तमायान्तमथो दृष्ट्वा ऋषिं परमवर्चसम् । कृताञ्जलिपुटो भूत्वा राजाभ्युत्थानमाकरोत् ।। ४४.
स पूजितो मुनिः प्राह किमर्थं तप्यते तपः । राजन् कथय धर्मज्ञ किं ते कार्यं विवक्षितम् ।। ४४.
राजोवाच । अपुत्रोऽहं महाभाग नास्ति मे पुत्रसंततिः । तेन मे तप आंस्थाय कृष्यते स्वतनुर्द्विज ।। ४४.
याज्ञवल्क्य उवाच । अलं ते तपसाऽनेन महाक्लेशेन पार्थिव । अल्पायासेन ते पुत्रो भविष्यति न संशयः ।। ४४.
राजोवाच । कथं मे भविता पुत्रो अल्पायासेन वै द्विज । एतन्मे कथय प्रीतो भगवन् प्रणतस्य ह ।। ४४.
दुर्वासा उवाच । एवमुक्तो मुनिस्तेन पार्थिवेन यशस्विना । आचख्यौ द्वादशीं चेमां वैशाखे सितपक्षजाम् ।। ४४.
स हि राजा विधानेन पुत्रकामो विशेषतः । उपोष्य लब्धवान् पुत्रं नलं परमधार्मिकम् । योऽद्यापि कीर्त्यते लोके पुण्यश्लोको नरोत्तमः ।। ४४.
प्रासङ्गिकं फलं ह्येतद् गतस्यास्य महामुने । सुपुत्रो जायते वित्तविद्यावान् कान्तिरुत्तमा ।। ४४.
इह जन्मनि किं चित्रं परलोके श्रृणुष्व मे । कल्पमेकं ब्रह्मलोके वसित्वाऽप्सरसां गणैः ।। ४४.
क्रीडत्यन्ते पुनः सृष्टौ चक्रवर्ती भवेद् ध्रुवम् । त्रिंशत्यब्दसहस्त्राणि जीवते नात्र संशयः ।। ४४.
दुर्वासा उवाच । ज्येष्ठमासेऽप्येवमेवं संकल्प्य विधिना नरः । अर्चयेत् परमं देवं पुष्पैर्नानाविधैः शुभैः ।। ४५.
नमो रामाभिरामाय पादौ पूर्वं समर्चयेत् । त्रिविक्रमायेति कटिं धृतविश्वाय चोदरम् ।। ४५.
उरः संवत्सरायेति कण्ठं संवर्त्तकाय च । सर्वास्त्रधारिणे बाहू स्वनाम्नाऽब्जरथाङ्गकौ ।। ४५.
सहस्त्रशिरसेऽभ्यर्च्य शिरस्तस्य महात्मनः । एवमभ्यर्च्य विधिवत् प्रागुक्तं कुम्भं विन्यसेत् ।। ४५.
प्राग्वद् वस्त्रयुगच्छन्नौ सौवर्णौ रामलक्ष्मणौ । अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय तौ । दातव्यौ मनसा काममीहता पुरुषेण तु ।। ४५.
अपुत्रेण पुरा पृष्टो राज्ञा दशरथेन च । पुत्रकामपरः पश्चाद् वसिष्ठः परमार्चितः ।। ४५.
इदमेव विधानं तु कथयामास स द्विजः । प्राग्रहस्यं विदित्वा तु स राजा कृतवानिदम् ।। ४५.
तस्य पुत्रः स्वयं जज्ञे रामनामा सुतो बली । चतुर्द्धा सोऽव्ययो विष्णुः परितुष्टो महामुने । एतदैहिकमाख्यातं पारत्रिकमतः श्रृणु ।। ४५.
तावद् भोगान् भुञ्जते स्वर्गसंस्थो यावदिन्द्रा दश च द्विद्विसंख्या । अतीतकाले पुनरेत्य मर्त्त्यो भवेत राजा शतयज्ञयाजी । नश्यन्ति पापानि च तस्य पुंसः प्राप्नोति निर्वाणमलं च शाश्वतम् ।। ४५.
दुर्वासा उवाच । आषाढेऽप्येवमेवं तु संकल्प्य विधिना नरः । अर्चयेत् परमं देवं गन्धपुष्पैरनेकशः ।। ४६.
वासुदेवाय पादौ तु कटिं संकर्षणाय च । प्रद्युम्नायेति जठरं अनिरुद्धाय वै उरः ।। ४६.
चक्रपाणयेति भुजौ कण्ठं भूपतये तथा । स्वनाम्ना शङ्खचक्रौ तु पुरुषायेति वै शिरः ।। ४६.
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् । विन्यस्य वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् । काञ्चनं वासुदेवं तु चतुर्व्यूहं सनातनम् ।। ४६.
तमभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् । प्राग्वत् तं ब्राह्मणे दद्याद् वेदवादिनि सुव्रते । एवं नियमयुक्तस्य यत्पुण्यं तच्छृणुष्व मे ।। ४६.
वसुदेवोऽभवद् राजा यदुवंशविवर्द्धनः । देवकी तस्य भार्या तु समानव्रतधारिणी ।। ४६.
सा त्वपुत्राऽभवत् साध्वी पतिधर्मपरायणा । तस्य कालेन महता नारदोऽभ्यगमद् गृहम् ।। ४६.
वसुदेवेनासौ भक्त्या पूजितो वाक्यमब्रवीत् । वसुदेव श्रुणुष्व त्वं देवकार्यं ममानघ । श्रुत्वैतां च कथां शीघ्रमागतोऽस्मि तवान्तिकम् ।। ४६.
पृथिवी देवसमितौ मया दृष्टा यदूत्तम । गत्वा च जल्पती भारं न शक्ता ऊहितुं सुराः ।। ४६.
सौभकंसजरासन्धाः पुनर्नरक एव च । कुरुपाञ्चालभोजाश्च बलिनो दानवाः सुराः । पीडयन्ति समेता मां तान् हनध्वं सुरोत्तमाः ।। ४६.
एवमुक्ताः पृथिव्या ते देवा नारायणं गताः । मनसा स च देवेशः प्रत्यक्षस्तत् क्षणात् बभौ ।। ४६.