भिक्षाकाले तु संप्राप्ते शीर्णपर्णान्यभक्षयत् । स कदाचित् क्षुधाविष्टो वृक्षमूलं समाश्रितः ।। ३८.
बुभुक्षितस्तरोः पर्णमैच्छद् भक्षितुमन्तिकात् । इत्येवं कुर्वतो व्योम्नि वागुवाचाशरीरिणी ।। ३८.
मा भक्षयस्व सकटमुच्चैरेवं प्रभाषिते । ततोऽसौ तं विहायान्यद् वार्क्षं पतितमग्रहीत् ।। ३८.
तमप्येवं निषिद्धं स्यादन्यं तथैवमेव च । एवं स सकटं मत्वा व्याधः किञ्चिन्न भक्षयत् ।। ३८.
निराहारस्तपस्तेपे स्मरन् गुरुमतन्द्रितः । तस्याथ बहुना काले गते ऋषिवरोऽभ्यगात् ।। ३८.
दुर्वासाः शंसितात्मा वै किञ्चित्प्राणमपश्यत । व्याधं तपोत्थतेजोभिर्ज्वलमानं हविर्यथा ।। ३८.
सोऽपि व्याधस्तु तं नत्वा शिरसाऽथ महामुनिम् । उवाच स कृतार्थोऽस्मि भगवन् दर्शनात् तव ।। ३८.
इदानीं श्राद्धकालं मे प्राप्तं त्वमवधारय । शीर्णपर्णानि भक्षयन् वै तैरेवाहं महामुने । भवन्तं प्रीणयामीति व्याधस्तं वाक्यमब्रवीत् ।। ३८.
दुर्वासा अपि तं शुद्धं शुद्धभावं जितेन्द्रियम् । जिज्ञासुस्तत्तपो वाक्यमिदमुच्चैरुवाच ह ।। ३८.
यवगोधूमशालीनामन्नं चैव सुसंस्कृतम् । दीयतां मे क्षुधार्ताय त्वामुद्दिश्यागताय च ।। ३८.
इत्युक्तेन त्वसौ व्याधश्चिन्तां परमिकां गतः । क्व संभविष्यते मह्यमिति चिन्तापरोऽभवत् ।। ३८.
तस्य चिन्तयतः पात्रमाकाशात् पतितं शुभम् । सौवर्णं सिद्धिसंयुक्तं तज्जग्राह करेण सः ।। ३८.
तद् गृहीत्वा मुनिं प्राह दुर्वासाख्यं ससाध्वसः । अत्रैव स्थीयतां ब्रह्मन् यावद् भिक्षाटनं त्वहम् । करोमि तत्प्रसादोऽयं क्रियतां ब्रह्मवित्तम ।। ३८.
एवमुक्त्वा ततो भिक्षामटनं व्याधसत्तमः । नातिदूरेण नगरं धनयोषसमन्वितम् ।। ३८.
तस्य तत्र प्रयातस्य अग्रतः सर्वशोभनाः । वृक्षेभ्यो निर्ययुश्चान्या हेमपात्राग्रपाणयः । विविधान्नानि तस्याशु दत्त्वा पात्रं प्रपूरितम् ।। ३८.
स च भूतार्थमात्मानं मत्वा पुनरथाश्रमम् । आजगाम ततोऽपश्यत् तमृषिं जपतां वरम् ।। ३८.
तं दृष्ट्वा स्थाप्य तां भिक्षां शुचौ देशे प्रसन्नधीः । प्रणम्य तमृषिं वाक्यमुवाच व्याधसत्तमः ।। ३८.
भगवन् क्षालनं पद्भ्यां क्रियतामृषिपुंगव । यदि त्वहमनुग्राह्यस्तदेवं कर्त्तुमर्हसि ।। ३८.
एवमुक्तः स जिज्ञासुस्तपोवीर्यं शुभं मुनिः । नदीं गन्तुं न शक्नोमि जलपात्रं न चास्ति मे ।। ३८.
कथं प्रक्षालयाम्याशु व्याध पादौ महामते । इत्येतन्मुनिना व्याधः श्रुत्वा चिन्तापरोऽभवत् । किं करोमि कथं चास्य भोजनं वै भविष्यति ।। ३८.
एवं संचिन्त्य मनसा गुरुं स्मृत्वा विचक्षणः । जगाम शरणं तां तु सरितं देविकां सुधीः ।। ३८.
व्याध उवाच । व्याधोऽस्मि पापकर्माऽस्मि ब्रह्महाऽस्मि सरिद्वरे । तथापि संस्मृता देवि पाहि मां शरणं गतम् ।। ३८.
देवतां नैव जानामि न मन्त्रं न तथार्चनम् । गुरुपादौ परं ध्यात्वा पश्यामि सततं शुभे ।। ३८.
एवं विधस्य मे देवि दयां कुरु सरिद्वरे । ऋषेः क्षालार्थसलिलं समीपं कुरु माचिरम् ।। ३८.
एवमुक्त्वाऽथ व्याधेन देविका पापनाशिनी । आजगाम यतस्तस्थौ दुर्वासाः संशितव्रतः ।। ३८.
तस्य पादौ स्वयं देवी क्षालयन्ती सरिद्वरा । जगाम ह्रादिनी भूत्वा व्याधाश्रमसमीपतः ।। ३८.
तं दृष्ट्वा महदाश्चर्यं दुर्वसा विस्मयं ययौ । प्रक्षाल्य हस्तौ पादौ च तदन्तं श्रद्धयान्वितम् । बुभुजे परमप्रीतस्तथाचम्य विचक्षणः ।। ३८.
तमस्थिशेषं व्याधं तु क्षुधादुर्बलतां गतम् । उवाच वेदाध्ययनं सर्वे वेदाः ससंग्रहाः । ब्रह्मविद्या पुराणानि प्रत्यक्षाणि भवन्तु ते ।। ३८.
एवं प्रादाद् वरं तस्य दुर्वासा नाम चाकरोत् । भवान् सत्यतपा नाम ऋषिराद्यो भविष्यति ।। ३८.
एवं दत्तवरो व्याधस्तमाह मुनिसत्तमम् । व्याधो भूत्वा कथं ब्रह्मन् वेदानध्यापयाम्यहम् ।। ३८.