इह जन्मनि राजाऽसौ राज्यं कृत्वा इयाद् वनम् । यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ।। ४८.
दुर्वासा उवाच । तद्वदाश्वयुजे मासि द्वादशीं शुक्लपक्षतः । संकल्प्याभ्यर्चयेद् देवं पद्मनाभं सनातनम् ।। ४९.
पद्मनाभाय पादौ तु कटिं वै पद्मयोनये । उदरं सर्वदेवाय पुष्कराक्षाय वै उरः । अव्ययाय तथा पाणिं प्राग्वदस्त्राणि पूजयेत् ।। ४९.
प्रभवाय शिरः पूज्य प्राग्वदग्रे घटं न्यसेत् । तस्मिन् सौवर्णकं देवं पद्मनाभं तु विन्यसेत् ।। ४९.
तमेव देवं संपूज्य गन्धपुष्पादिभिः क्रमात् । प्रभातायां तु शर्वर्यां ब्राह्मणाय निवेदयेत् । एवं कृते तु यत् पुण्यं तन्निबोध महामुने ।। ४९.
आसीत् कृतयुगे राजा भद्राश्वो नाम वीर्यवान् । यस्य नाम्नाऽभवद् वर्षं भद्राश्वं नाम नामतः ।। ४९.
तस्यागस्त्यः कदाचित् तु गृहमागत्य सत्तम । उवाच सप्तरात्रं तु वसामि भवतो गृहे ।। ४९.
तं राजा शिरसा भूत्वा स्थीयतामित्यभाषत । तस्य कान्तिमती नाम भार्या परमशोभना ।। ४९.
तस्यास्तेजः समभवद् द्वादशादित्यसंनिभम् । शतानि पञ्च तस्यासन् सपत्नीनां यतव्रत ।। ४९.
ता दास्य इव कर्माणि कुर्वन्त्यहरहः शुभाः । कान्तिमत्या महाभाग भयात् त्रस्ता विचेतसः ।। ४९.
तामगस्त्यस्तथा दृष्ट्वा रूपतेजोऽन्वितां शुभाम् । सपत्न्यश्च भयात् तस्याः कुर्वन्त्यः कर्म शोभनम् । राजा तु तस्या मुदितं मुखमेवावलोकयन् ।। ४९.
एवंभूतामथो दृष्ट्वा राज्ञीं परमशोभनाम् । साधु साधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः ।। ४९.
द्वितीये दिवसेऽप्येवं राज्ञीं दृष्ट्वा महाप्रभाम् । अहो मुष्टमहो मुष्टं जगदेतच्चराचरम् । इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्ट्वाऽभ्युवाच ह ।। ४९.
तृतीयेऽहनि तां दृष्ट्वा पुनरेवमुवाच ह । अहो मूढा न जानन्ति गोविन्दं परमेश्वरम् । य एकेऽह्नि फलं चैतद् राज्ञे तुष्टः प्रदत्तवान् ।। ४९.
चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत् । साधु साधु जगन्नाथ स्त्री शूद्राः साधु साध्विति । द्विजाः साधु नृपाः साधु वैश्याः साधु पुनः पुनः ।। ४९.
साधु भद्राश्व साधु त्वं भोऽगस्त्य साधु साधु ते । साधु प्रह्लाद ते साधु ध्रुव साधो महाव्रत । एवमुक्त्वा ननर्तोच्चैरगस्त्यो राजसंनिधौ ।। ४९.
एवंभूतं च तं दृष्ट्वा सपत्नीको नृपोत्तमः । किं हर्षकारणं ब्रह्मन् येनेत्थं नृत्यते भवान् ।। ४९.
अगस्त्य उवाच । अहो मूर्खः कुराजा त्वमहो मूर्खाऽनुगास्त्वमी । अहो पुरोहिता मूर्खा ये न जानन्ति मे मतम् ।। ४९.
एवमुक्ते ततो राजा कृताञ्जलिरभाषत । न जानीमो वयं ब्रह्मन् प्रश्नमेतत् त्वयेरितम् । कथयस्व महाभाग यद्यनुग्रहकृद् भवान् ।। ४९.
अगस्त्य उवाच । इयं राज्ञी त्वया याऽभूद् दासी वैश्यस्य वैदिशे । नगरे हरिदत्तस्य त्वमस्याः पतिरेव च । तस्यैव कर्मकारोऽभूच्छूद्रः सेवनतत्परः ।। ४९.
स वैश्योऽश्वयुजे मासि द्वादश्यां नियतः स्थितः । स्वयं विष्ण्वालयं गत्वा पुष्पधूपादिभिर्हरिम् ।। ४९.
अभ्यर्च्य स्वगृहं प्रायाद् भवन्तौ रक्षपालकौ । स्थाप्य द्वावपि दीपानां ज्वलनार्थं महामते ।। ४९.
गते वैश्ये भवन्तौथ दीपान् प्रज्वाल्य संस्थितौ । यावत् प्रभाता रजनी निशामेकां नरोत्तम ।। ४९.
ततः काले मृतौ तौ तु उभौ द्वावपि दम्पती । तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ।। ४९.
इयं तु पत्नी ते जाता पुरा वैश्यस्य दासिका । पारक्यस्यापि दीपस्य ज्वालितस्य हरेर्गृहे ।। ४९.
यः पुनः स्वेन वित्तेन विष्णोरग्रे प्रदीपकम् । ज्वालयेत् तस्य यत् पुण्यं तत् संख्यातुं न शक्यते । तेन साधो हरे साधु इत्युक्तं वचनं मया ।। ४९.
कृते संवत्सरे भक्तिं हरेः कृत्वा विचक्षणः । संवत्सरार्धं त्रेतायां सममेतन्न संशयः ।। ४९.
त्रिमासे द्वापरे भक्त्या पूजयँल्लभते फलम् । नमो नारायणायेत्युक्त्वा कलौ तु लभते फलम् । तेन मुष्टं जगद् विष्णोर्भक्तिमात्रं मयेरितम् ।। ४९.
पारक्यदीपस्योत्कर्षाद् वै देवाग्रे फलमीदृशम् । प्राप्तं फलं त्वया राजन् फलमेतन् मयेरितम् । अहो मूढा न जानन्ति हरेर्दीपक्रियाफलम् ।। ४९.
एवं विधं द्विजा ये च राजानो ये च भक्तितः । यजन्ते विविधैर्यज्ञैस्तेन ते साधवः स्मृताः ।। ४९.