तस्य ब्रह्मा ददौ प्रीतः पौर्णमासीं तिथिं प्रभुः । तस्यामुपोषयेद् राजंस्तमर्थं प्रतिपादयेत् ।। ३५.
यवान्नहारश्च भवेत् तस्य ज्ञानं प्रयच्छति । कान्तिं पुष्टिं च राजेन्द्र धनं धान्यं च केवलम् ।। ३५.
महातपा उवाच । आदित्रेतासु राजानो मणिजा ये प्रकीर्त्तिताः । कथयिष्यामि तान् राजन् यत्र जातोऽपि पार्थिव ।। ३६.
योऽसौ सुप्रभनामासीत् स त्वं राजन् कृते युगे । जातोऽसि नाम्ना विख्यातः प्रजापालेति शोभनः ।। ३६.
शेषास्त्रेतायुगे राजन् भविष्यन्ति महाबलाः । यो दीप्ततेजा मणिजः स शन्तेति प्रकीर्तितः ।। ३६.
सुरश्मिर्भविता राजा शशकर्णो महाबलः । शुभदर्शनः पाञ्चालो भविष्यति नराधिपः ।। ३६.
सुशान्तिरङ्गवंशे वै सुन्दरोऽप्यङ्ग इत्युत । सुन्दश्च मुचुकुन्दोऽभूत्सुद्युम्नस्तुर एव च ।। ३६.
सुमनाः सोमदत्तस्तु शुभः संवरणोऽभवत् । सुशीलो वसुदानस्तु सुखदो सुपतिर्भवत् ।। ३६.
शम्भुः सेनापतिरभूत् सुकान्तो दशरथः स्मृतः । सोमोऽभूज्जनको राजा एते त्रेतायुगे नृप ।। ३६.
सर्वे भूमिमिमां राजन् भुक्त्वा ते वसुधाधिपाः । इष्ट्वा च विविधैर्यज्ञैर्दिवं प्राप्स्यन्त्यसंशयम् ।। ३६.
श्रीवराह उवाच । एवं श्रुत्वा स राजर्षिर्ब्रह्मविद्याऽमृतं प्रभुः । आख्यानं परमं प्रीतस्तपश्चर्तुमियाद् वनम् ।। ३६.
ऋषिरध्यात्मयोगेन विहायेदं कलेवरम् । ब्रह्मभूतोऽभवद्धात्रि हरौ लयमवाप च ।। ३६.
वृन्दावनं च राजाऽसौ तपोऽर्थं गतवान् प्रभुः । तत्र गोविन्दनामानं हरिं स्तोतुमथारभत् ।। ३६.
राजोवाच । नमामि देवं जगतां च मूर्त्तिं गोपेन्द्रमिन्द्रानुजमप्रमेयम् । संसारचक्रक्रमणैकदक्षं क्षितीधरं देववरं नमामि ।। ३६.
भवोदधौ दुःखशतोर्म्मिभीमे जरावर्त्ते कृष्णपातालमूले । तदन्तमेको दधते सुखं मे नमोऽस्तु ते गोपतिरप्रमेय ।। ३६.
व्याध्यादियुक्तः पुरुषैर्ग्रहैश्च सङ्घट्टमानं पुनरेव देव । नमोऽस्तु ते युद्धरते महात्मा जनार्दनो गोपतिरुग्रबाहुः ।। ३६.
त्वमुत्तमः सर्वविदां सुरेश त्वया ततं विश्वमिदं समस्तम् । गोपेन्द्र मां पाहि महानुभाव भवाद्भीतं तिग्मरथाङ्गपाणे ।। ३६.
परोऽसि देव प्रवरः सुराणां पुंसः स्वरूपोऽसि शशिप्रकाशः । हुताशवक्त्राच्युत तीव्रभाव गोपेन्द्र मां पाहि भवे पतन्तम् ।। ३६.
संसारचक्रक्रमणान्यनेका - न्याविर्भवन्त्यच्युत देहिनां यत् । त्वन्मायया मोहितानां सुरेश कस्ते मायां तरते द्वन्द्वधामा ।। ३६.
अगोत्रमस्पर्शमरूपगन्ध - मनामनिर्देशमजं वरेण्यम् । गोपेन्द्र त्वां यद्युपासन्ति धीरा - स्ते मुक्तिभाजो भवबन्धमुक्ताः ।। ३६.
शब्दातिगं व्योमरूपं विमूर्त्तिं विकर्म्मिणां शुभभावं वरेण्यम् । चक्राब्जपाणिं तु तथोपचारा- दुक्तं पुराणे सततं नमामि ।। ३६.
त्रिविक्रमं क्रान्तजगत्त्रयं च चतुर्मूर्त्तिं विश्वगतां क्षितीशम् । शम्भुं विभुं भूतपतिं सुरेशं नमाम्यहं विष्णुमनन्तमूर्त्तिम् ।। ३६.
त्वं देव सर्वाणि चराचराणि सृजस्यथो संहरसे त्वमेव । मां मुक्तिकामं नय देव शीघ्रं यस्मिन् गता योगिनो नापयान्ति ।। ३६.
जयस्व गोविन्द महानुभाव जयस्व विष्णो जय पद्मनाभ । जयस्व सर्वज्ञ जयाप्रमेय जयस्व विश्वेश्वर विश्वमूर्त्ते ।। ३६.
श्रीवराह उवाच । एवं स्तुत्वा तदा राजा निधाय स्वं कलेवरम् । परमात्मनि गोविन्दे लयमागाच्च शाश्वते ।। ३६.
धरण्युवाच । कथमाराध्यसे देव भक्तिमद्भिर्नरैर्विभो । स्त्रीभिर्वा सर्वमेतन्मे शंस त्वं भूतभावन ।। ३७.
श्रीवराह उवाच । भावसाध्योऽस्म्यहं देवि न वित्तैर्न जपैरहम् । साध्यस्तथाऽपि भक्तानां कायक्लेशं वदामि ते ।। ३७.
कर्मणा मनसा वाचा मच्चित्तो यो नरो भवेत् । तस्य व्रतानि धास्यामि विविधानि निबोध मे ।। ३७.
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं प्रकीर्तितम् (-कल्कत)ा । एतानि मानसान्याहुर्व्रतानि तु धराधरे ।। ३७.
एकभक्तं तथा नक्तमुपवासादिकं च यत् । तत्सर्वं कायिकं पुंसां व्रतं भवति नान्यथा ।। ३७.