मौनं चाध्ययनं चैव देवस्तुत्यर्थकीर्तितत् । निवृत्तिश्चापि पैशुन्याद् वाचिकं व्रतमुत्तमम् ।।३७.
अत्रापि श्रूयते चान्यदृषिरुग्रतपाः पुरा । ब्रह्मपुत्रः पुरा कल्पे आरुणिर्नाम नामतः ।। ३७.
सोऽरण्यमगमत् किंचित् तपोर्थी द्विजसत्तमः । तपस्तेपे ततस्तस्मिन्नुपवासपरायणः ।। ३७.
देविकायास्तटे रम्ये सोऽवसद् ब्राह्मणः किल । कदाचिदभिषेकाय स जगाम महानदीम् ।। ३७.
तत्र स्नात्वा जपन् विप्रो ददर्शायान्तमग्रतः । व्याधं महाधनुःपाणिमुग्रनेत्रं विभीषणम् ।। ३७.
तं द्विजं हन्तुमायात् स वल्कलानां जिघृक्षया । तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति । ध्यायन् नारायणं देवं तस्थौ तत्रैव स द्विजः ।। ३७.
तं दृष्ट्वाऽन्तर्गतहरिं व्याधो भीत इवाग्रतः । विहाय सशरं चापं ततो वचनमब्रवीत् ।। ३७.
व्याध उवाच । हन्तुमिच्छुरहं ब्रह्मन् भवन्तं प्रागिहागतः । इदानीं दर्शनात् तुभ्यं सा मतिः क्वापि मे गता ।। ३७.
ब्राह्मणानां सहस्त्राणि सस्त्रीणामयुतानि च । निहतानि मया ब्रह्मन् निहतौ च कुटम्बिनौ ।। ३७.
नरकेऽभ्यधिकं चित्तं कदाचिदपि विद्यते । इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः । उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ।। ३७.
एवमुक्तोऽप्यसौ विप्रो नोत्तरं प्रत्यपद्यत । ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः ।। ३७.
अनुक्तोऽपि स धर्मेप्सुर्व्याधस्तत्रैव तस्थिवान् । स्नात्वा नद्यां द्विजः सोऽपि वृक्षमूलमुपाश्रितः ।। ३७.
कस्यचित् त्वथ कालस्य तां नदीमगमत् किल । व्याघ्रो बुभुक्षितः शान्तं तं विप्रं हन्तुमुद्यतः ।। ३७.
अन्तर्जलगतं विप्रं यावद् व्याघ्रो जिघृक्षति । तावद् व्याधेन विद्धोऽसौ सद्यः प्राणैर्वियोजितः ।। ३७.
तस्माद् व्याघ्रशरीरात् तु उत्थाय पुरुषः किल । विप्रश्चान्तर्जले मग्नः श्रुत्वा तं शब्दमाकुलम् । नमो नारायणायेति वाक्यमुच्चैरुवाच ह ।। ३७.
व्याघ्रेणापि श्रुतो मन्त्रः प्राणैः कण्ठस्थितैस्ततः । श्रुतमात्रे जहौ प्राणान् पुरुषश्चाभवच्छुभः ।। ३७.
सोऽब्रवीद् यामि तं देशं यत्र विष्णुः सनातनः । त्वत्प्रसादाद् द्विजश्रेष्ठ मुक्तपाप्मा निरामयः ।। ३७.
इत्युक्तो ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ । सोऽब्रवीत् तस्य राजेन्द्रः प्रतापी पूर्वजन्मनि । दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ।। ३७.
अहं जानामि वेदांश्च अहं वेद्मि शुभाशुभम् । ब्राह्मणे नैव मे कार्यं किं वस्तु ब्राह्मणा इति ।। ३७.
तस्यैवं वादिनो विप्राः सर्वे क्रोधसमन्विताः । ऊचुः शापं दुराधर्षः क्रूरो व्याघ्रो भविष्यसि ।। ३७.
अवमानात् तु विप्राणां सत्यान्तं स्मरणं तव । मृत्युकालेन संमूढ केशवेन भविष्यति ।। ३७.
इत्युक्तोऽहं पुरा तैस्तु ब्राह्मणैर्वेदपारगैः । तमेव सर्वं संप्राप्तो ब्रह्मशापं सुपुष्कलम् ।। ३७.
ततस्ते ब्राह्मणा सर्वे प्रणिपत्य महामुने । उक्ताऽनुग्रहहेतोर्वै ऊचुस्ते मामिमं पुरा ।। ३७.
षष्ठान्नकालिकस्याग्रे यस्ते स्थास्यति कश्चन । स भक्ष्यस्ते तु भविता कंचित्कालं नराधम ।। ३७.
यदेषुघातं लब्ध्वा तु प्राणैः कण्ठगतैर्भवान् । श्रोष्यसे द्विजवक्त्रात् तु नमो नारायणेति हि । तदा स्वर्गगतिस्तुभ्यं भविता नात्र संशयः ।। ३७.
परवक्त्रगतस्यापि विष्णोर्नाम श्रुतं मया । लब्धद्वेषस्य विप्राणां प्रत्यक्षं तव सत्तम ।। ३७.
यः पुनर्ब्राह्मणान् पूज्य स्ववक्त्रेण नमो हरिम् । वदन् प्राणं विमुच्येत मुक्तौऽसौ वीतकिल्बिषः ।।। ३७.
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते । जङ्गमा ब्राह्मणा देवाः कूटस्थः पुरुषोत्तमः ।। ३७.
एवमुक्त्वा गतः स्वर्गं स राजा वीतकल्मषः । ब्राह्मणोऽपि सदायुक्तस्तं व्याधं प्रत्यभाषत ।। ३७.
ऋषिरुवाच । जिघृक्षोर्मृगराजस्य यत्त्वया रक्षितो ह्यहम् । तत्पुत्र तुष्टस्ते दद्मि वरं वरय सुव्रत ।। ३७.