एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः । तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ।। ३२.
दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा । क्षणेन गतसंमोहाः सम्यक्सद्धर्मसंहिताः ।। ३२.
असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् । अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ।। ३२.
यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् । कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ।। ३२.
यच्चारण्यमिदं धर्म्म त्वया व्याप्तं चिरं प्रभो । ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ।। ३२.
चतुस्त्रिपाद् द्व्येकपाच्च प्रभो त्वं कृतादिभिर्ल्लक्ष्यसे येन लोकैः । तथा तथा कर्मभूमौ नभश्च प्रायोयुक्तः स्वगृहं पाहि विश्वम् ।। ३२.
इत्युक्तमात्रः प्रपितामहोऽधुना सुरासुराणामथ पश्यतां नृप । अदृश्यतामगमत् स्वालयांश्च जग्मुः सुराः सवृषा वीतशोकाः ।। ३२.
धर्मोत्पत्तिं य इमां श्रावयीत तदा श्राद्धे तर्पयेत पितॄंश्च । त्रयोदश्यां पायसेन स्वशक्त्या स स्वर्गगामी तु सुरानुपेयात् ।। ३२.
श्रीवराह उवाच । अथापरां रुद्रसंभूतिमाद्यां श्रृणुष्व राजन्निति सोऽभ्युवाच । महातपाः प्रीतितो धर्म्मदक्षः क्षमास्त्रधारी ऋषिरुग्रतेजाः ।। ३३.
जातः प्रजानां पतिरुग्रतेजा ज्ञानं परं तत्त्वभावं विदित्वा । सृष्टिं सिसृक्षुः क्षुभितोऽतिकोपाद वृद्धिकाले जगतः प्रकामम् ।। ३३.
तपस्यतोऽतः स्थिरकीर्तिः पुराणो रजस्तमोध्वस्तगतिर्बभूव । वरो वरेण्यो वरदः प्रतापी कृष्णारुणः पुरुषः पिङ्गनेत्रः ।। ३३.
रुदन्नुक्तो ब्रह्मणा मा रुद त्वं रुद्रस्ततोऽसावभवत् पुराणः । नयस्व सृष्टिं विततस्वरूपां भवान् समर्थोऽसि महानुभाव ।। ३३.
इत्युक्तमात्रः सलिले ममज्जमग्ने ससर्जात्मभवाय दक्षः । कस्थे तदा देववरे वितेनुः सृष्टिं तु ते मानसा ब्रह्मजाताः ।। ३३.
तस्यां ततायां तु सुराधिपे तु पैतामहं यज्ञवरं प्रकामम् । मग्नः पुरा यत्सलिले स रुद्रः उत्सृज्य विश्वं तु सुरान् सिसृक्षुः ।। ३३.
सुस्त्राव यज्ञं सुरसिद्धयक्षानुपागतान् क्रोधवशं जगाम । मन्युं प्रदीप्तं परिभाव्य केन सृष्टं जगन्मां व्यतिरिच्य मोहात् ।। ३३.
हा हेति चोक्ते ज्वलनार्चिषस्तु तत्राभवन् क्षुद्रपिशाचसङ्घा वेतालभूतानि च योगिसङ्घाः ।। ३३.
घनं यदा तैर्विततं वियच्च भूमिश्च सर्वाश्च दिशश्च लोकाः । तदा स सर्वज्ञतया चकार धनुश्चतुर्विंशतिहस्तमात्रम् ।। ३३.
गुणं त्रिवृत्तं च चकार रोषादादत्त दिव्ये च धनुर्गुणं च । ततश्च पूष्णो दशनानविध्यद् भगस्य नेत्रे वृषणौ क्रतोश्च ।। ३३.
स विद्धबीजो व्यपयात्क्रतुश्च मार्गं वायुर्धारधन् यज्ञवाटात् । देवाश्च सर्वे पशुपतिमुपेयुर्जग्मुश्च सर्वे प्रणतिं भवस्य ।। ३३.
आगम्य तत्रैव पितामहस्तु भवं प्रतीतः संपरिष्वज्य देवान् । भक्त्योपेतान् वीक्षयद् देवदेवान् विज्ञानमन्तः कुरु वीरबाहो ।। ३३.
रुद्र उवाच । सृष्टः पूर्वं भवताऽहं न चेमे कस्मान्न भागं परिकल्पयन्ति । यज्ञोद्भवं तेन रुषा मयेमे हृतज्ञाना विकृता देवदेव ।। ३३.
ब्रह्मा उवाच । देवाः शंभुं स्तुतिभिर्ज्ञानहेतोर् यजध्वमुच्चैरसुराश्च सर्वे । येन रुद्रो भगवांस्तोषमेति सर्वज्ञता तोषमात्रस्य च स्यात् ।। ३३.
इत्युक्तास्तेन ते देवाः स्तुतिं चक्रुर्महात्मनः ।। ३३.
देवा ऊचुः । नमो देवातिदेवाय त्रिनेत्राय महात्मने । रक्तपिङ्गलनेत्राय जटामुकुटधारिणे ।। ३३.
भूतवेतालजुष्टाय महाभोगोपवीतिने । भीमाट्टहासवक्त्राय कपर्दिन् स्थाणवे नमः ।। ३३.
पूष्णो दन्तविनाशाय भगनेत्रहने नमः । भविष्यवृषचिह्नाय महाभूतपते नमः ।। ३३.
भविष्यत्रिपुरान्ताय तथान्धकविनाशिने । कैलासवरवासाय करिकृत्तिनिवासिने ।। ३३.
विकरालोद्र्ध्वकेशाय भैरवाय नमो नमः । अग्निज्वालाकरालाय शशिमौलिकृते नमः ।। ३३.
भविष्यकृतकापालिव्रताय परमेष्ठिने । तथा दारुवनध्वंसकारिणे तिग्मशूलिने ।। ३३.
कृतकङ्कणभोगीन्द्र नीलकण्ठ त्रिशूलिने । प्रचण्डदण्डहस्ताय वडवाग्निमुखाय च ।। ३३.