुर्वासा उवाच । गत्वा तु पुष्करं तीर्थमगस्त्यो मुनिपुंगवः । कार्तिक्यामाजगामाशु पुनर्भद्राश्वमन्दिरम् ।। ५०.
तमागतं मुनिं प्रेक्ष्य राजा परमधार्मिकः । अर्घपाद्यादिभिः पूज्य कृतासनपरिग्रहम् । उवाच हर्षितो राजा तमृषिं संशितव्रतम् ।। ५०.
राजोवाच । भगवन् कथितं पूर्वं त्वया ऋषिवरोत्तम । द्वादश्याश्वयुजे मासि विधानं तत् कृतं मया । इदानीं कार्तिके मासि यत् स्यात् पुण्यं वदस्व मे ।। ५०.
अगस्त्य उवाच । श्रृणु राजन् महाबाहो कार्तिके मासि द्वादशीम् । उपोष्य विधिना येन यच्चास्याः प्राप्यते फलम् ।। ५०.
प्राग्विधानेन संकल्प्य तद्वत् स्नानं तु कारयेत् । विभुमेवार्चयेद् देवं नारायणमकल्मषम् ।। ५०.
नमः सहस्त्रशिरसे शिरः संपूजयेद्धरेः । पुरुषायेति च भुजौ कण्ठं वै विश्वरूपिणे । ज्ञानास्त्रायेति चास्त्राणि श्रीवत्साय तथा उरः ।। ५०.
जगद्ग्रसिष्णवे पूज्य उदरं दिव्यमूर्त्तये । कटिं सहस्त्रपादाय पादौ देवस्य पूजयेत् ।। ५०.
अनुलोमेन देवेशं पूजयित्वा विचक्षणः । नमो दामोदरायेति सर्वाङ्गं पूजयेद्धरेः ।। ५०.
एवं संपूज्य विधिना तस्याग्रे चतुरो घटान् । स्थापयेद् रत्नगर्भांस्तु सितचन्दनचर्चितान् ।। ५०.