देवं सकुम्भं तं दत्त्वा हरिं वाराहरूपिणम् । ब्राह्मणाय भवेद् यद्धि फलं तन्मे निशामय ।। ४१.
इह जन्मनि सौभाग्यं श्रीः कान्तिस्तुष्टिरेव च । दरिद्रो वित्तवान् सद्यः अपुत्रो लभते सुतम् । अलक्ष्मीर्नश्यते सद्यो लक्ष्मीः संविशते क्षणात् ।। ४१.
इह जन्मनि सौभाग्यं परलोके निशामय । अस्मिन्नर्थे पुरावृत्तमितिहासं पुरातनम् ।। ४१.
इह लोकेऽभवद् राजा वीरधन्वेति विश्रुतः । स कदाचिद् वनं प्रायान् मृगहेतोः परंतपः ।। ४१.
व्यापादयन् मृगगणान् तत्रर्षिवनमध्यगः । जघान मृगरूपान् सोऽज्ञानतो ब्राह्मणान् नृपः ।। ४१.
भ्रातरस्तत्र पञ्चाशन्मृगरूपेण संस्थिताः । संवर्तस्य सुता ब्रह्मन् वेदाध्ययनतत्पराः ।। ४१.
सत्यतपा उवाच । कारणं किं समाश्रित्य ते चक्रुर्मृगरूपताम् । एतन्मे कौतुकं ब्रह्मन् प्रणतस्य प्रसीद मे ।। ४१.
दुर्वासा उवाच । ते कदाचिद् वनं याता दृष्ट्वा हरिणपोतकान् । जातमात्रान् स्वमात्रा तु विहीनान् दृश्य सत्तम । एकैकं जगृहुस्ते हि ते मृताः स्कन्धसंस्थिताः ।। ४१.
ततस्ते दुःखिताः सर्वे ययुः पितरमन्तिकम् । ऊचुश्च वचनं चेदं मृगहिंसामृते मुने ।। ४१.
ऋषिपुत्रका ऊचुः । जातमात्रा मृगाः पञ्च अस्माभिर्निहता मुने । अकामतस्ततोऽस्माकं प्रायश्चित्तं विधीयताम् ।। ४१.
संवर्त्त उवाच । मत्पिता हिंसकस्त्वासीदहं तस्माद् विशेषतः । भवन्तः पापकर्माणः संजाता मम पुत्रकाः ।। ४१.
इदानीं मृगचर्माणि परिधाय यतव्रताः । चरघ्वं पञ्चवर्षाणि ततः शुद्धा भविष्यथ ।। ४१.
एवमुक्तास्तु ते पुत्रा मृगचर्मोपवीतिनः । वनं विविशुरव्यग्रा जपन्तो ब्रह्म शाश्वतम् ।। ४१.
तथा वर्षे व्यतिक्रान्ते वीरधन्वा महीपतिः । तत्राजगाम यस्मिंस्ते चरन्ति मृगरूपिणः ।। ४१.
ते चाप्येकतरोर्मूले मृगचर्म्मोपवीतिनः । जपन्तः संस्थितास्ते हि राज्ञा दृष्ट्वा मृगा इति । मत्वा विद्धास्तु युगपन्मृतास्ते ब्रह्मवादिनः ।। ४१.
तान् दृष्ट्वा तु मृतान् राजा ब्राह्मणान् संशितव्रतान् । भयेन वेपमानस्तु देवराताश्रमं ययौ । तत्रापृच्छद् ब्रह्मवध्या ममायाता महामुने ।। ४१.
आमूल्य तद् वधं वृत्तं कथयित्वा नराधिपः । भृशं शोकपरीतात्मा रुरोद भृशदुःखितः ।। ४१.
स ऋषिर्देवरातस्तु रुदन्तं नृपसत्तमम् । उवाच मा भैर्नृपते अपनेष्यामि पातकम् ।। ४१.
पाताले सुतलाख्ये च यथा धात्री निमज्जती । उद्धृता देवदेवेन विष्णुना क्रोडमूर्त्तिना ।। ४१.
तद्वद् भवन्तं राजेन्द्र ब्रह्मवध्यापरिप्लुतम् । उद्धरिष्यति देवोऽसौ स्वयमेव जनार्दनः ।। ४१.
एवमुक्तस्ततो राजा हर्षितो वाक्यमब्रवीत् । कतरेण प्रकारेण स मे देवः प्रसीदति । प्रसन्ने चाशुभं सर्वं येन नश्यति सत्तम ।। ४१.
दुर्वासा उवाच । एवमुक्तो मुनिस्तेन देवरात इमं व्रतम् । आचख्यौ सोऽपि तं कृत्वा भुक्त्वा भोगान्सुपुष्कलान् ।। ४१.
मुत्युकाले मुनिश्रेष्ठ सौवर्णेन विराजता । विमानेनागमत् स्वर्गमिन्द्रलोकं स पार्थिवः ।। ४१.
तस्येन्द्रस्त्वर्घ्यमादाय प्रत्युत्थानेन निर्ययौ । आयान्तमिन्द्रं दृष्ट्वा तु तमूचुर्विष्णुकिंकराः । न द्रष्टव्यो देवराजस्त्वद्धीनस्तपसा इति ।। ४१.
एवं सर्वे लोकपाला निर्ययुस्तस्य तेजसा । प्रत्याख्याताश्च तैर्विष्णुकिंकरैर्हीनकर्मणः । एवं स सत्यलोकान्तं गतो राजा महामुने ।। ४१.
अपुनर्मारके लोके दाहप्रलयवर्ज्जिते । अद्यापि तिष्ठते देवैः स्तूयमानो महानृपः । प्रसन्ने यज्ञपुरुषे किं चित्रं येन तद्भवेत् ।। ४१.
इह जन्मनि सौभाग्यमायुरारोग्यसम्पदः । एकैका विधिनोपास्ता ददात्यमृतमुत्तमम् ।। ४१.
किं पुनर्वर्षसंपूर्णे स ददाति स्वकं पदम् । नारायणश्चतुर्मूर्त्तिः परार्ध्यं च न संशयः ।। ४१.
यथैवोद्धृतवान् वेदान् मत्स्यरूपेण केशवः । क्षीराम्बुधौ मथ्यमाने मन्दरं धृतवान् प्रभुः । तद्वच्च कूर्मरूपाख्या द्वितीया पश्य वैष्णवी ।। ४१.
यथा रसातलात् क्ष्मां च धृतवान् पुरुषोत्तमः । वराहरूपी तद्वच्च तृतीया पश्य वैष्णवी ।। ४१.