आभिव्यप्तिमिदं सर्वं जगन्नारायणेन ह । इत्येतत् कथितं देवि किमन्यच्छ्रोतुमिच्छसि ।। ४.
धरण्युवाच । नारदेनैवमुक्तस्तु तदा राजा प्रियव्रतः । कृतवान् किं ममाचक्ष्व प्रसादात् परमेश्वर ।। ४.
श्रीवराह उवाच । भवतीं सप्तधा कृत्वा पुत्राणां च प्रदाय सः । प्रियव्रतस्तपस्तेपे नारदाच्छ्रुतविस्मयः ।। ४.
नारायणात्मकं ब्रह्म परं जप्त्वा स्वयंभुवः । ततस्तुष्टमनाः पारं परं निर्वाणमाप्तवान् ।। ४.
श्रृणु चान्यद् वरारोहे यद् वृत्तं परमेष्ठिनः । आराधनाय यततः पुराकाले नृपस्य ह ।। ४.
आसीदश्वशिरा नाम राजा परमधार्मिकः । सोऽश्वमेधेन यज्ञेन यष्ट्वा सुबहुदक्षिणः ।। ४.
स्नातश्चावभृथे सोऽथ ब्राह्मणैः परिवारितः । यावदास्ते स राजर्षिस्तावद् योगिवरो मुनिः । आययौ कपिलः श्रीमान् जैगीषव्यश्च योगिराट् ।। ४.
ततस्त्वरितमुत्थाय स राजा स्वागतक्रियाम् । चकार परया युक्तः स मुदा राजसत्तमः ।। ४.
तावर्च्चितावासनगौ दृष्ट्वा राजा महाबलः । पप्रच्छ तौ तिग्मधियौ योगज्ञौ स्वेच्छयागतौ ।। ४.
भवन्तौ संशयं विप्रौ पृच्छामि पुरुषोत्तमौ । कथमाराधयेद् देवं हरिं नारायणं परम् ।। ४.
विप्रावूचतुः । क एष प्रोच्यते राजंस्त्वया नारायणो गुरुः । आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षगतौ नृप ।। ४.
अश्वशिरा उवाच । भवन्तौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्बिषौ । कथं नारायणावावामिति वाक्यमथेरितम् ।। ४.
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः । गरुडस्थो महादेवः कस्तस्य सदृशो भुवि ।। ४.
तस्य राज्ञो वचः श्रुत्वा तौ विप्रौ संशितव्रतौ । जहसतुः पश्य विष्णुं राजन्निति जजल्पतुः ।। ४.
एवमुक्त्वा स कपिलः स्वयं विष्णुर्बभूव ह । जैगीषव्यश्च गरुडस्तत्क्षणात् समजायत ।। ४.
ततो हाहाकृतं त्वासीत् तत्क्षणाद् राजमण्डलम् । दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् ।। ४.
कृताञ्जलिपुटो भूत्वा ततो राजा महायशाः । उवाच शाम्यतां विप्रौ नायं विष्णुरथेदृशः ।। ४.
यस्य ब्रह्मा समुत्पन्नो नाभिपङ्कजमध्यतः । तस्माच्च ब्रह्मणो रुद्रः स विष्णुः परमेश्वरः ।। ४.
इति राजवचः श्रुत्वा तदा तौ मुनिपुंगवौ । चक्रतुः परमां मायां योगमायां विशेषतः ।। ४.
कपिलः पद्मनाभस्तु जैगीषव्यः प्रजापतिः । कमलस्थो बभौ ह्रस्वस्तस्य चाङ्के कुमारकः ।। ४.
ददर्श राजा रक्ताक्षं कालानलसमद्युतिम् । नेत्थं भवति विश्वेशो मायैषा योगिनां सदा । सर्वव्यापी हरिः श्रीमानिति राजा जगाद ह ।। ४.
ततो वाक्यावसाने तु तस्य राज्ञो हि संसदि । मशका मत्कुणा यूका भ्रमराः पक्षिणोरगाः ।। ४.
अश्वा गावो द्विपाः सिंहा व्याघ्रा गोमायवो मृगाः । अन्येऽपि पशवः कीटा ग्राम्यारण्याश्च सर्वशः । दृश्यन्ते राजभवने कोटिशो भूतधारिणि ।। ४.
तं दृष्ट्वा भूतसंघातं राजा विस्मितमानसः । यावच्चिन्तयते किं स्यादेतदित्यवगम्य च । जैगीषव्यस्य माहात्म्यं कपिलस्य च धीमतः ।। ४.
कृताञ्जलिपुटो भूत्वा स राजाऽश्वशिरास्तदा । पप्रच्छ तावृषी भक्त्या किमिदं द्विजसत्तमौ ।। ४.
द्विजावूचतुः । आवां पृष्टौ त्वया राजन् कथं विष्णुरिहेज्यते । प्राप्यते वा महाराज तेनेदं दर्शितं तव ।। ४.
सर्वज्ञस्य गुणा ह्येते ये राजंस्तव दर्शिताः । स च नारायणो देवः सर्वज्ञः कामरूपवान् ।। ४.
सौम्यस्तु संस्थितः क्वापि प्राप्यते मनुजैः किल । आराधनेन चैतस्य वाक्यमर्थवदिष्यते ।। ४.
किन्तु सर्वशरीरस्थः परमात्मा जगत्पतिः । स्वदेहे दृश्यते भक्त्या नैकस्थानगतस्तु सः ।। ४.
अतोऽर्थं दर्शितं रूपं देवस्य परमात्मनः । आवयोस्तव राजेन्द्र प्रतीतिः स्याद् यथा तव । एवं सर्वगतो विष्णुस्तव देहे जनेश्वर ।। ४.