विप्रावूचतुः । क एष प्रोच्यते राजंस्त्वया नारायणो गुरुः । आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षगतौ नृप ।। ४.
अश्वशिरा उवाच । भवन्तौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्बिषौ । कथं नारायणावावामिति वाक्यमथेरितम् ।। ४.
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः । गरुडस्थो महादेवः कस्तस्य सदृशो भुवि ।। ४.
तस्य राज्ञो वचः श्रुत्वा तौ विप्रौ संशितव्रतौ । जहसतुः पश्य विष्णुं राजन्निति जजल्पतुः ।। ४.
एवमुक्त्वा स कपिलः स्वयं विष्णुर्बभूव ह । जैगीषव्यश्च गरुडस्तत्क्षणात् समजायत ।। ४.
ततो हाहाकृतं त्वासीत् तत्क्षणाद् राजमण्डलम् । दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् ।। ४.
कृताञ्जलिपुटो भूत्वा ततो राजा महायशाः । उवाच शाम्यतां विप्रौ नायं विष्णुरथेदृशः ।। ४.
यस्य ब्रह्मा समुत्पन्नो नाभिपङ्कजमध्यतः । तस्माच्च ब्रह्मणो रुद्रः स विष्णुः परमेश्वरः ।। ४.
इति राजवचः श्रुत्वा तदा तौ मुनिपुंगवौ । चक्रतुः परमां मायां योगमायां विशेषतः ।। ४.
कपिलः पद्मनाभस्तु जैगीषव्यः प्रजापतिः । कमलस्थो बभौ ह्रस्वस्तस्य चाङ्के कुमारकः ।। ४.
ददर्श राजा रक्ताक्षं कालानलसमद्युतिम् । नेत्थं भवति विश्वेशो मायैषा योगिनां सदा । सर्वव्यापी हरिः श्रीमानिति राजा जगाद ह ।। ४.
ततो वाक्यावसाने तु तस्य राज्ञो हि संसदि । मशका मत्कुणा यूका भ्रमराः पक्षिणोरगाः ।। ४.
अश्वा गावो द्विपाः सिंहा व्याघ्रा गोमायवो मृगाः । अन्येऽपि पशवः कीटा ग्राम्यारण्याश्च सर्वशः । दृश्यन्ते राजभवने कोटिशो भूतधारिणि ।। ४.
तं दृष्ट्वा भूतसंघातं राजा विस्मितमानसः । यावच्चिन्तयते किं स्यादेतदित्यवगम्य च । जैगीषव्यस्य माहात्म्यं कपिलस्य च धीमतः ।। ४.
कृताञ्जलिपुटो भूत्वा स राजाऽश्वशिरास्तदा । पप्रच्छ तावृषी भक्त्या किमिदं द्विजसत्तमौ ।। ४.
द्विजावूचतुः । आवां पृष्टौ त्वया राजन् कथं विष्णुरिहेज्यते । प्राप्यते वा महाराज तेनेदं दर्शितं तव ।। ४.
सर्वज्ञस्य गुणा ह्येते ये राजंस्तव दर्शिताः । स च नारायणो देवः सर्वज्ञः कामरूपवान् ।। ४.
सौम्यस्तु संस्थितः क्वापि प्राप्यते मनुजैः किल । आराधनेन चैतस्य वाक्यमर्थवदिष्यते ।। ४.
किन्तु सर्वशरीरस्थः परमात्मा जगत्पतिः । स्वदेहे दृश्यते भक्त्या नैकस्थानगतस्तु सः ।। ४.
अतोऽर्थं दर्शितं रूपं देवस्य परमात्मनः । आवयोस्तव राजेन्द्र प्रतीतिः स्याद् यथा तव । एवं सर्वगतो विष्णुस्तव देहे जनेश्वर ।। ४.
मन्त्रिणां भृत्यसङ्घस्य सुराद्या ये प्रदर्शिताः । पशवः कीटसङ्घाश्च तेऽपि विष्णुमया नृप ।। ४.
भावनां तु दृढां कुर्याद् यथा सर्वगतो हरिः । नान्यत् तत् सदृशं भूतमिति भावेन सेव्यते ।। ४.
एष ते ज्ञानसद्भावस्तव राजन् प्रकीर्तितः । परिपूर्णेन भावेन स्मरन् नारायणं हरिम् ।। ४.
परिपूर्णेन बावेन स्मर नारायणं गुरुम् । पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः । ध्यानेन सुस्थितेनाशु प्राप्यते परमेश्वरः ।। ४.
अश्वशिरा उवाच । भवन्तौ मम संदेहमेकं छेत्तुमिहार्हतः । येन छिन्नेन जायेत मम संसारविच्युतिः ।। ५.
एवमुक्ते नृपतिना तदा योगिवरो मुनिः । कपिलः प्राह धर्मात्मा राजानं यजतां वरम् ।। ५.
कपिल उवाच । कस्ते मनसि संदेहो राजन् परमधार्मिक । छिन्दामि येन तच्छ्रुत्वा ब्रूहि यत्तेऽभिवाञ्छितम् ।। ५.
राजोवाच । कर्मणा प्राप्यते मोक्ष उताहो ज्ञानिना मुने । एतन्मे संशयं छिन्धि यदि मेऽनुग्रहः कृतः ।। ५.
कपिल उवाच । इमं प्रश्नं महाराज पुरा पृष्टो बृहस्पतिः । रैभ्येण ब्रह्मपुत्रेण राज्ञा च वसुना पुरा । वसुरासीन्नृपश्रेष्ठो विद्वान् दानपतिः पुरा ।। ५.
चाक्षुषस्य मनोः काले ब्रह्मणोऽन्वयवर्द्धनः । वसुश्च ब्रह्मणः सद्म गतवांस्तद्दिदृक्षया ।। ५.