सितवस्त्रयुगच्छन्नं गन्धपुष्पोपशोभितम् । कृत्वा प्रभाते विप्राय प्रदेयं शास्त्रवित्तमे । एवं कृते भवेद् यस्तु तन्निबोध महामुने ।। ४८.
पूर्वं राजा विशालोऽभूत् काश्यां पुर्यां महाबलः । गोत्रजैर्हृतराज्योऽसौ गन्धमादनमाविशत् ।। ४८.
तस्य द्रोण्यां महाराज बदरीं प्राप्य शोभनाम् । हृतराज्यो विशेषेण गतश्रीको नरोत्तमः ।। ४८.
कदाचिदागतौ तत्र पुराणावृषिसत्तमौ । नरनारायणौ देवौ सर्वदेवनमस्कृतौ ।। ४८.
तौ दृष्ट्वा तत्र राजानं पूर्वागतमरिंदमौ । ध्यायन्तं परमं ब्रह्म विष्ण्वाख्यं परमं पदम् ।। ४८.
तौ प्रीतावूचतुस्तं तु राजानं क्षीणकल्मषम् । वरं वृणीष्व राजेन्द्र वरदौ स्वस्तवागतौ ।। ४८.
राजोवाच । भवन्तौ कौ न जानामि कस्य गृह्णाम्यहं वरम् । आराधयामि यत् तस्माद् वरमिच्छामि शोभनम् ।। ४८.
एवमुक्तौ तु तौ राज्ञा कमाराधयसे प्रभो । कं वा वरं वृणुष्व त्वं कथयस्व कुतूहलात् ।। ४८.
एवमुक्तस्ततो राजा विष्णुमाराधयाम्यहम् । कथयित्वा स्थितस्तूष्णीं ततस्तावूचतुः पुनः ।। ४८.
राजन् तस्यैव देवस्य प्रसादादावयोर्वरः । दातव्यस्ते वरं ब्रूहि कस्ते मनसि वर्त्तते ।। ४८.
राजोवाच । यथा यज्ञेश्वरं देवं यज्ञैर्विविधदक्षिणैः । यष्टुं समर्थता मे स्यात् तथा मे ददतं वरम् ।। ४८.
नर उवाच । स्वयं नारायणो देवो लोकमार्गप्रदर्शकः । मया सह तपः कुर्याद् बदर्यां लोकभावनः ।। ४८.
अयं मत्स्योऽभवत् पूर्वं पुनः कूर्म्मस्वरूपवान् । वराहश्चाभवद् देवो नरसिंहस्ततोऽभवत् ।। ४८.
वामनस्तु ततो जातो जामदग्न्यो महाबलः । पुनर्दाशरथिर्भूत्वा वासुदेवः पुनर्बभौ ।। ४८.
बुद्धो भूत्वा जनं ह्येष मोहयामास पार्थिव । सपत्नान् दस्यवो म्लेच्छान् पुनर्हत्वा महीमिमाम् । प्रकृतिस्थां चकारायं स एष भगवान् हरिः ।। ४८.
पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः । स्ववंशोद्धरणार्थाय कूर्मरूपी तु पूज्यते ।। ४८.
भवोदधिनिमग्नेन वाराहः पूज्यते हरिः । नारसिंहेण रूपेण तद्वत् पापभयान्नरैः ।। ४८.
वामनं मोहनाशाय वित्तार्थे जगदग्निजम् । क्रूरशत्रुविनाशाय यजेद् दाशरथिं बुधः ।। ४८.
बलकृष्णौ यजेद् धीमान् पुत्रकामो न संशयः । रूपकामो यजेद् बुद्धं कल्किनं शत्रुघातने ।। ४८.
एवमुक्त्वा नरस्तस्य इमामेवाब्रवीन्मुनिः । द्वादशीं कृतवान् सोऽपि चक्रवर्ती बभूव ह । तस्यैव नाम्ना बदरी विशालाख्याऽभवन्मुने ।। ४८.
इह जन्मनि राजाऽसौ राज्यं कृत्वा इयाद् वनम् । यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ।। ४८.
दुर्वासा उवाच । तद्वदाश्वयुजे मासि द्वादशीं शुक्लपक्षतः । संकल्प्याभ्यर्चयेद् देवं पद्मनाभं सनातनम् ।। ४९.
पद्मनाभाय पादौ तु कटिं वै पद्मयोनये । उदरं सर्वदेवाय पुष्कराक्षाय वै उरः । अव्ययाय तथा पाणिं प्राग्वदस्त्राणि पूजयेत् ।। ४९.
प्रभवाय शिरः पूज्य प्राग्वदग्रे घटं न्यसेत् । तस्मिन् सौवर्णकं देवं पद्मनाभं तु विन्यसेत् ।। ४९.
तमेव देवं संपूज्य गन्धपुष्पादिभिः क्रमात् । प्रभातायां तु शर्वर्यां ब्राह्मणाय निवेदयेत् । एवं कृते तु यत् पुण्यं तन्निबोध महामुने ।। ४९.
आसीत् कृतयुगे राजा भद्राश्वो नाम वीर्यवान् । यस्य नाम्नाऽभवद् वर्षं भद्राश्वं नाम नामतः ।। ४९.
तस्यागस्त्यः कदाचित् तु गृहमागत्य सत्तम । उवाच सप्तरात्रं तु वसामि भवतो गृहे ।। ४९.
तं राजा शिरसा भूत्वा स्थीयतामित्यभाषत । तस्य कान्तिमती नाम भार्या परमशोभना ।। ४९.
तस्यास्तेजः समभवद् द्वादशादित्यसंनिभम् । शतानि पञ्च तस्यासन् सपत्नीनां यतव्रत ।। ४९.
ता दास्य इव कर्माणि कुर्वन्त्यहरहः शुभाः । कान्तिमत्या महाभाग भयात् त्रस्ता विचेतसः ।। ४९.