वासुदेवाय पादौ तु कटिं संकर्षणाय च । प्रद्युम्नायेति जठरं अनिरुद्धाय वै उरः ।। ४६.
चक्रपाणयेति भुजौ कण्ठं भूपतये तथा । स्वनाम्ना शङ्खचक्रौ तु पुरुषायेति वै शिरः ।। ४६.
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् । विन्यस्य वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् । काञ्चनं वासुदेवं तु चतुर्व्यूहं सनातनम् ।। ४६.
तमभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् । प्राग्वत् तं ब्राह्मणे दद्याद् वेदवादिनि सुव्रते । एवं नियमयुक्तस्य यत्पुण्यं तच्छृणुष्व मे ।। ४६.
वसुदेवोऽभवद् राजा यदुवंशविवर्द्धनः । देवकी तस्य भार्या तु समानव्रतधारिणी ।। ४६.
सा त्वपुत्राऽभवत् साध्वी पतिधर्मपरायणा । तस्य कालेन महता नारदोऽभ्यगमद् गृहम् ।। ४६.
वसुदेवेनासौ भक्त्या पूजितो वाक्यमब्रवीत् । वसुदेव श्रुणुष्व त्वं देवकार्यं ममानघ । श्रुत्वैतां च कथां शीघ्रमागतोऽस्मि तवान्तिकम् ।। ४६.
पृथिवी देवसमितौ मया दृष्टा यदूत्तम । गत्वा च जल्पती भारं न शक्ता ऊहितुं सुराः ।। ४६.
सौभकंसजरासन्धाः पुनर्नरक एव च । कुरुपाञ्चालभोजाश्च बलिनो दानवाः सुराः । पीडयन्ति समेता मां तान् हनध्वं सुरोत्तमाः ।। ४६.
एवमुक्ताः पृथिव्या ते देवा नारायणं गताः । मनसा स च देवेशः प्रत्यक्षस्तत् क्षणात् बभौ ।। ४६.
उवाच च सुरश्रेष्ठः स्वयं कार्यमिदं सुराः । साधयामि न सन्देहो मर्त्यं गत्वा मनुष्यवत् ।। ४६.
किंत्वाषाढे शुक्लपक्षे या नारी सह भर्त्तृणा । उपोष्यति मनुष्येषु तस्या गर्भे भवाम्यहम् ।। ४६.
एवमुक्त्वा गतो देवः स्वयं चाहमिहागतः । उपदिष्टं तु भवतो अपुत्रस्य विशेषतः । उपोष्य लभते पुत्रं सहभार्यो न संशयः ।। ४६.
एतां च द्वादशीं कृत्वा वसुदेवस्तथाप्तवान् । महतीं च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः ।। ४६.
भुक्त्वा राज्यश्रियं सोऽथ गतः परमिकां गतिम् । एष ते विधिरुद्दिष्ट आषाढे मासि वै मुने ।। ४६.
दुर्वासा उवाच । श्रावणस्य तु मासस्य शुक्लपक्षे तु द्वादशी । अर्चयेत् परमं देवं गन्धपुष्पैर्जनार्नम् ।। ४७.
दामोदराय पादौ तु हृषीकेशाय वै कटिम् । सनातनेति जठरमुरः श्रीवत्सधारिणे ।। ४७.
चक्रपाणयेति भुजौ कण्ठं च हरये तथा । मुञ्जकेशाय च शिरो भद्रायेति शिखां तथा ।। ४७.
एवं संपूज्य संस्थाप्य कुम्भं पूर्ववदेव तु । विन्यस्य वस्त्रयुग्मं तु तस्योपरि ततो न्यसेत् ।। ४७.
काञ्चनं देवदेवं तु दामोदरसनामकम् । तमभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् ।। ४७.
प्राग्वत् तं ब्राह्मणे दद्याद् वेदवेदाङ्गपारगे । एवं नियमयुक्तस्य प्रभावं तच्छृणुष्व मे ।। ४७.
एष ते विधिरुद्दिष्टः श्रावणे मासि वै विभो । एतस्याश्च प्रभावं यत् श्रृणु पापप्रणाशनम् ।। ४७.
पुरा कृतयुगे राजा नृगो नाम महाबलः । बभ्राम स वनं घोरं मृगयासक्तमानसः ।। ४७.
स कदाचित् तुरङ्गेण हृतो दूरं महद्वनम् । व्याघ्रसिंहगजाकीर्णं दस्युसर्पनिषेवितम् ।। ४७.
एकाकी तत्र राजा तु अश्वं मुच्य तरोरधः । स्वयं कुशमथास्तीर्य सुप्तो दुःखसमन्वितः ।। ४७.
तावत् तत्रैव लुब्धानां सहस्त्राणि चतुर्दश । आगतानि मृगान् हन्तुं रात्रौ राज्ञः समन्ततः ।। ४७.
तत्रापश्यन्त ते सुप्तं हेमरत्नविभूषितम् । नृगं राजानमत्युग्रं श्रिया परमया युतम् ।। ४७.
ते गत्वा त्वरितं व्याधाः स्वभर्त्रे संन्यवेदयन् । सोऽपि रत्नसुवर्णार्थं राजानं हन्तुमुद्यतः ।। ४७.
तुरगस्य च हेतोस्तु निस्त्रिंशा वनचारिणः । राजानं सुप्तमासाद्य निगृहीतुं प्रचक्रमुः ।। ४७.
तावद् राज्ञः शरीरात् तु श्वेताभरणभूषिता । नारी काचित् समुत्तस्थौ स्त्रक्चन्दनविभूषिता । उत्थाय चक्रमादाय ते म्लेच्छा विनिपातिताः ।। ४७.