एवमुक्तोऽप्यसौ विप्रो नोत्तरं प्रत्यपद्यत । ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः ।। ३७.
अनुक्तोऽपि स धर्मेप्सुर्व्याधस्तत्रैव तस्थिवान् । स्नात्वा नद्यां द्विजः सोऽपि वृक्षमूलमुपाश्रितः ।। ३७.
कस्यचित् त्वथ कालस्य तां नदीमगमत् किल । व्याघ्रो बुभुक्षितः शान्तं तं विप्रं हन्तुमुद्यतः ।। ३७.
अन्तर्जलगतं विप्रं यावद् व्याघ्रो जिघृक्षति । तावद् व्याधेन विद्धोऽसौ सद्यः प्राणैर्वियोजितः ।। ३७.
तस्माद् व्याघ्रशरीरात् तु उत्थाय पुरुषः किल । विप्रश्चान्तर्जले मग्नः श्रुत्वा तं शब्दमाकुलम् । नमो नारायणायेति वाक्यमुच्चैरुवाच ह ।। ३७.
व्याघ्रेणापि श्रुतो मन्त्रः प्राणैः कण्ठस्थितैस्ततः । श्रुतमात्रे जहौ प्राणान् पुरुषश्चाभवच्छुभः ।। ३७.
सोऽब्रवीद् यामि तं देशं यत्र विष्णुः सनातनः । त्वत्प्रसादाद् द्विजश्रेष्ठ मुक्तपाप्मा निरामयः ।। ३७.
इत्युक्तो ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ । सोऽब्रवीत् तस्य राजेन्द्रः प्रतापी पूर्वजन्मनि । दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ।। ३७.
अहं जानामि वेदांश्च अहं वेद्मि शुभाशुभम् । ब्राह्मणे नैव मे कार्यं किं वस्तु ब्राह्मणा इति ।। ३७.
तस्यैवं वादिनो विप्राः सर्वे क्रोधसमन्विताः । ऊचुः शापं दुराधर्षः क्रूरो व्याघ्रो भविष्यसि ।। ३७.
अवमानात् तु विप्राणां सत्यान्तं स्मरणं तव । मृत्युकालेन संमूढ केशवेन भविष्यति ।। ३७.
इत्युक्तोऽहं पुरा तैस्तु ब्राह्मणैर्वेदपारगैः । तमेव सर्वं संप्राप्तो ब्रह्मशापं सुपुष्कलम् ।। ३७.
ततस्ते ब्राह्मणा सर्वे प्रणिपत्य महामुने । उक्ताऽनुग्रहहेतोर्वै ऊचुस्ते मामिमं पुरा ।। ३७.
षष्ठान्नकालिकस्याग्रे यस्ते स्थास्यति कश्चन । स भक्ष्यस्ते तु भविता कंचित्कालं नराधम ।। ३७.
यदेषुघातं लब्ध्वा तु प्राणैः कण्ठगतैर्भवान् । श्रोष्यसे द्विजवक्त्रात् तु नमो नारायणेति हि । तदा स्वर्गगतिस्तुभ्यं भविता नात्र संशयः ।। ३७.
परवक्त्रगतस्यापि विष्णोर्नाम श्रुतं मया । लब्धद्वेषस्य विप्राणां प्रत्यक्षं तव सत्तम ।। ३७.
यः पुनर्ब्राह्मणान् पूज्य स्ववक्त्रेण नमो हरिम् । वदन् प्राणं विमुच्येत मुक्तौऽसौ वीतकिल्बिषः ।।। ३७.
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते । जङ्गमा ब्राह्मणा देवाः कूटस्थः पुरुषोत्तमः ।। ३७.
एवमुक्त्वा गतः स्वर्गं स राजा वीतकल्मषः । ब्राह्मणोऽपि सदायुक्तस्तं व्याधं प्रत्यभाषत ।। ३७.
ऋषिरुवाच । जिघृक्षोर्मृगराजस्य यत्त्वया रक्षितो ह्यहम् । तत्पुत्र तुष्टस्ते दद्मि वरं वरय सुव्रत ।। ३७.
व्याध उवाच । एष एव वरो मह्यं यत् त्वं मां भाषसे द्विज । अतः परं वरेणाहं किं करोमि प्रशाधि माम् ।। ३७.
ऋषिरुवाच । अहं त्वया पुरा पुत्र प्रार्थितोऽस्मि तपोऽर्थिना । बहुपातकयुक्तेन घोररूपेण चानघ ।। ३७.
इदानीं तव पापानि देविकाभिषवेण च । मद्दर्शनेन च चिरं विष्णुनामश्रुतेन च । नष्टानि शुद्धदेहोऽसि सांप्रतं नात्र संशयः ।। ३७.
इदानीं वरमेकं त्वं गृहाण मम सन्निधौ । तपः कुरुष्व साधो त्वं चिरकालं यदीच्छसि ।। ३७.
व्याध उवाच । य एष भवता प्रोक्तो विष्णुर्नारायणः प्रभुः । स कथं प्राप्यते मर्त्यैरेष एव वरो मम ।। ३७.
ऋषिरुवाच । तमुद्दिश्य व्रतं कुर्याद् यत्किंचित्पुरुषोऽच्युतम् । स परं तमवाप्नोति भक्तया युक्तः पुमानिति ।। ३७.
एवं ज्ञात्वा भवान् पुत्र व्रतमेतत् समाचर । न भक्षयेद् गणान्नं तु न वदेदनृतं क्वचित् ।। ३७.
एतत् ते व्रतमादिष्टं मया व्याधवर ध्रुवम् । अत्रैवं तपसा युक्तस्तिष्ठ त्वं यावदिच्छसि ।। ३७.
श्रीवराह उवाच । एवं चिन्तान्वितं मत्वा वरदो ब्राह्मणोऽभवत् । मोक्षार्थिनमथो बुद्ध्वा वञ्चयित्वा गतो मुनिः ।। ३७.
श्रीवराह उवाच । स शुभं शोभनं मार्गमास्थाय व्याधसत्तमः । तपस्तेपे निराहारस्तं गुरुं मनसा स्मरन् ।। ३८.