वेदान्तवेद्याय नमो यज्ञमूर्ते नमो नमः । दक्षयज्ञविनाशाय जगद्भयकराय च ।। ३३.
विश्वेश्वराय देवाय शिवशंभुभवाय च । कपर्दिने करालाय महादेवाय ते नमः ।। ३३.
एवं देवैः स्तुतः शंभुरुग्रधन्वा सनातनः । उवाच देवदेवोऽहं यत्करोमि तदुच्यताम् ।। ३३.
देवा ऊचुः । वेदशास्त्राणि विज्ञानं देहि नो भव माचिरम् । यज्ञं सरहस्यं नो यदि तुष्टोऽसि नः प्रभो ।। ३३.
महादेव उवाच । भवन्तः पशवः सर्वे भवन्तु सहिता इति । अहं पतिर्वो भवतां ततो मोक्षमवाप्स्यथ । तथेति देवास्तं प्राहुस्ततः पशुपतिर्भवत् ।। ३३.
ब्रह्मा पशुपतिं प्राह प्रसन्नेनान्तरात्मना । चतुर्द्दशी ते देवेश तिथिरस्तु न संशयः ।। ३३.
तस्यां तिथौ भवन्तं ये यजन्ते श्रद्धयान्विताः । उपोष्य पश्चाद्भुञ्जीयाद्गोधूमान्नेन वै द्विजान् ३३.
एवमक्तस्तदा रुद्रो ब्रह्मणाऽव्यक्तजन्मना । दन्तान् नेत्रे फले प्रादाद्भगपूष्णोः क्रतोरपि । परिज्ञानं च सकलं स प्रादाच्च सुरेष्वपि ।। ३३.
एवं रुद्रस्य संभूतिः संभूता ब्रह्मणः पुरा । अनेनैव प्रयोगेन देवानां पतिरुच्यते ।। ३३.
यश्चैनं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः । सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ।। ३३.
महातपा उवाच । पितॄणां संभवं राजन् कथ्यमानं निबोध मे । पूर्वं प्रजापतिर्ब्रह्मा सिसृक्षुर्विविधाः प्रजाः ।। ३४.
एकाग्रमनसा सर्वास्तन्मात्रा मनसा बहिः । कृत्वा परमकं ब्रह्म ध्यायन् सर्गेप्सुरुच्चकैः ।। ३४.
तस्यात्मनि तदा योगं गतस्य परमेष्ठिनः । तन्मात्रा निर्ययुर्देहाद् धूमवर्णाकृतित्विषः ।। ३४.
पिबाम इति भाषन्तः सुरान् सोम इति स्म ह । ऊर्ध्वं जिगमिषन्तो वै वियत्संस्थास्तपस्विनः ।। ३४.
तान् दृष्ट्वा सहसा ब्रह्मा तिर्यक्संस्थान उन्मुखान् । भवन्तः पितरः सन्तु सर्वेषां गृहमेधिनाम् ।। ३४.
ऊर्ध्ववक्त्रास्तु ये तत्र ते नान्दीमुखसंज्ञिताः । वृद्धिश्राद्धेषु सतत पूज्या श्रुतिविधानतः ।। ३४.
अग्निं पुरस्कृतो यैस्तु ते द्विजा अग्निहोत्रिणः । नित्यैर्नैमित्तिकैः काम्यैः पार्वणैस्तर्पयन्तु तान् ।। ३४.
बहिःप्रवरणा ये च क्षत्रियास्तर्पयन्तु तान् । आज्यं पिबन्ति ये चात्र तानर्चयन्तु विशः सदा ।। ३४.
ब्राह्मणैरभ्यनुज्ञाताः शूद्राः स्वपितृनामतः । तानेवार्चयतां सम्यग्विधिमन्त्रबहिष्कृताः ।। ३४.
अनाहिताग्नयो ये च ब्रह्मक्षत्रविशो नराः । स्वकालिनस्तेऽर्चयन्तु लोकाग्निपुरतः सदा ।। ३४.
इत्येवं पूजिता यूयमिष्टान् कामान् प्रयच्छत । आयुः कीर्तिं धनं पुत्रान् विद्यामभिजनं स्मृतिम् ।। ३४.
इत्युक्त्वा तु तदा ब्रह्मा तेषां पन्थानमाकरोत् । दक्षिणायनसंज्ञं तु पितॄणां च पितामहः ।। ३४.
तूष्णीं ससर्ज भूतानि तमूचुः पितरस्ततः । वृत्तिं नो देहि भगवन् यया विन्दामहे सुखम् ।। ३४.
ब्रह्मा उवाच । अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः । तर्पिता मानुषैस्तृप्तिं परां गच्छथ नान्यथा ।। ३४.
तिला देयास्तथैतस्यामुपोष्य पितृभक्तितः । परमं तस्य संतुष्टा वरं यच्छत मा चिरम् ।। ३४.
महातपा उवाच । ब्रह्मणो मानसः पुत्रः अत्रिर्नाम महातपाः । तस्य पुत्रोऽभवत्सोमो दक्षजामातृतां गतः ।। ३५.
सप्तविंशति याः कन्या दाक्षायण्यः प्रकीर्त्तिताः । सोमपत्न्योऽतिमन्तव्यास्तासां श्रेष्ठा तु रोहिणि ।। ३५.
तामेव रमते सोमो नेतरा इति शुश्रुमः । इतराः प्रोचुरागत्य दक्षस्यासमतां शशेः ।। ३५.
दक्षोऽप्यसकृदागत्य तमुवाच स नाकरोत् । समतां सोऽपि तं दक्षः शशापान्तर्हितो भव ।। ३५.
एवं शप्तस्तु दक्षेण सोमो देहं त्यजेदथ । उवाच सोमो दक्षं तु भवानेवं भविष्यति । अनेकजो विहायेमं ब्रह्मदेहं सनातनम् ।। ३५.