दुर्वासा उवाच । तद्वत् फाल्गुनमासे तु शुक्लपक्षे तु द्वादशीम् । उपोष्य प्रोक्तविधिना हरिमाराधयेत् सुधीः ।। ४२.
नरसिंहाय पादौ तु गोविन्दायेत्युरू तथा । कटिं विश्वभुजे पूज्य अनिरुद्धेत्युरस्तथा ।। ४२.
कण्ठं तु शितिकण्ठाय पिङ्गकेशाय वै शिरः । असुरध्वंसनायेति चक्रं तोयात्मने तथा । शङ्खमित्येव संपूज्य गन्धपुष्पफलैस्तथा ।। ४२.
तदग्रे घटमादाय सितवस्त्रयुगान्वितम् । तस्योपरि नृसिहं तु सौवर्णं ताम्रभाजने । सौवर्ण शक्तितः कृत्वा दारुवंशमयेऽपि वा ।। ४२.
रत्नगर्भघटे स्थाप्य तं संपूज्य च मानवः । द्वादश्यां वेदविदुषे ब्राह्मणाय निवेदयेत् ।। ४२.
एवं कृते फलं प्राप्तं यत् पुरा पार्थिवेन तु । तस्याहं संप्रवक्ष्यामि वत्सनाम्ना महामुने ।। ४२.
आसीत् किंपुरुषे वर्षे राजा परमधार्मिकः । भारतेति च विख्यातस्तस्य वत्सः सुतोऽभवत् ।। ४२.
स शत्रुभिर्जितः संख्ये हृतकोशो द्विपादवान् । वनं प्रायात् सपत्नीको वसिष्ठस्याश्रमेऽवसत् ।। ४२.
कालेन गच्छता सोऽथ वसिष्ठेन महर्षिणा । किं कार्यमिति स प्रोक्तो वसस्यस्मिन् महाश्रमे ।। ४२.
राजोवाच । भगवन् हृतकोशोऽहं हृतराज्यो विशेषतः । शत्रुभिर्हतसंकल्पो भवन्तं शरणं गतः । उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ।। ४२.
एवमुक्तो वसिष्ठस्तु तस्येमां द्वादशीं मुने । विधिना प्रत्युवाचाथ सोऽपि सर्वं तथाऽकरोत् ।। ४२.
तस्य व्रतान्ते भगवान् नारसिंहस्तुतोष ह । चक्रं प्रादाच्च शत्रूणां विध्वंसनकरं परम् ।। ४२.
तेनास्त्रेण स्वकं राज्यं जितवान् स नृपोत्तमः । राज्ये स्थित्वाऽश्वमेधानां सहस्त्रमकरोद् विभुः । अन्ते च विष्णुलोकाख्यं पदमाप च सत्तम ।। ४२.
एषा धन्या पापहरा द्वादशी भवतो मुने । कथिता या प्रयत्नेन श्रुत्वा कुरु यथेप्सितम् ।। ४२.
दुर्वासा उवाच । एवमेव मुने मासि चैत्रे संकल्प्य द्वादशीम् । उपोष्याराधयेत् पश्चात् देवदेवं जनार्दनम् ।। ४३.
वामनायेति पादौ तु विष्णवे कटिमर्चयेत् । वासुदेवेति जठरमुरः संपूर्णकाय च ।। ४३.
कण्ठं विश्वकृते पूज्य शिरो वै व्योमरूपिणे । बाहू विश्वजिते पूज्य स्वनाम्ना शंखचक्रकौ ।। ४३.
अनेन विधिनाभ्यर्च्य देवदेवं सनातनम् । प्राग्वदेवोत्तरं कुम्भं सयुग्मं पुरतो न्यसेत् ।। ४३.
प्रागुक्तपात्रे संस्थाप्य वामनं काञ्चनं बुधः । यथाशक्त्या कृतं ह्रस्वं सितयज्ञोपवीतिनम् ।। ४३.
कुण्डिकां स्थापयेत् पार्श्वे छत्रिकां पादुके तथा । अक्षमालां च संस्थाप्य वृसिकां च विशेषतः ।। ४३.
एतैरुपस्करैर्युक्तं प्रभाते स द्विजातये । दापयेत् प्रीयतां विष्णुर्ह्रस्वरूपीत्युदीरयेत् ।। ४३.
मासनाम्ना तु संयुक्तं प्रादुर्भावविधानकम् । प्रीयतामिति सर्वत्र विधिरेष प्रकीर्तितः ।। ४३.
श्रूयते च पुरा राजा हर्यश्वः पृथिवीपतिः । अपुत्रः स तपस्तेपे पुत्रमिच्छंस्तपोधनम् ।। ४३.
तस्यैव कुर्वतो व्युष्टिं पुत्रार्थे मुनिसत्तम । आजगाम हरिः पूर्वं द्विजरूपं समाश्रितः ।। ४३.
उवाच तपसा राजन् किं ते व्यवसितं प्रभो । पुत्रार्थमिति प्रोवाच तं विप्रः प्रत्युवाच ह ।। ४३.
इदमेव विधानं तु कुरु राजन्नुवाच ह । एवमुक्त्वा तु राजानं क्षणादन्तर्हितः प्रभुः ।। ४३.
राजाऽपि तं चकाराशु मन्त्रवन्तं द्विजातये । दरिद्राय तथा प्रादात् ज्योतिर्गार्गाय धीमते ।। ४३.
यथादितेरपुत्रायाः स्वयं पुत्रत्वमागतः । भगवंस्तेन सत्येन ममाप्यस्तु सुतो वरः ।। ४३.
अनेन विधिना दत्ते तस्य पुत्रोऽभवन्मुने । कुवलाश्व इति ख्यातश्चक्रवर्ती महाबलः ।। ४३.
अपुत्रो लभते पुत्रमधनो लभते धनम् । भ्रष्टराज्यो लभेद् राज्यं मृतो विष्णुपुरं व्रजेत् ।। ४३.