रसातलगता वेदा यथा देव त्वयाहृताः । मत्स्यरूपेण तद्वन्मां भवानुद्धर केशव । एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् ।। ३९.
यथाविभवसारेण प्रभाते विमले तथा । चतुर्णां ब्राह्मणानां च चतुरो दापयेद् घटान् ।। ३९.
पूर्वं तु बह्वृचे दद्याच्छन्दोगे दक्षिणं तथा । यजुःशाखान्विते दद्यात् पश्चिमं घटमुत्तमम् । उत्तरं कामतो तद्यादेष एव विधिः स्मृतः ।। ३९.
ऋग्वेदः प्रीयतां पूर्वे सामवेदस्तु दक्षिणे । यजुर्वेदः पश्चिमतो अथर्वश्चोत्तरेण तु ।। ३९.
अनेन क्रमयोगेन प्रीयतामिति वाचयेत् । मत्स्यरूपं च सौवर्णमाचार्याय निवेदयेत् ।। ३९.
गन्धधूपादिवस्त्रैश्च संपूज्य विधिवत् क्रमात् । यस्त्विमं सरहस्यं च मन्त्रं चैवोपपादयेत् । विधानं तस्य वै दत्त्वा फलं कोटिगुणोत्तरम् ।। ३९.
प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते । स जन्मकोटि नरके पच्यते पुरुषाधमः । विधानस्य प्रदाता यो गुरुरित्युच्यते बुधैः ।। ३९.
एवं दत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च । विप्राणां भोजनं कुर्याद् यथाशक्त्या सदक्षिणम् ।। ३९.
ताम्रपात्रैश्च सतिलैः स्थगितान् कारयेद् घटान् । तत्र सज्जलपात्रस्थं ब्राह्मणाय कुटुम्बिने ।। ३९.
देवं दद्यान्महाभागस्ततो विप्रांश्च भोजयेत् । भूरिणा परमान्नेन ततः पश्चात् स्वयं नरः । भुञ्जीत सहितो बालैर्वाग्यतः संयतेन्द्रियः ।। ३९.
अनेन विधिना यस्तु धरणीव्रतकृन्नरः । तस्य पुण्यफलं चाग्र्यं श्रृणु बुद्धिमतां वर ।। ३९.
यदि वक्त्रसहस्त्राणि भवन्ति मम सुव्रत । आयुश्च ब्रह्मणस्तुल्यं भवेद् यदि महाव्रत ।। ३९.
तदानीमस्य धर्मस्य फलं कथयितुं भवेत् । तथाप्युद्देशतो ब्रह्मन् कथयामि श्रृणुष्व तत् ।। ३९.
दश सप्त दश द्वे च अष्टौ चत्वार एव च । लक्षायुतानि चत्वारि एकस्थं स्याच्चतुर्युगम् ।। ३९.
तैरेकसप्ततियुगं भवेन्मन्वन्तरं मुने । चतुर्दशाहो ब्राह्मस्तु तावती रात्रिरिष्यते ।। ३९.
एवं त्रिंशद्दिनो मासस्ते द्वादश समा स्मृता । तेषां शतं ब्रह्मणस्तु आयुर्नास्त्यत्र संशयः ।। ३९.
यः सकृद् द्वादशीमेतामनेन विधिना क्षिपेत् । स ब्रह्मलोकमाप्नोति तत्कालं चैव तिष्ठति ।। ३९.
ततो ब्रह्मोपसंहारे तल्लयं तिष्ठते चिरम् । पुनः सृष्टौ भवेद् देवो वैराजानां महातपाः ।। ३९.
ब्रह्महत्यादिपापानि इह लोककृतान्यपि । अकामे कामतो वापि तानि नश्यन्ति तत्क्षणात् ।। ३९.
इह लोके दरिद्रो यो भ्रष्टराज्योऽथ वा नृपः । उपोष्य तां विधानेन स राजा जायते ध्रुवम् ।। ३९.
वन्ध्या नारी भवेद् या तु अनेन विधिना शुभा । उपोष्यति भवेत् तस्याः पुत्रः परमधार्मिकः ।। ३९.
अगम्यागमनं येन कृतं जानाति मानवः । स इमं विधिमासाद्य तस्मात् पापाद् विमुच्यते ।। ३९.
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च । उपोष्येमां सकृद् भक्त्या वेदसंस्कारमाप्नुयात् ।। ३९.
किमत्र बहुनोक्तेन न तदस्ति महामुने । अप्राप्यं प्राप्यते नैव पापं वा यन्न नश्यति ।। ३९.
अनेन विधिना ब्रह्मन् स्वयमेव ह्युपोषिता । धरण्या मग्नया तात नात्र कार्या विचारणा ।। ३९.
अदीक्षिताय नो देयं विधानं नास्तिकाय च । देवब्रह्मद्विषे वाऽपि न श्राव्यं तु कदाचन । गुरुभक्ताय दातव्यं सद्यः पापप्रणाशनम् ।। ३९.
इह जन्मनि सौभाग्यं धनं धान्यं वरस्त्रियः । भवन्ति विविधा यस्तु उपोष्य विधिना ततः ।। ३९.
य इमं श्रावयेद् भक्त्या द्वादशीकल्पमुत्तमम् । श्रृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते ।। ३९.
दुर्वासा उवाच । तथैव पौषमासे तु अमृतं मथितं सुरैः । तत्र कूर्मो भवेद् देवः स्वयमेव जनार्दनः ।। ४०.
तस्येयं तिथिरुद्दिष्टा हरेर्वै कूर्मरूपिणः । पुष्यमासस्य या शुद्धा द्वादशी शुक्लपक्षतः ।। ४०.