इत्येवं पूजिता यूयमिष्टान् कामान् प्रयच्छत । आयुः कीर्तिं धनं पुत्रान् विद्यामभिजनं स्मृतिम् ।। ३४.
इत्युक्त्वा तु तदा ब्रह्मा तेषां पन्थानमाकरोत् । दक्षिणायनसंज्ञं तु पितॄणां च पितामहः ।। ३४.
तूष्णीं ससर्ज भूतानि तमूचुः पितरस्ततः । वृत्तिं नो देहि भगवन् यया विन्दामहे सुखम् ।। ३४.
ब्रह्मा उवाच । अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः । तर्पिता मानुषैस्तृप्तिं परां गच्छथ नान्यथा ।। ३४.
तिला देयास्तथैतस्यामुपोष्य पितृभक्तितः । परमं तस्य संतुष्टा वरं यच्छत मा चिरम् ।। ३४.
महातपा उवाच । ब्रह्मणो मानसः पुत्रः अत्रिर्नाम महातपाः । तस्य पुत्रोऽभवत्सोमो दक्षजामातृतां गतः ।। ३५.
सप्तविंशति याः कन्या दाक्षायण्यः प्रकीर्त्तिताः । सोमपत्न्योऽतिमन्तव्यास्तासां श्रेष्ठा तु रोहिणि ।। ३५.
तामेव रमते सोमो नेतरा इति शुश्रुमः । इतराः प्रोचुरागत्य दक्षस्यासमतां शशेः ।। ३५.
दक्षोऽप्यसकृदागत्य तमुवाच स नाकरोत् । समतां सोऽपि तं दक्षः शशापान्तर्हितो भव ।। ३५.
एवं शप्तस्तु दक्षेण सोमो देहं त्यजेदथ । उवाच सोमो दक्षं तु भवानेवं भविष्यति । अनेकजो विहायेमं ब्रह्मदेहं सनातनम् ।। ३५.
एवमुक्त्वा क्षयं सोम अगमद् दक्षशापतः । देवा मनुष्याः पशवो नष्टे सोमे सवीरुधः ।। ३५.
क्षीणाभवंस्तदा सर्वा ओषध्यश्च विशेषतः । क्षयं गच्छद्भिरत्यर्थमोषधीभिः सुरर्षभाः ।। ३५.
मूलेषु वीरुधां सोमः स्थित इत्यूचुरातुराः । तेषां चिन्ताऽभवत् तीव्रा विष्णुं च शरणं ययुः ।। ३५.
भगवानाह तान् सर्वान् ब्रूत किं क्रियते मया । ते चोचुर्देव दक्षेण शप्तः सोमो विनाशितः ।। ३५.
तानुवाच तदा देवो मथ्यतां कलशोदधिः । ओषध्यः सर्वतो देवाः प्रक्षिप्याशु सुसंयतैः ।। ३५.
एवमुक्त्वा ततो देवान् दध्यौ रुद्रं हरिः स्वयम् । ब्रह्माणं च तथा दध्यौ वासुकिं नेत्रकारणात् ।। ३५.
ते सर्वे तत्र सहिता ममन्थुर्वरुणालयम् । तस्मिंस्तु मथिते जातः पुनः सोमो महीपते ।। ३५.
योऽसौ क्षेत्रज्ञसंज्ञो वै देहेऽस्मिन् पुरुषः परः । स एव सोमो मन्तव्यो देहिनां जीवसंज्ञितः । परेच्छया स मूर्त्तिं तु पृथक् सौम्यां प्रपेदिवान् ।। ३५.
तमेव देवमनुजाः षोडशेमाश्च देवताः । उपजीवन्ति वृक्षाश्च तथैवोषधयः प्रभुम् ।। ३५.
रुद्रस्तमेव सकलं दधार शिरसा तदा । तदात्मिका भवन्त्यापो विश्वमूर्तिरसौ स्मृतः ।। ३५.
तस्य ब्रह्मा ददौ प्रीतः पौर्णमासीं तिथिं प्रभुः । तस्यामुपोषयेद् राजंस्तमर्थं प्रतिपादयेत् ।। ३५.
यवान्नहारश्च भवेत् तस्य ज्ञानं प्रयच्छति । कान्तिं पुष्टिं च राजेन्द्र धनं धान्यं च केवलम् ।। ३५.
महातपा उवाच । आदित्रेतासु राजानो मणिजा ये प्रकीर्त्तिताः । कथयिष्यामि तान् राजन् यत्र जातोऽपि पार्थिव ।। ३६.
योऽसौ सुप्रभनामासीत् स त्वं राजन् कृते युगे । जातोऽसि नाम्ना विख्यातः प्रजापालेति शोभनः ।। ३६.
शेषास्त्रेतायुगे राजन् भविष्यन्ति महाबलाः । यो दीप्ततेजा मणिजः स शन्तेति प्रकीर्तितः ।। ३६.
सुरश्मिर्भविता राजा शशकर्णो महाबलः । शुभदर्शनः पाञ्चालो भविष्यति नराधिपः ।। ३६.
सुशान्तिरङ्गवंशे वै सुन्दरोऽप्यङ्ग इत्युत । सुन्दश्च मुचुकुन्दोऽभूत्सुद्युम्नस्तुर एव च ।। ३६.
सुमनाः सोमदत्तस्तु शुभः संवरणोऽभवत् । सुशीलो वसुदानस्तु सुखदो सुपतिर्भवत् ।। ३६.
शम्भुः सेनापतिरभूत् सुकान्तो दशरथः स्मृतः । सोमोऽभूज्जनको राजा एते त्रेतायुगे नृप ।। ३६.
सर्वे भूमिमिमां राजन् भुक्त्वा ते वसुधाधिपाः । इष्ट्वा च विविधैर्यज्ञैर्दिवं प्राप्स्यन्त्यसंशयम् ।। ३६.