ततो ब्रह्मा ययौ तत्र देवासुरयुतस्त्वरन् । ददर्श च सुरैः सार्द्धं चतुष्पादं वृषाकृतिम् । चरन्तं शशिसङ्काशं दृष्ट्वा देवानुवाच ह ।। ३२.
ब्रह्मा उवाच । अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम् । पत्नीं जिघृक्षता भ्रातुर्द्धर्मसंज्ञो महामुनिः ।। ३२.
इदानीं तोषयध्वं वै सर्व एव सुरासुराः । येन स्थितिर्वो भवति समं देवासुरा इति ।। ३२.
ततः सर्वे स्तुतिं चक्रुस्तस्य देवस्य हर्षिताः । विदित्वा ब्रह्मणो वाक्यात् संपूर्णशशिसन्निभम् ।। ३२.
देवा ऊचुः । नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते । नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक । कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ।। ३२.
त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि । जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ।। ३२.
न त्वया रहितं किंचिज्जगत्स्थावरजङ्गमम् । विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ।। ३२.
त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् । राजसानां रजस्त्वं च तामसानां तम एव च ।। ३२.
चतुष्पादो भवान् देव चतुश्श्रृङ्गस्त्रिलोचनः । सप्तहस्तस्त्रिबन्धश्च वृषरूप नमोऽस्तु ते ।। ३२.
त्वया हीना वयं देव सर्व उन्मार्गवर्त्तिनः । तन्मार्गं यच्छ मूढानां त्वं हि नः परमा गतिः ।। ३२.
एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः । तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ।। ३२.
दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा । क्षणेन गतसंमोहाः सम्यक्सद्धर्मसंहिताः ।। ३२.
असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् । अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ।। ३२.
यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् । कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ।। ३२.
यच्चारण्यमिदं धर्म्म त्वया व्याप्तं चिरं प्रभो । ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ।। ३२.
चतुस्त्रिपाद् द्व्येकपाच्च प्रभो त्वं कृतादिभिर्ल्लक्ष्यसे येन लोकैः । तथा तथा कर्मभूमौ नभश्च प्रायोयुक्तः स्वगृहं पाहि विश्वम् ।। ३२.
इत्युक्तमात्रः प्रपितामहोऽधुना सुरासुराणामथ पश्यतां नृप । अदृश्यतामगमत् स्वालयांश्च जग्मुः सुराः सवृषा वीतशोकाः ।। ३२.
धर्मोत्पत्तिं य इमां श्रावयीत तदा श्राद्धे तर्पयेत पितॄंश्च । त्रयोदश्यां पायसेन स्वशक्त्या स स्वर्गगामी तु सुरानुपेयात् ।। ३२.
श्रीवराह उवाच । अथापरां रुद्रसंभूतिमाद्यां श्रृणुष्व राजन्निति सोऽभ्युवाच । महातपाः प्रीतितो धर्म्मदक्षः क्षमास्त्रधारी ऋषिरुग्रतेजाः ।। ३३.
जातः प्रजानां पतिरुग्रतेजा ज्ञानं परं तत्त्वभावं विदित्वा । सृष्टिं सिसृक्षुः क्षुभितोऽतिकोपाद वृद्धिकाले जगतः प्रकामम् ।। ३३.
तपस्यतोऽतः स्थिरकीर्तिः पुराणो रजस्तमोध्वस्तगतिर्बभूव । वरो वरेण्यो वरदः प्रतापी कृष्णारुणः पुरुषः पिङ्गनेत्रः ।। ३३.
रुदन्नुक्तो ब्रह्मणा मा रुद त्वं रुद्रस्ततोऽसावभवत् पुराणः । नयस्व सृष्टिं विततस्वरूपां भवान् समर्थोऽसि महानुभाव ।। ३३.
इत्युक्तमात्रः सलिले ममज्जमग्ने ससर्जात्मभवाय दक्षः । कस्थे तदा देववरे वितेनुः सृष्टिं तु ते मानसा ब्रह्मजाताः ।। ३३.
तस्यां ततायां तु सुराधिपे तु पैतामहं यज्ञवरं प्रकामम् । मग्नः पुरा यत्सलिले स रुद्रः उत्सृज्य विश्वं तु सुरान् सिसृक्षुः ।। ३३.
सुस्त्राव यज्ञं सुरसिद्धयक्षानुपागतान् क्रोधवशं जगाम । मन्युं प्रदीप्तं परिभाव्य केन सृष्टं जगन्मां व्यतिरिच्य मोहात् ।। ३३.
हा हेति चोक्ते ज्वलनार्चिषस्तु तत्राभवन् क्षुद्रपिशाचसङ्घा वेतालभूतानि च योगिसङ्घाः ।। ३३.
घनं यदा तैर्विततं वियच्च भूमिश्च सर्वाश्च दिशश्च लोकाः । तदा स सर्वज्ञतया चकार धनुश्चतुर्विंशतिहस्तमात्रम् ।। ३३.
गुणं त्रिवृत्तं च चकार रोषादादत्त दिव्ये च धनुर्गुणं च । ततश्च पूष्णो दशनानविध्यद् भगस्य नेत्रे वृषणौ क्रतोश्च ।। ३३.
स विद्धबीजो व्यपयात्क्रतुश्च मार्गं वायुर्धारधन् यज्ञवाटात् । देवाश्च सर्वे पशुपतिमुपेयुर्जग्मुश्च सर्वे प्रणतिं भवस्य ।। ३३.
आगम्य तत्रैव पितामहस्तु भवं प्रतीतः संपरिष्वज्य देवान् । भक्त्योपेतान् वीक्षयद् देवदेवान् विज्ञानमन्तः कुरु वीरबाहो ।। ३३.