एवमुक्तो वसिष्ठस्तु तस्येमां द्वादशीं मुने । विधिना प्रत्युवाचाथ सोऽपि सर्वं तथाऽकरोत् ।। ४२.
तस्य व्रतान्ते भगवान् नारसिंहस्तुतोष ह । चक्रं प्रादाच्च शत्रूणां विध्वंसनकरं परम् ।। ४२.
तेनास्त्रेण स्वकं राज्यं जितवान् स नृपोत्तमः । राज्ये स्थित्वाऽश्वमेधानां सहस्त्रमकरोद् विभुः । अन्ते च विष्णुलोकाख्यं पदमाप च सत्तम ।। ४२.
एषा धन्या पापहरा द्वादशी भवतो मुने । कथिता या प्रयत्नेन श्रुत्वा कुरु यथेप्सितम् ।। ४२.
दुर्वासा उवाच । एवमेव मुने मासि चैत्रे संकल्प्य द्वादशीम् । उपोष्याराधयेत् पश्चात् देवदेवं जनार्दनम् ।। ४३.
वामनायेति पादौ तु विष्णवे कटिमर्चयेत् । वासुदेवेति जठरमुरः संपूर्णकाय च ।। ४३.
कण्ठं विश्वकृते पूज्य शिरो वै व्योमरूपिणे । बाहू विश्वजिते पूज्य स्वनाम्ना शंखचक्रकौ ।। ४३.
अनेन विधिनाभ्यर्च्य देवदेवं सनातनम् । प्राग्वदेवोत्तरं कुम्भं सयुग्मं पुरतो न्यसेत् ।। ४३.
प्रागुक्तपात्रे संस्थाप्य वामनं काञ्चनं बुधः । यथाशक्त्या कृतं ह्रस्वं सितयज्ञोपवीतिनम् ।। ४३.
कुण्डिकां स्थापयेत् पार्श्वे छत्रिकां पादुके तथा । अक्षमालां च संस्थाप्य वृसिकां च विशेषतः ।। ४३.
एतैरुपस्करैर्युक्तं प्रभाते स द्विजातये । दापयेत् प्रीयतां विष्णुर्ह्रस्वरूपीत्युदीरयेत् ।। ४३.
मासनाम्ना तु संयुक्तं प्रादुर्भावविधानकम् । प्रीयतामिति सर्वत्र विधिरेष प्रकीर्तितः ।। ४३.
श्रूयते च पुरा राजा हर्यश्वः पृथिवीपतिः । अपुत्रः स तपस्तेपे पुत्रमिच्छंस्तपोधनम् ।। ४३.
तस्यैव कुर्वतो व्युष्टिं पुत्रार्थे मुनिसत्तम । आजगाम हरिः पूर्वं द्विजरूपं समाश्रितः ।। ४३.
उवाच तपसा राजन् किं ते व्यवसितं प्रभो । पुत्रार्थमिति प्रोवाच तं विप्रः प्रत्युवाच ह ।। ४३.
इदमेव विधानं तु कुरु राजन्नुवाच ह । एवमुक्त्वा तु राजानं क्षणादन्तर्हितः प्रभुः ।। ४३.
राजाऽपि तं चकाराशु मन्त्रवन्तं द्विजातये । दरिद्राय तथा प्रादात् ज्योतिर्गार्गाय धीमते ।। ४३.
यथादितेरपुत्रायाः स्वयं पुत्रत्वमागतः । भगवंस्तेन सत्येन ममाप्यस्तु सुतो वरः ।। ४३.
अनेन विधिना दत्ते तस्य पुत्रोऽभवन्मुने । कुवलाश्व इति ख्यातश्चक्रवर्ती महाबलः ।। ४३.
अपुत्रो लभते पुत्रमधनो लभते धनम् । भ्रष्टराज्यो लभेद् राज्यं मृतो विष्णुपुरं व्रजेत् ।। ४३.
कीर्त्तित्वा सुचिरं तत्र इह मर्त्यमुपागतः । चक्रवर्ती भवेद् धीमान् ययातिरिव नाहुषः ।। ४३.
दुर्वास उवाच । वैशाखेऽप्येवमेवं तु संकल्प्य विधिना नरः । तद्वत् स्नानादिकं कृत्वा ततो देवालयं व्रजेत् ।। ४४.
तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः । जामदग्न्याय पादौ तु उदरं सर्वधारिणे । मधुसूदनायेति कटिमुरः श्रीवत्सधारिणे ।। ४४.
क्षत्रान्तकाय च भुजौ मणिकण्ठाय कण्ठकम् । स्वनाम्ना शङ्खचक्रौ तु शिरो ब्रह्माण्डधारिणे ।। ४४.
एवमभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् । विन्यस्य स्थगितं तद्वद् वस्त्रयुग्मेन वेष्टितम् ।। ४४.
वैणवेन तु पात्रेण तस्मिन् संस्थापयेद्धरिम् । जामदग्न्येति विख्यातं नाम्ना क्लेशविनाशनम् ।। ४४.
दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत् । सर्वगन्धैश्च संपूज्य पुष्पैर्नानाविधैः शुभैः ।। ४४.
ततस्तस्याग्रतः कुर्याज्जागरं भक्तिमान्नरः । प्रभाते विमले सूर्ये ब्राह्मणाय निवेदयेत् । एवं नियमयुक्तस्य यत्फलं तन्निबोध मे ।। ४४.
आसीद् राजा महाभागो वीरसेनो महाबलः । अपुत्रः स पुरा तीव्रं तपस्तेपे महौजसा ।। ४४.
चरतस्तत्तपो घोरं याज्ञवल्क्यो महामुनिः । आजगाम महायोगी तं दृष्ट्वा नातिदूरतः ।। ४४.