यावदास्ते चतुर्वक्त्रस्तावदन्तर्जलाद् बहिः । निश्चक्राम ततो देवीं कृतकृत्यां ददर्श सः ।। २८.
तां दृष्ट्वा देवकार्यं च सिद्धं मत्वा पितामहः । भविष्यं कार्यमुद्दिश्य ततो वचनमब्रवीत् ।। २८.
ब्रह्मोवाच । इयं देवी वरारोहा यातु शैलं हिमोद्भवम् । तत्र यूयं सुराः सर्वे गत्वा नन्दत माचिरम् ।। २८.
नवम्यां च सदा पूज्या इयं देवी समाधिना । वरदा सर्वलोकानां भविष्यति न संशयः ।। २८.
नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः । नारी वा तस्य संपन्नं भविष्यति मनोगतम् ।। २८.
यश्च सायं तथा प्रातरिदं स्तोत्रं पठिष्यति । त्वयेरितं महादेव तस्य देव्या समं भवान् ।। २८.
वरदो देव सर्वासु आपत्स्वप्युद्धरस्व तम् । एवमुक्त्वा भवं ब्रह्मा पुनर्देवीं स चाब्रवीत् ।। २८.
त्वया देवि महत्कार्यं कर्तव्यं चान्यदस्ति नः । भविष्यं महिषाख्यस्य असुरस्य विनाशनम् ।। २८.
एवमुक्त्वा ततो ब्रह्मा सर्वे देवाश्च पार्थिव । यथागतं ततो जग्मुर्द्देवीं स्थाप्य हिमे गिरौ । संस्थाप्य नन्दिता यस्मात् तस्मान्नन्दाऽभवत् तु सा ।। २८.
यश्चेदं श्रृणुयाज्जन्म देव्या यश्च स्वयं पठेत् । सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। २८.
महातपा उवाच । श्रृणु राजन्नवहितः प्रजापाल कथामिमाम् । यदा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ।। २९.
ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते । चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ।। २९.
एवं चिन्तयतस्तस्य अवकाशं प्रजास्विह । प्रादुर्बभूवुः श्रोत्रेभ्यः दश कन्या महाप्रभाः ।। २९.
पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा । ऊर्ध्वाऽधरा च षण्मुख्याः कन्या ह्यासंस्तदा नृप ।। २९.
अन्याश्चतस्त्रस्तेषां तु कन्याः परमशोभनाः । रूपस्विन्यो महाभागा गाम्भीर्येण समन्विताः ।। २९.
ता ऊचुः प्रणयाद् देवं प्रजापतिमकल्मषम् । अवकाशं तु नो देहि देवदेव प्रजापते ।। २९.
यत्र तिष्ठामहे सर्वा भर्तृभिः सहिताः सुखम् । पतयश्च महाभागा देहि नोऽव्यक्तसंभव ।। २९.
ब्रह्मोवाच । ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् । तस्यान्ते स्वेच्छया भद्रा उष्यतां मा विलम्बत ।। २९.
भर्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः । यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ।। २९.
एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा । ब्रह्मापि ससृजे तूर्णं लोकपालान् महाबलान् ।। २९.
सृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयत् । विवाहं कारयामास ब्रह्मा लोकपितामहः ।। २९.
एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च । निर्ऋताय च देवाय वरुणाय महात्मने ।। २९.
वायवे धनदेशाय ईशानाय च सुव्रत । ऊर्द्ध्वां स्वयमधिष्ठाय शेषायाधो व्यवस्थिताम् ।। २९.
एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादाद् दिशां पुनः । दशमीं भर्तृनाम्नस्तु दध्यन्नं भोजनं प्रभुः ।। २९.
ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्तिताः । दशमी च तिथिस्तासामतीव दयिताभवत् ।। २९.
तस्यां दध्याशनो यस्तु सुव्रती भवते नरः । तस्य पापक्षयं तास्तु कुर्वन्त्यहरहर्नृप ।। २९.
यश्चैतच्छृणुयाज्जन्म दिशां नियतमानसः । स प्रतिष्ठामवाप्नोति ब्रह्मलोके न संशयः ।। २९.
महातपा उवाच । श्रृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् । यथा वायुः शरीरस्थो धनदः संबभूव ह ।। ३०.
आद्यं शरीरं यत् तस्मिन् वायुरन्तः स्थितोऽभवत् । प्रयोजनान्मूर्त्तिमत्त्वमादिष्टं क्षेत्रदेवता ।। ३०.
तत्र मूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यये मया । तां श्रृणुष्व महाभाग कथ्यमानां मयानघ ।। ३०.