दस्यून् निहत्य सा देवी तस्य राज्ञस्तनुं पुनः । प्रविशन्त्याशु राजाऽपि प्रतिबुद्धोऽथ दृष्टवान् । म्लेच्छांस्तु निहतान् दृष्ट्वा सा स्वमूर्त्तिलयं गता ।। ४७.
अश्वमारुह्य स पुनर्वामदेवाश्रमं ययौ । तत्रापृच्छद् ऋषिं भक्त्या का स्त्री के ते निपातिताः । एतत् कार्यमृषे मह्यं कथयस्व प्रसीद मे ।। ४७.
वामदेव उवाच । त्वमासीच्छूद्रजातीय अन्यजन्मनि पार्थिव । तत्र त्वया ब्राह्मणस्य प्रेषणं कुर्वता श्रुता । श्रावणस्य तु मासस्य शुक्लपक्षे तु द्वादशी ।। ४७.
सविधानात् त्वया राजन् भक्त्या वै समुपोषिता । उपोषितायां तस्यां तु राज्यं लब्धं त्वयाऽनघ ।। ४७.
सर्वापत्सु च सा देवी भवन्तं परिरक्षति । यया विनिहताः क्रूरा म्लेच्छाः पापसमन्विताः । भवांश्च रक्षितो राजन् श्रावणद्वादशी तु सा ।। ४७.
एकैव पाति चापत्सु राज्यमेकैव यच्छति । किं पुनर्द्वादशैतास्तु येनैन्द्रं न ददुः पदम् ।। ४७.
दुर्वासा उवाच । तद्वद् भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् । संकल्प्य विधिना देवमर्च्चयेत् परमेश्वरम् ।। ४८.
नमोऽस्तु कल्किने पादौ हृषीकेशाय वै कटिम् । म्लेच्छविध्वंसनायेति जगन्मूर्त्ते तथोदरम् ।। ४८.
शितिकण्ठाय कण्ठं तु खड्गपाणेति वै भुजौ । चतुर्भुजायेति हस्तौ विश्वमूर्त्ते तथा शिरः ।। ४८.
एवमभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् । विन्यसेत् कल्किनं देवं सौवर्णं तत्र कारयेत् ।। ४८.
सितवस्त्रयुगच्छन्नं गन्धपुष्पोपशोभितम् । कृत्वा प्रभाते विप्राय प्रदेयं शास्त्रवित्तमे । एवं कृते भवेद् यस्तु तन्निबोध महामुने ।। ४८.
पूर्वं राजा विशालोऽभूत् काश्यां पुर्यां महाबलः । गोत्रजैर्हृतराज्योऽसौ गन्धमादनमाविशत् ।। ४८.
तस्य द्रोण्यां महाराज बदरीं प्राप्य शोभनाम् । हृतराज्यो विशेषेण गतश्रीको नरोत्तमः ।। ४८.
कदाचिदागतौ तत्र पुराणावृषिसत्तमौ । नरनारायणौ देवौ सर्वदेवनमस्कृतौ ।। ४८.
तौ दृष्ट्वा तत्र राजानं पूर्वागतमरिंदमौ । ध्यायन्तं परमं ब्रह्म विष्ण्वाख्यं परमं पदम् ।। ४८.
तौ प्रीतावूचतुस्तं तु राजानं क्षीणकल्मषम् । वरं वृणीष्व राजेन्द्र वरदौ स्वस्तवागतौ ।। ४८.
राजोवाच । भवन्तौ कौ न जानामि कस्य गृह्णाम्यहं वरम् । आराधयामि यत् तस्माद् वरमिच्छामि शोभनम् ।। ४८.
एवमुक्तौ तु तौ राज्ञा कमाराधयसे प्रभो । कं वा वरं वृणुष्व त्वं कथयस्व कुतूहलात् ।। ४८.
एवमुक्तस्ततो राजा विष्णुमाराधयाम्यहम् । कथयित्वा स्थितस्तूष्णीं ततस्तावूचतुः पुनः ।। ४८.
राजन् तस्यैव देवस्य प्रसादादावयोर्वरः । दातव्यस्ते वरं ब्रूहि कस्ते मनसि वर्त्तते ।। ४८.
राजोवाच । यथा यज्ञेश्वरं देवं यज्ञैर्विविधदक्षिणैः । यष्टुं समर्थता मे स्यात् तथा मे ददतं वरम् ।। ४८.
नर उवाच । स्वयं नारायणो देवो लोकमार्गप्रदर्शकः । मया सह तपः कुर्याद् बदर्यां लोकभावनः ।। ४८.
अयं मत्स्योऽभवत् पूर्वं पुनः कूर्म्मस्वरूपवान् । वराहश्चाभवद् देवो नरसिंहस्ततोऽभवत् ।। ४८.
वामनस्तु ततो जातो जामदग्न्यो महाबलः । पुनर्दाशरथिर्भूत्वा वासुदेवः पुनर्बभौ ।। ४८.
बुद्धो भूत्वा जनं ह्येष मोहयामास पार्थिव । सपत्नान् दस्यवो म्लेच्छान् पुनर्हत्वा महीमिमाम् । प्रकृतिस्थां चकारायं स एष भगवान् हरिः ।। ४८.
पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः । स्ववंशोद्धरणार्थाय कूर्मरूपी तु पूज्यते ।। ४८.
भवोदधिनिमग्नेन वाराहः पूज्यते हरिः । नारसिंहेण रूपेण तद्वत् पापभयान्नरैः ।। ४८.
वामनं मोहनाशाय वित्तार्थे जगदग्निजम् । क्रूरशत्रुविनाशाय यजेद् दाशरथिं बुधः ।। ४८.
बलकृष्णौ यजेद् धीमान् पुत्रकामो न संशयः । रूपकामो यजेद् बुद्धं कल्किनं शत्रुघातने ।। ४८.
एवमुक्त्वा नरस्तस्य इमामेवाब्रवीन्मुनिः । द्वादशीं कृतवान् सोऽपि चक्रवर्ती बभूव ह । तस्यैव नाम्ना बदरी विशालाख्याऽभवन्मुने ।। ४८.