ब्रह्मणः सृष्टिकामस्य मुखाद् वायुर्विनिर्ययौ । प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत् । मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवत् ।। ३०.
सर्वेषां चैव देवानां यद् वित्तं फलमेव च । तत्सर्वं पाहि येनोक्तं तस्माद् धनपतिर्भवत् ।। ३०.
तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः । तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः ।। ३०.
तस्याशु धनदो देवस्तुष्टः सर्वं प्रयच्छति । एषा धनपतेर्मूर्तिः सर्वकिल्बिषनाशिनी ।। ३०.
य एतां श्रृणुयाद् भक्त्या पुरुषः पठतेऽपि वा । सर्वकाममवाप्नोति स्वर्गलोकं च गच्छति ।। ३०.
महातपा उवाच । मनोर्नाम मनुत्वं च यदेतत् पठ्यते किल । प्रयोजनवशाद् विष्णुरसावेव तु मूर्त्तिमान् ।। ३१.
योऽसौ नारायणो देवः परात् परतरो नृप । तस्य चिन्ता समुत्पन्ना सृष्टिं प्रति नरोत्तम ।। ३१.
सृष्टा चेयं मया सृष्टिः पालनीया मयैव ह । कर्मकाण्डं त्वमूर्त्तेन कर्तुं नैवेह शक्यते । तस्मान्मूर्त्तिं सृजाम्येकां यया पाल्यमिदं जगत् ।। ३१.
एवं चिन्तयतस्तस्य सत्याभिध्यायिनो नृप । प्राक्सृष्टिजातं राजन् वै मूर्त्तिमत् तत्पुरो बभौ ।। ३१.
पुरोभूते ततस्तस्मिन् देवो नारायणः स्वयम् । प्रविशन्तं ददर्शाथ त्रैलोक्यं तस्य देहतः ।। ३१.
ततः सस्मार भगवान् वरदानं पुरातनम् । वागादीनां ततस्तुष्टः प्रादात् तस्य पुनर्वरम् ।। ३१.
सर्वज्ञः सर्वकर्ता त्वं सर्वलोकनमस्कृतः । त्रैलोक्यविशनाच्च त्वं भव विष्णुः सनातनः ।। ३१.
देवानां सर्वदा कार्यं कर्त्तव्यं ब्रह्मणस्तथा । सर्वज्ञत्वं च भवतु तव देव न संशयः ।। ३१.
एवमुक्त्वा ततो देवः प्रकृतिस्थो बभूव ह । विष्णुरप्यधुना पूर्वां बुद्धिं सस्मार च प्रभुः ।। ३१.
तदा संचिन्त्य भगवान् योगनिद्रां महातपाः । तस्यां संस्थाप्य भगवानिन्द्रियार्थोद्भवाः प्रजाः । ध्यात्वा परेण रूपेण ततः सुष्वाप वै प्रभुः ।। ३१.
तस्य सुप्तस्य जठरान्महत्पद्मं विविःसृतम् । सप्तद्वीपवती पृथ्वी ससमुद्रा सकानना ।। ३१.
तस्य रूपस्य विस्तारं पातालं नालसंस्थितम् । कर्णिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः ।। ३१.
एवं दृष्ट्वा परं तस्य शरीरस्य तु संभवम् । मुमुचे तच्छरीरस्थो वायुर्वायुं समं सृजत् ।। ३१.
अविद्याविजयं चेमं शङ्खरूपेण धारय । अज्ञानच्छेदनार्थाय खङ्गं तेऽस्तु सदा करे ।। ३१.
कालचक्रमिमं घोरं चक्रं त्वं धारयाच्युत । अधर्मगजघातार्थं गदां धारय केशव ।। ३१.
मालेयं भूतमाता ते कण्ठे तिष्ठतु सर्वदा । श्रीवत्सकौस्तुभौ चेमौ चन्द्रादित्यच्छलेन ह ।। ३१.
मारुतस्ते गतिर्वीर गरुत्मान् स च कीर्त्तितः । त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदाश्रये । द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते ।। ३१.
घृताशनो भवेद्यस्तु द्वादश्यां त्वल्परायणः । स स्वर्गवासी भवतु पुमान् स्त्री वा विशेषतः ।। ३१.
एष विष्णुस्तवाख्यातो मूर्तयो देवदानवान् । हन्ति पाति शरीराणि सृजत्यन्यानि चात्मनः ।। ३१.
युगे युगे सर्वगोऽयं वेदान्ते पुरुषो ह्यसौ । न हीनबुद्ध्या वक्तव्यो मनुष्योऽयं कदाचन ।। ३१.
य एवं श्रृणुयात् सर्गं वैष्णवं पापनाशनम् । स कीर्तिमिह संप्राप्य स्वर्गलोके महीयते ।। ३१.
पूर्वं ब्रह्माऽव्ययः शुद्धः परादपरसंज्ञितः । स सिसृक्षुः प्रजास्त्वादौ पालनं च विचिन्तयत् ।। ३२.
तस्य चिन्तयतस्त्वङ्गाद् दक्षिणाच्छ्वेतकुण्डलः । प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः ।। ३२.
तं दृष्ट्वोवाच भगवांश्चतुष्पादं वृषाकृतिम् । पालयेमाः प्रजाः साधो त्वं ज्येष्ठो जगतो भव ।। ३२.
इत्युक्तः समवस्थोऽसौ चतुःपद्भ्यां कृते युगे । त्रेतायां स समस्तृभ्यां द्वे चैव द्वापरेऽभवत् । कलावेकेन पादेन प्रजाः पालयते प्रभुः ।। ३२.