अल्पायासेन लभ्येत येन देवः सनातनः । तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद् भवेत् ।। ३९.
दुर्वासा उवाच । कथयामि परं गुह्यं रहस्यं देवनिर्मितम् । धरण्या यत्कृतं पूर्वं मज्जन्त्या तु रसातले ।। ३९.
पृथिव्याः पार्थिवो भावः सलिले नातिरेचितः । तस्मिन् सलिलमग्ने तु पृथ्वी प्रायाद् रसातलम् ।। ३९.
सा भूतधारिणी देवी रसातलगता शुभा । आराधयामास विभुं देवं नारायणं परम् । उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः ।। ३९.
कालेन महता तस्याः प्रसन्नो गरुडध्वजः । उज्जहार स्थितौ चेमां स्थापयामास सोऽव्ययः ।। ३९.
सत्यतपा उवाच । कोऽसौ धरण्या संचीर्ण उपवासो महामुने । कानि व्रतानि च तथा एतन्मे वक्तुमर्हसि ।। ३९.
दुर्वासा उवाच । यदा मार्गशिरे मासि दशम्यां नियतात्मवान् । कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि ।। ३९.
शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् । भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः ।। ३९.
कृत्वाऽष्टाङ्गुलमात्रं तु क्षीरवृक्षसमुद्भवम् । भक्षयेद् दन्तकाष्ठं तु तत आचम्य यत्नतः ।। ३९.
स्पृष्ट्वा द्वाराणि सर्वाणि चिरं ध्यात्वा जनार्दनम् । शङ्खचक्रगदापाणिं किरीटिं पीतवाससम् ।। ३९.
प्रसन्नवदनं देवं सर्वलक्षणलक्षितम् । ध्यात्वा पुनर्जलं हस्ते गृह्य भानुं जनार्दनम् ।। ३९.
ध्यात्वाऽर्ध्यं दापयेत् तस्य करतोयेन मानवः । एवमुच्चारयेद् वाचं तस्मिन् काले महामुने ।। ३९.
एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ।। ३९.
एवमुक्त्वा ततो रात्रौ देवदेवस्य सन्निधौ । जपन्नारायणायेति स्वपेत् तत्र विधानतः ।। ३९.
ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् । इतरां वा तडागं वा गृहे वा नियतात्मवान् ।। ३९.
आनीय मृत्तिकां शुद्धां मन्त्रेणानेन मानवः । धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा । तेन सत्येन मे पापं यावन्मोचय सुव्रते ।। ३९.
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि देव ते । तेनेमां मृत्तिकां स्पृष्ट्वा मा लभामि त्वयोदिताम् ।। ३९.
त्वयि सर्वे रसा नित्याः स्थिता वरुण सर्वदा । तेनेमां मृत्तिकां प्लाव्य पूतां कुरु ममाचिरम् ।। ३९.
एवं मृदं तथा तोयं प्रसाद्यात्मानमालभेत् । त्रिः कृत्वा शेषमृदया कुण्डमालिख्य वै जले ।। ३९.
ततस्तत्र नरः सम्यक् चक्रवर्त्युपचारतः । स्नात्वा चावश्यकं कृत्वा पुनर्देवगृहं व्रजेत् ।। ३९.
तत्राराध्य महायोगिं देवं नारायणं प्रभुम् । केशवाय नमः पादौ कटिं दामोदराय च ।। ३९.
ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे । कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ।। ३९.
त्रैलोक्यविजयायेति बाहू सर्वात्मने शिरः । रथाङ्गधारिणे चक्रं शंकरायेति वारिजम् ।। ३९.
गम्भीरायेति च गदामम्भोजं शान्तिमूर्त्तये । एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ।। ३९.
पुनस्तस्याग्रतः कुम्भान् चतुरः स्थापयेद् बुधः । जलपूर्णान् समाल्यांश्च सितचन्दनलेपितान् ।। ३९.
चूतपल्लवसग्रीवान् सितवस्त्रावगुण्ठितान् । स्थगितान् ताम्रपात्रैश्च तिलपूर्णैः सकाञ्चनैः ।। ३९.
चत्वारस्ते समुद्रास्तु कलशाः परिकीर्तिताः । तेषां मध्ये शुभं पीठं स्थापयेद् वस्त्रगर्भितम् ।। ३९.
तस्मिन् सौवर्णरौप्यं वा ताम्रं वा दारवं तथा । अलाभे सर्वपात्राणां पालाशं पात्रमिष्यते ।। ३९.
तोयपूर्णं तु तत्कृत्वा तस्मिन् पात्रे ततो न्यसेत् । सौवर्णं मत्स्य्रूपेण कृत्वा देवं जनार्दम् । वेदवेदाङ्गसंयुक्तं श्रुतिस्मृतिविभूषितम् ।। ३९.
तत्रानेकविधैर्भक्षैः फलैः पुष्पैश्च शोभितम् । गन्धधूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि ।। ३९.