ऋषिरुवाच । प्राक्शरीरं गतं तेऽद्य निराहारस्य सत्तम । तपोमयं शरीरं ते पृथग्भूतं न संशयः ।। ३८.
प्राग्विज्ञानं गतं नाशमिदानीं शुद्धमक्षरम् । विद्धि तं शुद्धकायोऽसि तथाऽन्यत् ते शरीरकम् । तेन वेदाः समं शास्त्रैः प्रतिभास्यन्ति ते मुने ।। ३८.
सत्यतपा उवाच । भगवन् द्वे शरीरे तु इति यत्परिकीर्त्तितम् । तन्मे कथय भेदं वै के ते ब्रह्मविदां वर ।। ३९.
दुर्वासा उवाच । न द्वे त्रीणि शरीराणि वाच्यं तद्विपरीतकम् । विभोगायतनं चैव त्रिशरीराणि प्राणिनाम् ।। ३९.
प्रागवस्थमधर्माख्यं परिज्ञानविवर्जितम् । अपरं सव्रतं तद्धि ज्ञेयमत्यन्तधार्मिकम् ।। ३९.
धर्माधर्मोपभोगाय यत् तृतीयमतीन्द्रियम् । तत्त्रिभेदं विनिर्दिष्टं ब्रह्मविद्भिर्विचक्षणैः । यातना धर्मभोगश्च भुक्तिश्चेति त्रिभेदकम् ।। ३९.
यस्तु भावः पुरा ह्यासीत् प्राणिनो निघ्नतः स वै । तत्पापाख्यं शरीरं ते पापसंज्ञं तदुच्यते ।। ३९.
इदानीं शुभवृत्तिं तु कुर्वतस्तप आर्जवम् । अपरं धर्मरूपं तु शरीरं ते व्यवस्थितम् । तेन वेदपुराणानि ज्ञातुमर्हस्यसंशयम् ।। ३९.
यदाष्टाकं संपरिवर्त्तते पुमां- स्तदा त्र्यवस्थः परिकीर्त्यते तु वै । गताष्टवर्गस्त्रिगतः सदा शुभः स्थिरो भवेदात्मनि निश्चयात्मवान् ।। ३९.
यदा पञ्च पुनः पञ्च पञ्च पञ्चापि संत्यजेत् । एकमार्गस्तदा ब्रह्म शाश्वतं लभते नरः ।। ३९.
सत्यतपा उवाच । भगवन् यदि विज्ञानं शरीरं नोपजायते । तदा केन प्रकारेण परं ब्रह्मोपलभ्यते ।। ३९.
दुर्वासा उवाच । कर्मकाण्डं ज्ञानमूलं ज्ञानं कर्मादिकं तथा । एतयोरन्तरं नास्ति यथाऽश्ममृदयोर्मुने ।। ३९.
कर्मकाण्डं चतुर्भेदं ब्राह्मणादिषु कीर्तितम् । तत्र वेदोक्तकर्माणि त्रयः कुर्वन्ति नित्यशः । त्रिशुश्रूषामथैकस्तु एषा वेदोदिता क्रिया ।। ३९.
एतान् धर्मानवस्थाय ब्रह्मणोपास्तिं रोचते । तस्य मुक्तिर्भवेन्नूनं वेदवादरतस्य च ।। ३९.
सत्यतपा उवाच । यदेतत् परमं ब्रह्म त्वया प्रोक्तं महामुने । तस्य रूपं न जानन्ति योगिनोऽपि महात्मनः ।। ३९.
अनाममसगोत्रं च अमूर्त्तं मूर्त्तिवर्जितम् । कथं स ज्ञायते ब्रह्म संज्ञानामविवर्जितम् । तस्य संज्ञां कथय मे वेदमार्गव्यवस्थिताम् ।। ३९.
दुर्वासा उवाच । यदेतत् परमं ब्रह्म वेदव्यासेषु पठ्यते । स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ।। ३९.
स यज्ञैर्विविधैरिष्टैर्दानैर्दत्तैश्च सत्तम । प्राप्यते परमो देवः स्वयं नारायणो हरिः ।। ३९.
सत्यतपा उवाच । भगवन् बहुवित्तेन ऋत्विग्भिर्वेदपारगैः । प्राप्यते पुण्यकृद्भिर्हि क्वचिद् यज्ञः कथंचन । तेन प्राप्तेन भगवान् लभ्यते दुःखतो हरिः ।। ३९.
वित्तेन च विना दानं दातुं विप्र न शक्यते । विद्यमानेऽपि न मतिः कुटुम्बासक्तचेतसः । तस्य मोक्षः कथं ब्रह्मन् सर्वथा दुर्लभो हरिः ।। ३९.
अल्पायासेन लभ्येत येन देवः सनातनः । तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद् भवेत् ।। ३९.
दुर्वासा उवाच । कथयामि परं गुह्यं रहस्यं देवनिर्मितम् । धरण्या यत्कृतं पूर्वं मज्जन्त्या तु रसातले ।। ३९.
पृथिव्याः पार्थिवो भावः सलिले नातिरेचितः । तस्मिन् सलिलमग्ने तु पृथ्वी प्रायाद् रसातलम् ।। ३९.
सा भूतधारिणी देवी रसातलगता शुभा । आराधयामास विभुं देवं नारायणं परम् । उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः ।। ३९.
कालेन महता तस्याः प्रसन्नो गरुडध्वजः । उज्जहार स्थितौ चेमां स्थापयामास सोऽव्ययः ।। ३९.
सत्यतपा उवाच । कोऽसौ धरण्या संचीर्ण उपवासो महामुने । कानि व्रतानि च तथा एतन्मे वक्तुमर्हसि ।। ३९.
दुर्वासा उवाच । यदा मार्गशिरे मासि दशम्यां नियतात्मवान् । कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि ।। ३९.
शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् । भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः ।। ३९.
कृत्वाऽष्टाङ्गुलमात्रं तु क्षीरवृक्षसमुद्भवम् । भक्षयेद् दन्तकाष्ठं तु तत आचम्य यत्नतः ।। ३९.
स्पृष्ट्वा द्वाराणि सर्वाणि चिरं ध्यात्वा जनार्दनम् । शङ्खचक्रगदापाणिं किरीटिं पीतवाससम् ।। ३९.