कामं योगेश्वरीं विद्धि क्रोधो माहेश्वरीं तथा । लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च ।। २७.
मोहः स्वयंभूः कौमारी मात्सर्यं चेन्द्रजं विदुः । यमदण्डधरा देवी पैशुन्यं स्वयमेव च । असूया च वराहाख्या इत्येताः परिकीर्तिताः ।। २७.
कामादिगण एषोऽयं शरीरे परिकीर्तितः । जग्राह मूर्त्तिं तु यथा तथा ते कीर्तितं मया ।। २७.
एताभिर्देवताभिश्च तस्य रक्तेऽतिशोषिते । क्षयं गताऽऽसुरी माया स च सिद्धोऽन्धकोऽभवत् । एतत् ते सर्वमाख्यातमात्मविद्याऽमृतं मया ।। २७.
य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम् । तस्य ताः सर्वतो रक्षां कुर्वन्त्यनुदिनं नृप ।। २७.
यश्चैतत् पठते जन्म मातॄणां पुरुषोत्तम । स धन्यः सर्वदा लोके शिवलोकं च गच्छति ।। २७.
तासां च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा । एताः संपूजयेद् भक्त्या बिल्वाहारो नरः सदा । तस्य ताः परितुष्टास्तु क्षेमारोग्यं ददन्ति च ।। २७.
प्रजापाल उवाच । कथं माया समुत्पन्ना दुर्गा कात्यायनी शुभा । आदिक्षेत्रे स्थिता सूक्ष्मा पृथग्मूर्त्ता व्यजायत ।। २८.
महातपा उवाच । आसीद् राजा पुरा राजन् सिन्धुद्वीपः प्रतापवान् । वरुणांशो महाराज सोऽरण्ये तपसि स्थितः ।। २८.
पुत्रो मे शक्रनाशाय भवेदिति नारधिपः । एवं कृतमतिः सोऽथ महता तपसा स्वकम् । कलेवरं स्थितो भूत्वा शोषयामास सुव्रत ।। २८.
प्रजापाल उवाच । कथं तस्य द्विजश्रेष्ठ शक्रेणापकृतं भवेत् । येनासौ तद्विनाशाय पुत्रमिच्छन् व्रते स्थितः ।। २८.
महातपा उवाच । सोऽन्यजन्मनि पुत्रोऽभूत् त्वष्टुर्बलभृतां वरः । अवध्यः सर्वशस्त्रेषु अपां फेनेन नाशितः ।। २८.
जलफेनेन निहतस्तस्मिँल्लयमवाप्नुयात् । पुनर्ब्रह्मान्वयाज्जातः सिन्धुद्वीपेति संज्ञितः । स तेपे परमं तीव्रं शक्रवैरमनुस्मरन् ।। २८.
ततः कालेन महता नदी वेत्रवती शुभा । मानुषं रूपमास्थाय सालंकारं मनोरमम् । आजगाम यतो राजा तेपे परमकं तपः ।। २८.
तां दृष्ट्वा रूपसंपन्नां स राजा क्रुद्धमानसः । उवाच काऽसि सुश्रोणि सत्यं कथय भामिनि ।। २८.
नद्युवाच । अहं जलपतेः पत्नी वरुणस्य महात्मनः । नाम्ना वेत्रवती पुण्या त्वामिच्छन्तीहमागता ।। २८.
साभिलाषां परस्त्रीं च भजमानां विसर्ज्जयेत् । स पापः पुरुषो ज्ञेयो ब्रह्महत्यां च विन्दति । एवं ज्ञात्वा महाराज भजमानां भजस्व माम् ।। २८.
एवमुक्तस्तया राजा साभिलाषोपभुक्तवान् । तस्य सद्योऽभवत् पुत्रो द्वादशार्कसमप्रभः ।। २८.
वेत्रवत्युदरे जातो नाम्ना वैत्रासुरोऽभवत् । बलवानतितेजस्वी प्राग्ज्योतिषपतिर्भवत् ।। २८.
स कालेन युवा जातो बलवान् दृढविक्रमः । महायोगेन संयुक्तो जिगायेमां वसुंधराम् ।। २८.
सप्तद्वीपवतीं पश्चान्मेरुपर्वतमारुहत् । तत्रेन्द्रं प्रथमं जिग्ये पश्चादग्निं यमं ततः । निर्ऋतिं वरुणं वायुं धनदश्चेश्वरं ततः ।। २८.
इन्द्रो भग्नो गतः सोग्निं अग्निर्भग्नो यमं ययौ । यमो निर्ऋतिमागच्छन्निर्ऋतिर्वरुणं ययौ ।। २८.
इन्द्रादिभिरुपेतस्तु वरुणो वायुमन्वगात् । वायुर्धनपतिं त्वागात् सर्वैरिन्द्रादिभिः सह ।। २८.
धनदोऽपि स्वकं मित्रमीशं देवसमन्वितः । इयाय गदया सोऽपि दानवो बलदर्पितः । गदामादाय दुद्राव शिवलोकं प्रति प्रभो ।। २८.
शिवोऽप्यवध्यं तं मत्वा देवान् गुह्य ययौ पुरीम् । ब्रह्मणः सुरसिद्धाद्यैर्वन्दितां पुण्यकारिभिः ।। २८.
तत्र ब्रह्मा जगत्स्त्रष्टा विष्णुपादोद्भवे जले । नियामिताकाशगतो जपत्यन्तर्जले शुभे । क्षेत्रज्ञमायां गायत्रीं ततो देवा विचुक्रुशुः ।। २८.
त्राहि प्रजापते सर्वान् देवानृषिवरानपि । असुराद्भयमापन्नान् त्राहि त्राहीत्यचोदयन् ।। २८.
एवमुक्तस्तदा ब्रह्मा दृष्ट्वा देवांस्तदागतान् । चिन्तयामास देवस्य मायेयं विततं जगत् । नासुरा न सुराश्चात्र मायेयं कीदृशी मता ।। २८.
एवं चिन्तयतस्तस्य प्रादुरासीदयोनिजा । शुक्लाम्बरधरा कन्या स्त्रक्किरीटोज्ज्वलानना । अष्टभिर्बाहुभिर्युक्ता दिव्यप्रहरणोद्यता ।। २८.
चक्रं शङ्खं गदां पाशं खङ्गं घण्टां तथा धनुः । धारयन्ती तथा चान्यान् बद्धतूणा जलाद् बहिः ।। २८.