तस्यां प्रागेव संकल्प्य प्राग्वत् स्नान्नादिकाः क्रियाः । निर्वर्त्याराधयेद् रात्र्यामेकादश्यां जनार्दनम् । पृथङ्मन्त्रैर्मुनिश्रेष्ठ देवदेवं जनार्दनम् ।। ४०.
ॐकूर्माय पादौ प्रथमं प्रपूज्य नारायणेति हरेः कटिं च । संकर्षणायेत्युदरं विशोके- त्युरोभवायेति तथैव कण्ठम् । सुबाहवेत्येव भुजौ शिरश्च नमो विशालाय रथाङ्गसारम् ।। ४०.
स्वनाममन्त्रेण सुगन्धपुष्पै- र्नानानिवेद्यैर्विविधैः फलैश्च । अभ्यर्च्य देवं कलशं तदग्रे संस्थाप्य माल्यैः सितकण्ठदाम ।। ४०.
तं रत्नगर्भं तु पुरेव कृत्वा स्वशक्तितो हेममयं तु देवम् । समन्दरं कूर्मरूपेण कृत्वा संस्थाप्य ताम्रे घृतपूर्णपात्रे । पूर्णघटस्योपरि संनिवेश्य श्वो ब्राह्मणायैवमेवं तु दद्यात् ।। ४०.
श्वो ब्राह्मणान् भोज्य सदक्षिणांश्च यथाशक्त्या प्रीणयेद् देवदेवम् । नारायणं कूर्मरूपेण पश्चाद् तथा स्वयं भुञ्जीत सभृत्यवर्गः ।। ४०.
एवं कृते विप्र समस्तपापं विनश्यते नात्र कुर्याद् विचारम् । संसारचक्रं तु विहाय शुद्धं प्राप्नोति लोकं च हरेः पुराणम् । प्रयान्ति पापानि विनाशमाशु श्रीमांस्तथा जायते सत्यधर्मः ।। ४०.
अनेकजन्मान्तरसंचितानि नश्यन्ति पापानि नरस्य भक्त्या । प्रागुक्तरूपं तु फलं भवेत नारायणस्तुष्टिमायाति सद्यः ।। ४०.
दुर्वासा उवाच । एवं माघे सिते पक्षे द्वादशीं धरणीभृतः । वराहस्य श्रृणुष्वाद्यां मुने परमधार्मिक ।। ४१.
प्रागुक्तेन विधानेन संकल्पस्नानमेव च । कृत्वा देवं समभ्यर्च्य एकादश्यां विचक्षणः ।। ४१.
धूपनैवेद्यगन्धैश्च अर्चयित्वाऽच्युतं नरः । पश्चात् तस्याग्रतः कुम्भं जलपूर्णं तु विन्यसेत् ।। ४१.
ॐ वाराहायेति पादौ तु माधवायेति वै कटिम् । क्षेत्रज्ञायेति जठरं विश्वरूपेत्युरो हरेः ।। ४१.
सर्वज्ञायेति कण्ठं तु प्रजानां पतये शिरः । प्रद्युम्नायेति च भुजौ दिव्यास्त्राय सुदर्शनम् । अमृतोद्भवाय शङ्खं तु एष देवार्चने विधिः ।। ४१.
एवमभ्यर्च्य मेधावी तस्मिन् कुम्भे तु विन्यसेत् । सौवर्णं रौप्यताम्रं वा पात्रं विभवशक्तितः ।। ४१.
सर्वबीजैस्तु संपूर्णं स्थापयित्वा विचक्षणः । तत्र शक्त्या तु सौवर्णं वाराहं कारयेद् बुधः ।। ४१.
दंष्ट्राग्रेणोद्धृतां पृथ्वीं सपर्वतवनद्रुमाम् । माधवं मधुहन्तारं वाराहं रूपमास्थितम् ।। ४१.
सर्वबीजभृते पात्रे रत्नगर्भं घटोपरि । स्थापयेत् परमं देवं जातरूपमयं हरिम् ।। ४१.
सितवस्त्रयुगच्छन्नं ताम्रपात्रं तु वै मुने । स्थाप्यार्च्चयेद् गन्धपुष्पैर्नैवेद्यैर्विविधैः शुभैः ।। ४१.
पुष्पमण्डलिकां कृत्वा जागरं तत्र कारयेत् । प्रादुर्भावान् हरेस्तत्र वाचयेद् भावयेद् बुधः ।। ४१.
एवं सन्नियमस्यान्तं प्रभाते उदिते रवौ । शुचिः स्नात्वा हरिं पूज्य ब्राह्मणाय निवेदयेत् ।। ४१.
वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते । विष्णुभक्ताय विप्रर्षे विशेषेण प्रदापयेत् ।। ४१.
देवं सकुम्भं तं दत्त्वा हरिं वाराहरूपिणम् । ब्राह्मणाय भवेद् यद्धि फलं तन्मे निशामय ।। ४१.
इह जन्मनि सौभाग्यं श्रीः कान्तिस्तुष्टिरेव च । दरिद्रो वित्तवान् सद्यः अपुत्रो लभते सुतम् । अलक्ष्मीर्नश्यते सद्यो लक्ष्मीः संविशते क्षणात् ।। ४१.
इह जन्मनि सौभाग्यं परलोके निशामय । अस्मिन्नर्थे पुरावृत्तमितिहासं पुरातनम् ।। ४१.
इह लोकेऽभवद् राजा वीरधन्वेति विश्रुतः । स कदाचिद् वनं प्रायान् मृगहेतोः परंतपः ।। ४१.
व्यापादयन् मृगगणान् तत्रर्षिवनमध्यगः । जघान मृगरूपान् सोऽज्ञानतो ब्राह्मणान् नृपः ।। ४१.
भ्रातरस्तत्र पञ्चाशन्मृगरूपेण संस्थिताः । संवर्तस्य सुता ब्रह्मन् वेदाध्ययनतत्पराः ।। ४१.
सत्यतपा उवाच । कारणं किं समाश्रित्य ते चक्रुर्मृगरूपताम् । एतन्मे कौतुकं ब्रह्मन् प्रणतस्य प्रसीद मे ।। ४१.
दुर्वासा उवाच । ते कदाचिद् वनं याता दृष्ट्वा हरिणपोतकान् । जातमात्रान् स्वमात्रा तु विहीनान् दृश्य सत्तम । एकैकं जगृहुस्ते हि ते मृताः स्कन्धसंस्थिताः ।। ४१.
ततस्ते दुःखिताः सर्वे ययुः पितरमन्तिकम् । ऊचुश्च वचनं चेदं मृगहिंसामृते मुने ।। ४१.
ऋषिपुत्रका ऊचुः । जातमात्रा मृगाः पञ्च अस्माभिर्निहता मुने । अकामतस्ततोऽस्माकं प्रायश्चित्तं विधीयताम् ।। ४१.