सप्तद्वीपवतीं पश्चान्मेरुपर्वतमारुहत् । तत्रेन्द्रं प्रथमं जिग्ये पश्चादग्निं यमं ततः । निर्ऋतिं वरुणं वायुं धनदश्चेश्वरं ततः ।। २८.
इन्द्रो भग्नो गतः सोग्निं अग्निर्भग्नो यमं ययौ । यमो निर्ऋतिमागच्छन्निर्ऋतिर्वरुणं ययौ ।। २८.
इन्द्रादिभिरुपेतस्तु वरुणो वायुमन्वगात् । वायुर्धनपतिं त्वागात् सर्वैरिन्द्रादिभिः सह ।। २८.
धनदोऽपि स्वकं मित्रमीशं देवसमन्वितः । इयाय गदया सोऽपि दानवो बलदर्पितः । गदामादाय दुद्राव शिवलोकं प्रति प्रभो ।। २८.
शिवोऽप्यवध्यं तं मत्वा देवान् गुह्य ययौ पुरीम् । ब्रह्मणः सुरसिद्धाद्यैर्वन्दितां पुण्यकारिभिः ।। २८.
तत्र ब्रह्मा जगत्स्त्रष्टा विष्णुपादोद्भवे जले । नियामिताकाशगतो जपत्यन्तर्जले शुभे । क्षेत्रज्ञमायां गायत्रीं ततो देवा विचुक्रुशुः ।। २८.
त्राहि प्रजापते सर्वान् देवानृषिवरानपि । असुराद्भयमापन्नान् त्राहि त्राहीत्यचोदयन् ।। २८.
एवमुक्तस्तदा ब्रह्मा दृष्ट्वा देवांस्तदागतान् । चिन्तयामास देवस्य मायेयं विततं जगत् । नासुरा न सुराश्चात्र मायेयं कीदृशी मता ।। २८.
एवं चिन्तयतस्तस्य प्रादुरासीदयोनिजा । शुक्लाम्बरधरा कन्या स्त्रक्किरीटोज्ज्वलानना । अष्टभिर्बाहुभिर्युक्ता दिव्यप्रहरणोद्यता ।। २८.
चक्रं शङ्खं गदां पाशं खङ्गं घण्टां तथा धनुः । धारयन्ती तथा चान्यान् बद्धतूणा जलाद् बहिः ।। २८.
निश्चक्राम महादेवी सिंहवाहनवेगिता । युयुधे चासुरान् सर्वानेकैव बहुधा स्थिता ।। २८.
दिव्यं वर्षसहस्त्रं तु दिव्यैरस्त्रैर्महाबलम् । युद्ध्वा कालात्यये देव्या हतो वैत्रासुरो रणे । ततः किलकिलाशब्दो देवसैन्येऽभवन्महान् ।। २८.
हते वैत्रासुरे भीमे तदा सर्वे दिवौकसः । प्रणेमुर्जय युद्धेति स्वयमीशः स्तुतिं जगौ ।। २८.
महेश्वर उवाच । जयस्व देवि गायत्रे महामाये महाप्रभे । महादेवि महाभागे महासत्त्वे महोत्सवे ।। २८.
दिव्यगन्धानुलिप्ताङ्गि दिव्यस्त्रग्दामभूषिते । वेदमातर्नमस्तुभ्यं त्र्यक्षरस्थे महेश्वरि ।। २८.
त्रिलोकस्थे त्रितत्त्वस्थे त्रिवह्निस्थे त्रिशूलिनि । त्रिनेत्रे भीमवक्त्रे च भीमनेत्रे भयानके । कमलासनजे देवि सरस्वति नमोऽस्तु ते ।। २८.
नमः पङ्कजपत्राक्षि महामायेऽमृतस्त्रवे । सर्वगे सर्वभूतेशि स्वाहाकारे स्वधेऽम्बिके ।। २८.
संपूर्णे पूर्णचन्द्राभे भास्वराङ्गे भवोद्भवे । महाविद्ये महावेद्ये महादैत्यविनाशिनि । महाबुद्ध्युद्भवे देवि वीतशोके किरातिनि ।। २८.
त्वं नीतिस्त्वं महाभागे त्वं गीस्त्वं गौस्त्वमक्षरम् । त्वं धीस्त्वं श्रीस्त्वमोङ्कारस्तत्त्वे चापि परिस्थिता । सर्वसत्त्वाहिते देवि नमस्ते परमेश्वरि ।। २८.
इत्येवं संस्तुता देवी भवेन परमेष्ठिना । देवैरपि जयेत्युच्चैरित्युक्ता परमेश्वरी ।। २८.
यावदास्ते चतुर्वक्त्रस्तावदन्तर्जलाद् बहिः । निश्चक्राम ततो देवीं कृतकृत्यां ददर्श सः ।। २८.
तां दृष्ट्वा देवकार्यं च सिद्धं मत्वा पितामहः । भविष्यं कार्यमुद्दिश्य ततो वचनमब्रवीत् ।। २८.
ब्रह्मोवाच । इयं देवी वरारोहा यातु शैलं हिमोद्भवम् । तत्र यूयं सुराः सर्वे गत्वा नन्दत माचिरम् ।। २८.
नवम्यां च सदा पूज्या इयं देवी समाधिना । वरदा सर्वलोकानां भविष्यति न संशयः ।। २८.
नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः । नारी वा तस्य संपन्नं भविष्यति मनोगतम् ।। २८.
यश्च सायं तथा प्रातरिदं स्तोत्रं पठिष्यति । त्वयेरितं महादेव तस्य देव्या समं भवान् ।। २८.
वरदो देव सर्वासु आपत्स्वप्युद्धरस्व तम् । एवमुक्त्वा भवं ब्रह्मा पुनर्देवीं स चाब्रवीत् ।। २८.
त्वया देवि महत्कार्यं कर्तव्यं चान्यदस्ति नः । भविष्यं महिषाख्यस्य असुरस्य विनाशनम् ।। २८.
एवमुक्त्वा ततो ब्रह्मा सर्वे देवाश्च पार्थिव । यथागतं ततो जग्मुर्द्देवीं स्थाप्य हिमे गिरौ । संस्थाप्य नन्दिता यस्मात् तस्मान्नन्दाऽभवत् तु सा ।। २८.
यश्चेदं श्रृणुयाज्जन्म देव्या यश्च स्वयं पठेत् । सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। २८.