ततः सस्मार भगवान् वरदानं पुरातनम् । वागादीनां ततस्तुष्टः प्रादात् तस्य पुनर्वरम् ।। ३१.
सर्वज्ञः सर्वकर्ता त्वं सर्वलोकनमस्कृतः । त्रैलोक्यविशनाच्च त्वं भव विष्णुः सनातनः ।। ३१.
देवानां सर्वदा कार्यं कर्त्तव्यं ब्रह्मणस्तथा । सर्वज्ञत्वं च भवतु तव देव न संशयः ।। ३१.
एवमुक्त्वा ततो देवः प्रकृतिस्थो बभूव ह । विष्णुरप्यधुना पूर्वां बुद्धिं सस्मार च प्रभुः ।। ३१.
तदा संचिन्त्य भगवान् योगनिद्रां महातपाः । तस्यां संस्थाप्य भगवानिन्द्रियार्थोद्भवाः प्रजाः । ध्यात्वा परेण रूपेण ततः सुष्वाप वै प्रभुः ।। ३१.
तस्य सुप्तस्य जठरान्महत्पद्मं विविःसृतम् । सप्तद्वीपवती पृथ्वी ससमुद्रा सकानना ।। ३१.
तस्य रूपस्य विस्तारं पातालं नालसंस्थितम् । कर्णिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः ।। ३१.
एवं दृष्ट्वा परं तस्य शरीरस्य तु संभवम् । मुमुचे तच्छरीरस्थो वायुर्वायुं समं सृजत् ।। ३१.
अविद्याविजयं चेमं शङ्खरूपेण धारय । अज्ञानच्छेदनार्थाय खङ्गं तेऽस्तु सदा करे ।। ३१.
कालचक्रमिमं घोरं चक्रं त्वं धारयाच्युत । अधर्मगजघातार्थं गदां धारय केशव ।। ३१.
मालेयं भूतमाता ते कण्ठे तिष्ठतु सर्वदा । श्रीवत्सकौस्तुभौ चेमौ चन्द्रादित्यच्छलेन ह ।। ३१.
मारुतस्ते गतिर्वीर गरुत्मान् स च कीर्त्तितः । त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदाश्रये । द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते ।। ३१.
घृताशनो भवेद्यस्तु द्वादश्यां त्वल्परायणः । स स्वर्गवासी भवतु पुमान् स्त्री वा विशेषतः ।। ३१.
एष विष्णुस्तवाख्यातो मूर्तयो देवदानवान् । हन्ति पाति शरीराणि सृजत्यन्यानि चात्मनः ।। ३१.
युगे युगे सर्वगोऽयं वेदान्ते पुरुषो ह्यसौ । न हीनबुद्ध्या वक्तव्यो मनुष्योऽयं कदाचन ।। ३१.
य एवं श्रृणुयात् सर्गं वैष्णवं पापनाशनम् । स कीर्तिमिह संप्राप्य स्वर्गलोके महीयते ।। ३१.
पूर्वं ब्रह्माऽव्ययः शुद्धः परादपरसंज्ञितः । स सिसृक्षुः प्रजास्त्वादौ पालनं च विचिन्तयत् ।। ३२.
तस्य चिन्तयतस्त्वङ्गाद् दक्षिणाच्छ्वेतकुण्डलः । प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः ।। ३२.
तं दृष्ट्वोवाच भगवांश्चतुष्पादं वृषाकृतिम् । पालयेमाः प्रजाः साधो त्वं ज्येष्ठो जगतो भव ।। ३२.
इत्युक्तः समवस्थोऽसौ चतुःपद्भ्यां कृते युगे । त्रेतायां स समस्तृभ्यां द्वे चैव द्वापरेऽभवत् । कलावेकेन पादेन प्रजाः पालयते प्रभुः ।। ३२.
षड्भेदो ब्राह्मणानां स त्रिधा क्षत्रे व्यवस्थितः । द्विधा वैश्येकधा शूद्रे स्थितः सर्वगतः प्रभुः । रसातलेषु सर्वेषु द्वीपवर्षे स्वयं प्रभुः ।। ३२.
द्रव्यगुणक्रियाजातिचतुःपादः प्रकीर्तितः । संहितापदक्रमश्चैव त्रिश्रृङ्गोऽसौ स्मृतो बुधैः ।। ३२.
तथा आद्यन्त ओङ्कार द्विशिराः सप्तहस्तवान् । त्रिबद्धबद्धो विप्राणां मुख्यः पालयते जगत् ।। ३२.
स धर्मः पीडितः पूर्वं सोमेनाद्भुतकर्मण । तारां जिघृक्षता पत्नीं भ्रातुराङ्गिरसस्य ह ।। ३२.
सोऽपायाद् भीषितस्तेन बलिना क्रूरकर्मणा । अरण्यं गहनं घोरमाविवेश तदा प्रभुः ।। ३२.
तस्मिन् गते सुराः सर्वे असुराणां तु पत्नयः । जिघृक्षन्तस्तदौकांसि बभ्रमुर्धर्मवञ्चिताः । असुरा अपि तद्वच्च सुरवेश्मनि बभ्रमुः ।। ३२.
निर्मर्यादे तथा जाते धर्मनाशे च पार्थिव । देवासुरा युयुधिरे सोमदोषेण कोपिताः । स्त्रीहेतोश्च महाभाग विविधायुधपाणयः ।। ३२.
तान् दृष्ट्वा युध्यतो देवानसुरैः सह कोपितान् । नारदः प्राह संगम्य पित्रे ब्रह्मणि हर्षितः ।। ३२.
स हंसयानमारुह्य सर्वलोकपितामहः । निवारयामास तदा कस्यार्थे युद्धमब्रवीत् ।। ३२.
सर्वे शशंसुः सोमं तु स तु बुद्ध्वा स्वकं सुतम् । पीडनादपयातं तु गहनं वनमाश्रितम् ।। ३२.