मन्त्रिणां भृत्यसङ्घस्य सुराद्या ये प्रदर्शिताः । पशवः कीटसङ्घाश्च तेऽपि विष्णुमया नृप ।। ४.
भावनां तु दृढां कुर्याद् यथा सर्वगतो हरिः । नान्यत् तत् सदृशं भूतमिति भावेन सेव्यते ।। ४.
एष ते ज्ञानसद्भावस्तव राजन् प्रकीर्तितः । परिपूर्णेन भावेन स्मरन् नारायणं हरिम् ।। ४.
परिपूर्णेन बावेन स्मर नारायणं गुरुम् । पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः । ध्यानेन सुस्थितेनाशु प्राप्यते परमेश्वरः ।। ४.
अश्वशिरा उवाच । भवन्तौ मम संदेहमेकं छेत्तुमिहार्हतः । येन छिन्नेन जायेत मम संसारविच्युतिः ।। ५.
एवमुक्ते नृपतिना तदा योगिवरो मुनिः । कपिलः प्राह धर्मात्मा राजानं यजतां वरम् ।। ५.
कपिल उवाच । कस्ते मनसि संदेहो राजन् परमधार्मिक । छिन्दामि येन तच्छ्रुत्वा ब्रूहि यत्तेऽभिवाञ्छितम् ।। ५.
राजोवाच । कर्मणा प्राप्यते मोक्ष उताहो ज्ञानिना मुने । एतन्मे संशयं छिन्धि यदि मेऽनुग्रहः कृतः ।। ५.
कपिल उवाच । इमं प्रश्नं महाराज पुरा पृष्टो बृहस्पतिः । रैभ्येण ब्रह्मपुत्रेण राज्ञा च वसुना पुरा । वसुरासीन्नृपश्रेष्ठो विद्वान् दानपतिः पुरा ।। ५.
चाक्षुषस्य मनोः काले ब्रह्मणोऽन्वयवर्द्धनः । वसुश्च ब्रह्मणः सद्म गतवांस्तद्दिदृक्षया ।। ५.
पथि चैत्ररथं दृष्ट्वा विद्याधरवरं नृप । अपृच्छच्च वसुः प्रीत्या ब्रह्मणोऽवसरं प्रभो ।। ५.
सोऽब्रवीद् देवसमितिर्वर्तते ब्रह्मणो गृहे । एवं श्रुत्वा वसुस्तस्थौ द्वारि ब्रह्मौकसस्तदा । तावत् तत्रैव रैभ्यस्तु आजगाम महातपाः ।। ५.
स राजा प्रीतमनसा वसुः संपूर्णमानसः । उवाच पूजयित्वाग्रे क्व प्रयातोऽसि वै मुने ।। ५.
रैभ्य उवाच । अहं बृहस्पतेः पार्श्वे आगतोऽस्मि महानृप । किञ्चित्कार्यान्तरं प्रष्टुमहं देवपुरोहितम् ।। ५.
एवं वदति रैभ्ये तु ब्रह्मणस्तन्महत्सदः । उत्तस्थौ स्वानि धिष्ण्यानि गता देवगणाः प्रभो ।। ५.
तावद् बृहस्पतिस्तत्र रैभ्येण सह संविदम् । कृत्वा स्वधिष्ण्यमगमद् वसुना च सुपूजितः ।। ५.
रैभ्य आङ्गिरसो राजा वसुश्चोपविवेश ह । उपविष्टेषु राजेन्द्र तेषु तेष्वपि सोऽब्रवीत् ।। ५.
बृहस्पतिर्देवगुरू रैभ्यं वचनमन्तिके । किं करोमि महाभाग वेदवेदाङ्गपारग ।। ५.
रैभ्य उवाच । बृहस्पते कर्मणा किं प्राप्यते ज्ञानिनाऽथवा । मोक्ष एतन्ममाचक्ष्व पृच्छतः संशयं प्रभो ।। ५.
बृहस्पतिरुवाच । यत्किंचित् कुरुते कर्म पुरुषः साध्वसाधु वा । सर्वं नारायणे न्यस्य कुर्वन् नैव च लिप्यते ।। ५.
श्रूयते च द्विजश्रेष्ठ संवादो विप्रलुब्धयोः । आत्रेयो ब्राह्मणः कश्चिद् वेदाभ्यासरतो मुनिः ।। ५.
वसत्यविरतं प्रातःस्नायी त्रिषवणे रतः । नाम्ना संयमनः पूर्वमेकस्मिन् दिवसे नदीम् । धर्मारण्ये गतः स्नातुं धन्यां भागीरथीं शुभाम् ।। ५.
तत्रासीनं महायूथं हरिणानां विचक्षणः । लुब्धो निष्ठुरको नाम धनुःपाणिः कृतान्तवत् । आययौ तं जिघांसुः स धनुष्यायोज्य सायकम् ।। ५.
ततः संयमनो विप्रो दृष्ट्वा तं मृगयारतम् । वारयामास मा भद्र जीवघातमिमं कुरु ।। ५.
एतच्छ्रुत्वा वचो व्याधः स्मितपूर्वमिदं वचः । उवाच नाहं हिंसामि पृथग्जीवं द्विजोत्तम ।। ५.
परमात्मा त्वयं भूतैः क्रीडते भगवान् स्वयम् । कृता मृदा बलीवर्द्दास्तद्वदेतन्न संशयः ।। ५.
अहे भावः सदा ब्रह्मन्नविद्येयं मुमुक्षुणाम् । यात्राप्राणरतं सर्वं जगदेतद् विचेष्टितम् । तत्राहमिति यः शब्दः स साधुत्वं न गच्छति ।। ५.
इत्याकर्ण्य स विप्रेन्द्रो द्विजः संयमनस्तदा । विस्मयेनाब्रवीद् वाक्यं लुब्धं निष्ठुरकं द्विजः ।। ५.
किमेतदुच्यते भद्र प्रत्यक्षं हेतुमद्वचः । ततः श्रुत्वा मुनेर्विप्रं लुब्धकः प्राह धर्मवित् । कुत्वा लोहमयं जालं तस्याधो ज्वलनं ददौ ।। ५.
दत्त्वा वह्निं द्विजं प्राह ज्वाल्यतां काष्ठसचयः । ततो विप्रो मुखेनाग्निं प्रज्वाल्य विरराम ह ।। ५.